कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnāvalī

शब्दरत्नावली Śabdaratnāvalī

4,306 verses · 34,698 words tagged · 6,000 marked doubtful (dashed)

भुवकाण्डः · प्राणिवर्गप्रकाशः

इति महाराज श्रीयुतमुछाखान मशलन्दएल्लि विरचितायां शब्दरत्नावल्यां शूद्रवर्गप्रकाशः ॥

योषिद्दारकलत्राद्यैर्विशेष्यं प्रस्तुतं तु यत् ।तल्लिङ्गवचनार्थाश्च क्रियाद्रव्यगुणादयः ॥
4.1.1 · p. 159
अनुष्टुप्
यथा सुकृतिनी स्त्रीयं दाराः सुकृतिनोऽपि च ।कलत्रं सुकृति स्यात्तु विशेषविहितं विना ॥
4.1.2 · p. 159
अनुष्टुप्
सुकृती पुण्यवान् धन्यो धर्मी च धर्मवानपि ।महाशयः महेच्छः स्यान् महानुभाव इत्यपि ॥
4.1.3 · p. 159
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable); pāda 4, syllable 3 नु (wrong syllable)
हृदयालुः सहृदयो भवेत् सुहृदयोऽपि च ।प्रवीणो विज्ञनिष्णातनिपुनाभिज्ञशिक्षिताः ॥
4.1.4 · p. 159
अनुष्टुप्
वैज्ञानिकः कृतमुखस्तथा विज्ञानिकः कृती ।कुशलः कुसलोऽपि स्यात् कुषलश्चापि कुत्रचित् ॥
4.1.5 · p. 159
अनुष्टुप्
पूज्यः प्रतीक्ष्य आर्यः स्यान्मान्यः पूजार्ह इत्यपि ।अथ संशयिकोऽपि स्यात् संशयापन्नमानसः ॥
4.1.6 · p. 159
अनुष्टुप्
दक्षिणार्हः दक्षिणीयो दक्षिण्योऽपि निगद्यते ।वदान्यश्च स्थूललक्षः स्थूललक्ष्यो बहुप्रदः ॥दानवीरो दानशौण्डो दानपूर्णोऽपि कुत्रचित् ।आयुष्मानपि दीर्घायुर्भवेज्जैवातृकोऽपि च ॥
4.1.7 · p. 159
अनुष्टुप्
अन्तर्वाणिः शास्त्रदर्शि-शास्त्रविच्छास्त्रचारिणः ।परीक्षकः कारणिकः परीक्षाकार इत्यपि ॥
4.1.8 · p. 159
अनुष्टुप्
समर्धकः समर्धः स्यात् वरदो वाञ्छितार्थदे ।हर्षमाणो विकुर्वाणः प्रमणाः प्रीतमानसः ॥
4.1.9 · p. 159
अनुष्टुप्
विमना दुर्मना अन्तर्मना दुःखितमानसे ।स्यादुत्क उन्मनास्तु स्यादुत्कण्ठायुक्तमानसे ॥
4.1.10 · p. 159
अनुष्टुप्
ख्यातप्रथितविज्ञातप्रतीतवित्तविश्रूताः ।गुणैः ख्यातेऽपि च कृतलक्षणाहितलक्षणौ ॥
4.1.11 · p. 159
अनुष्टुप्metre not read in every line
धनयुक्ते तु धनवान् इभ्य आट्यो धनीत्यपि ।ईश्वरो नायकः स्वामी प्रभुः परिवृटोऽपि च ॥
4.1.12 · p. 159
अनुष्टुप्
अधिभूरधिपो नेता पालकः पतिरीशिता ।अधिकर्धिः समृद्धः स्यादतिसम्पत्तिशालिनि ॥
4.1.13 · p. 159
अनुष्टुप्
भवेदभ्यागारिकस्तु कुटुम्बव्यापृते जने ।तस्मिन्नुपाधिः पुंस्येव क्लीबादिकविशेषणे ॥
4.1.14 · p. 159
अनुष्टुप्
स्यात् सिंहसंहननो वराङ्गरूपसंयुते ।निर्वार्यः कार्यकर्ता यः सत्त्वसम्पत्तिसङ्गतः ॥
4.1.15 · p. 159
अनुष्टुप्metre not read in every line
मनोजवः पितृनिभः स्यान्मूकोऽवाचि कथ्यते ।कूकुदोऽलङ्कृतां कन्यां सत्कृत्य यो ददाति सः ॥
4.1.16 · p. 159
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त्य (wrong syllable)
श्रीमान् श्रीलश्च लक्ष्मीवान् लक्ष्मणः श्रीयुते जने ।स्निग्धस्तु वत्सलो वत्स-स्नेहयुक्तजने भवेत् ॥
4.1.17 · p. 160
अनुष्टुप्
कृपालुः स्यात् कारुणिको दयालुः सूरतोऽपि च ।स्वच्छन्दोऽपावृतः स्वैरी स्वतन्त्रो निरवग्रहः ॥
4.1.18 · p. 160
अनुष्टुप्
पराधीनश्च परवान् परतन्त्रश्च नाथवान् ।आयत्तो गृह्यको निघ्नोऽस्वच्छन्दोऽधीन इत्यपि ॥
4.1.19 · p. 160
अनुष्टुप्
खलपुः स्याद्बहुकरो भूमिसम्मार्जकोऽपि च ।चिरक्रियो दीर्घसूत्रश्चिरकालस्थिरक्रिये ॥
4.1.20 · p. 160
अनुष्टुप्
जाल्मोऽसमीक्ष्यकारी स्याद्बुद्ध्वा कर्मकारके ।कायेषु मन्दे कुण्ठः स्यात् सन्देहाकुलितेऽपि च ॥
4.1.21 · p. 160
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कर्मक्षमोऽलंकर्मोणः सर्वकार्यक्षमे जने ॥
4.1.22 · p. 160
कर्मशीलो भवेत् कार्मः क्रियावान् कर्मसूद्यतः ।कर्मठः कर्मशूरः स्यात् कर्मशासन इत्यपि ॥
4.1.23 · p. 160
अनुष्टुप्
भरण्यभुक् कर्मकरो वैतानः कर्मकर्तरि ।स्वकीयकार्यकर्ता यः कर्मकारोऽपि स स्मृतः ॥
4.1.24 · p. 160
अनुष्टुप्
आमिषाशी शौष्कलः स्यात् शुष्कलोऽपि निगद्यते ।बुभुक्षितो जिघत्सुः स्यात् क्षुधितोऽप्यशनायितः ॥
4.1.25 · p. 160
अनुष्टुप्
परान्नः परपिण्डादः परभक्तोऽपि स स्मृतः ।भवेत् भक्षणपरे तु घस्मरो भक्षकोऽद्मरः ॥
4.1.26 · p. 160
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 प (wrong syllable)
स्यादौदरिक आद्यूनो विजयेच्छाविवर्जिते ।आत्मम्भरिर्भवेत् कुक्षिम्भरिः स्वोदरपूरके ॥
4.1.27 · p. 160
अनुष्टुप्
सर्वान्नीनस्तु सर्वान्नभोजी सर्वान्नभक्तरि ।लुब्धो गृध्नुर्गर्धनोऽपि स्यात् तृष्णगभिलाषुकः ॥
4.1.28 · p. 160
अनुष्टुप्
मत्ते शौण्डोत्कटक्षीवा अविनीते समुद्यतः ।कामुके कमिताभीकः कम्रः कामयिताभिकः ॥
4.1.29 · p. 160
अनुष्टुप्
अनुकः कमनः कामः कामी च कामिरित्यपि ।आश्रवो विनयग्राही विधेयः वचने स्थितः ॥
4.1.30 · p. 160
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
वश्यो वशः प्रणेयः स्यात् प्रगल्भः प्रतिभायुते ।अधृष्टस्त्वप्रगल्भः स्यात् शालीनोऽप्रतिभोऽपि च ॥
4.1.31 · p. 160
अनुष्टुप्
धृष्टो धृष्णुर्वियातश्च तथा धर्षित इत्यपि ।स्याद्विनीते तु निभृतः प्रश्रितोऽपि निगद्यते ॥स्याद्विलक्षो विलक्ष्यश्च विस्मयान्वित इत्यपि ।अधीरः कातरोऽपि स्यात् द्वयं धैर्यविवर्जिते ॥स्यात् त्रस्नुर्भीरुको भीरुर्भीलुर्भीलुक इत्यपि ।स्यादाशंसुक आशंसुर्भवेदाशंसिता च सः ॥
4.1.32 · p. 160
अनुष्टुप्
पातुकः पतयालुः स्यात् श्रद्धालुः श्रद्धयान्वितः ।लज्जाशीलो लज्जितः स्यादपत्रपिष्णुरित्यपि ॥
4.1.33 · p. 161
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त्र (wrong syllable)
अभिवादस्तु वन्दारुरभिवादयितापि च ।घातुको हिंसको हिंस्रः शरारुरपि हन्तरि ॥
4.1.34 · p. 161
अनुष्टुप्
वर्धिष्णुर्वर्धनोऽपि स्यात् द्वयं वर्धनशीलके ।अलंकर्ताऽलंकरिष्णुर्मण्डनोऽपि च भूषके ॥
4.1.35 · p. 161
अनुष्टुप्
उत्पतिता चोत्पतिष्णौ वर्तिष्णौ वर्तनोऽपि च ।भविष्णुर्भविता भृष्णौ सान्द्रस्निग्धे तु मेदुरः ॥
4.1.36 · p. 161
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ति (wrong syllable)
क्षिप्नुर्निराकरिष्णौ स्यात् विकासिनि विकस्वरः ।वेदिता विदुरो विन्दुर्ज्ञाता ज्ञानसमन्विते ॥
4.1.37 · p. 161
अनुष्टुप्
प्रसारी स्याद्विसृमरो विसारी स्यात् विसृत्वरः ।तितुक्षुः क्षमिना क्षन्ता सहिष्णुः सहनः क्षमी ॥
4.1.38 · p. 161
अनुष्टुप्
क्रोधनः कोपनः कोपी तथाऽमर्षण इत्यपि ।अत्यन्तकोपने चण्डो घूर्णिते प्रचलायितः ॥
4.1.39 · p. 161
अनुष्टुप्
जागरूको जागरिता द्वयं जागरशीलके ।निद्राशीले तु निद्रालुः शयालुः स्वप्नगित्यपि ॥
4.1.40 · p. 161
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 जा (wrong syllable)
निद्राणः शयितेऽपि स्यात् पराचीनः पराङ्मुखः ।अवाङधोमुखः स्यात्तु देवद्र्यङ् देवपूजकः ॥
4.1.41 · p. 161
अनुष्टुप्
विश्वगञ्चति विश्वद्र्यङ् सध्र्यङ् यश्च सहाञ्चति ।यस्तिरोऽचति तिर्यङ् स्यादुदङ् यश्चोर्ध्वमञ्चति ॥
4.1.42 · p. 161
अनुष्टुप्
यः समञ्चति सम्यङ् स्यादद्रङ् त्वमुकञ्चति ।वदावदो वदो वक्ता त्रयं सामान्यवक्तरि ॥
4.1.43 · p. 161
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
वाग्ग्मी वाग्मी वावदूको वाचोयुक्तिपटुस्तथा ।वागीशो वाक्पतिश्चेति षडेते सुष्टुवक्तरि ॥
4.1.44 · p. 161
अनुष्टुप्
वाचाटोऽपि च वाचालो जल्पाको बहुगर्हवाक् ॥
4.1.45 · p. 161
मुखरो दुर्मुखोऽपि स्यादबद्धमुख इत्यपि ।शक्लः प्रियम्वदे ख्यातः लोहलोऽस्फुट्वाग्भवेत् ॥
4.1.46 · p. 161
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कद्वदो गर्ह्यवादी च द्वयं निन्दितवादिनि ।स्यात् कुवादः कुवचनः कुचरोऽपि निगद्यते ॥
4.1.47 · p. 162
अनुष्टुप्
स्यादशान्तस्वरोऽसौम्यस्वरश्चास्वर इत्यपि ।खणः शब्दने नान्दीवादी नान्दीकरेऽपि च ॥
4.1.48 · p. 162
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
देशकः शासिता शास्ता त्रयं शासनकर्तरि ।अथ सर्वत्रकर्तव्यं सम्मूटेऽज्ञो जडो जलः ॥
4.1.49 · p. 162
अनुष्टुप्
एडमूकोऽनेडमूकः श्रोतुं वक्तुमशिक्षिते ।साम्यः सौम्यो हितप्राये दीर्घे तु व्यायतायतौ ॥
4.1.50 · p. 162
अनुष्टुप्
हर्षणो हर्षकोऽपि स्यात् पूरणः पूरकोऽपि च ।प्रतिवेशी प्रतीवेशी चासन्नगृहमेधिनि ॥
4.1.51 · p. 162
अनुष्टुप्
आमुष्यायणनिर्णीतौ प्रसिद्धपितृकोऽपि च ।निरुत्तरे तु तुष्णीकः तुष्णींशीलोऽपि कथ्यते ॥
4.1.52 · p. 162
अनुष्टुप्
वस्त्रहीने तु नग्नः स्यादवासाश्च दिगम्बरः ।निष्कासितश्चावकृष्टो भवेत् निर्गमिते जने ॥
4.1.53 · p. 162
अनुष्टुप्
धिक्कृतः स्यादवध्वस्तो धिक्कारभर्त्सिते भवेत् ।अभिभूतश्चात्तगर्वो वैरादिभग्नगर्वके ॥
4.1.54 · p. 162
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable); pāda 4, syllable 3 दि (wrong syllable)
दायितो दापितोऽपि स्यात् साधितः शोधितोऽपि च ।अधिक्षिप्ते प्रतिक्षिप्तो बद्धे संयतकीलितौ ॥
4.1.55 · p. 162
अनुष्टुप्
स्यादापत्प्राप्ते आपन्नः संप्राप्तेऽपि च कुत्रचित् ।भयद्रुतः कान्दिशीकः भवेद्भयपलायिते ॥
4.1.56 · p. 162
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 प्ते (wrong syllable)
अभिशस्ते क्षारितश्च भवेदाक्षरितोऽपि च ।अस्थिरे स्यात् सङ्कसूको विहस्तः व्याकुले भवेत् ॥
4.1.57 · p. 162
अनुष्टुप्
उपरक्तो व्यसनार्ते विक्लवो विह्वले मतः ।अथ कश्यः कशार्हे स्यात् विवशोऽरिष्टदुष्टधीः ॥
4.1.58 · p. 162
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 स (wrong syllable)
आततायी स हि भवेत् सन्नद्धो यो वधोद्यतः ।अथ द्वेष्यश्चाक्षिगतो द्वेषयोग्ये भवेद्द्वयम् ॥
4.1.59 · p. 162
अनुष्टुप्
शीर्षच्छेद्यश्च वध्यश्च वधार्हे द्वितयं भवेत् ॥
4.1.60 · p. 162
मुषल्यो मुषलैर्वध्यो विषेण विष्य इत्यपि ।शिश्विदानः कृष्णकर्मा द्वयं मलिनकर्मणि ॥
4.1.61 · p. 163
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ण (wrong syllable)
दोषैकदृक् पुरोभागी दोषमात्रप्रदर्शके ।वक्राशये तु निकृतः कुटिलश्चालनृजुः शठः ॥
4.1.62 · p. 163
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 कुटि (syllable split)
कर्णेजपः सूचकः स्यादनौचित्यप्ररोचके ।परस्परं भेदशीलः पिशुनो दुर्जनः खलः ॥
4.1.63 · p. 163
अनुष्टुप्
क्रूरः पापो नृशंसस्तु घातुकः द्रोहशीलके ।स्यात् प्रतारणशीले तु धूर्तो वञ्चुकवञ्चकौ ॥
4.1.64 · p. 163
अनुष्टुप्
मूर्खो मूढाज्ञवैधेययथाजाताश्च वालिशः ।कदर्ये कृपणः क्षुद्रः किम्पचानः मितम्पचः ॥
4.1.65 · p. 163
अनुष्टुप्
दरिद्रो दुर्विधो दीनो निस्वो दुर्गत इत्यपि ।याचकोऽर्थी याचनको मार्गणश्च वनीयकः ॥
4.1.66 · p. 163
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 या (wrong syllable)
वनीपको भिक्षुकश्च स्याद्भिक्षाकर इत्यपि ।अहङ्कारान्वितोऽहंयुः शुभंयुः स्यात् शुभान्वितः ॥
4.1.67 · p. 163
अनुष्टुप्
दिव्योपपादुका देवा यस्मादयोनिजाश्च ते ।गोमनुष्यतुरङ्गाद्या स्नेहि सर्वे जज्ञयुजाः ॥
4.1.68 · p. 163
metre not recognised
अण्डजाः पक्षिसर्पाद्या घर्मजा मशकादयः ।
4.1.69 · p. 163