जिगीषा
jigīṣāIn 5 kośas: 0 synonym verses, 5 as a nānārtha head word, 6 as a meaning of another word.
आङः कुञ्चिः समानत्यामल्पवक्रे निरो भुजिः ।जिगीषायां दीव्यति स्याज्जयतीति जये स्मृतम् ॥ २१ ॥
अनुष्टुप्
meaningsदीव्यति
उत्प्रेक्षाऽवधारणे स्यात्काव्यालङ्कारभिद्यपि ।कल्माषो राक्षसे पुंसि कृष्णे च कृष्णपाण्डरे ॥कलुषं चाविले पापे किल्विषन्तु रुगागयोः ।कुल्माषः काञ्जिकायान्तु यावके रुग्विशेषके ॥गण्डूषा हस्तिहस्ताग्रे पुंसि वा मुखपूरणे ।प्रसृतोन्मितनीरादौ क्लीबलिङ्गञ्च कुत्रचित् ॥गवाक्षी शक्तवारुण्यां गवाक्षो जालके कपौ ।गोरक्षके नागरङ्गे पिच भवेत्पुमान् ।जिगीषा स्त्री जयेच्छायां व्यवसायप्रकर्षके ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 व (wrong syllable); pāda 4, syllable 3 च (wrong syllable)
जिगीषा as a meaning in nānārtha verses
- धरणिकोश देवनदेवनं व्यवहारे स्याज्जिगीषाक्रीडनादिषु । आसनं करिणां स्कन्धे पीठे गतिनिवर्तने ॥ Dharaṇikośa 19.2.51
- कोषकल्पतरु देवनक्लीबे तु वृत्तौ सलिलेऽथ मेदा स्याज्जीवनाह्वा किल जीवनी तु । जीवन्तिका देवनमन्तिमे स्यात् क्रीडाजिगीषाव्यवहारवाचि ॥ ४५ ॥ Koṣakalpataru 6.21.45
- कोषकल्पतरु त्विष्कान्तौ तथा त्विड्व्यवसायके च रुचौ जिगीषावचसोरपि स्त्री । स्त्री व्यापने विट् श[84a]मले न पुंसि शुषिस्तु शोषो विवरेऽपि च स्त्री ॥ ४३ ॥ Koṣakalpataru 6.30.43
- परमानन्दीयनाममाला त्विष्त्विट् च वाण्यां प्रभायां च जिगीषाव्यवसाययोः । रुचौ तृट् च मता लोभतृष्णयोस्तुः स्मृतौ पुनः ॥ २३ ॥ Paramānandīyanāmamālā 1.23
- परमानन्दीयनाममाला देवनदेवनं तु विहारे स्याज्जिगीषाव्यवहारयोः । द्वापरो युगभेदेऽथ संशये दीपितं त्वथ ॥ २४२ ॥ Paramānandīyanāmamālā 5.16.242
- शब्दरत्नावली देवनतोदनं व्यथने तोत्रे दंशनं वर्मदंशयोः । दर्शनं दर्पणे शास्त्रे नयनस्वप्नबुद्धिषु ॥ दमनः कुसुमे वीरे उपशान्तेऽपि कुत्रचित् । दशनः शिखरे दन्ते कवचे तु नपुंसकम् ॥ दहनो दुष्टचेष्टाग्निभल्लाते चित्रकेऽपि च । दृशानं तेजसि क्लीबं स्यात्पुमांस्तु विरोचने ॥ देवनन्तु जिगीषायां स्यात्क्रीडाव्यवहारयोः । अक्षेषु देवनः पुंसि सेवायामपि देवना ॥ ध्वजी रथे च भूदेवे भये सर्पे धराधरे । धन्वी ककुभवृक्षे स्यादर्जुने च धनुर्धरे ॥ धन्व क्लीबे स्थले चापे धन्वा ना मरुदेशके । धमनो नालभेदे भस्त्राध्मापकक्रूरयोस्त्रिषु ॥ धमनी च शिराहट्टविलासिन्योरपि स्त्रियाम् । धावनन्तु गतौ शुद्धै पृश्नीपर्ण्यान्तु धावनी ॥ धाम गेहे तनौ रश्मौ स्थाने प्रभावजन्मनोः । नन्दनं वासवोद्यानं पुमानात्यजहर्षयोः ॥ नन्दी हरद्वारपाले कन्दवाले वटद्रुमे । नन्दिन्युमाधेनुभेदगङ्गाननान्दृषु स्त्रियाम् ॥ नलिन्याकाशगङ्गायां पद्मिन्यां कमलाकरे । अम्भोरुहे तु न पुमान् नीलिकायां नपुंसकम् ॥ निदानं वत्सदामादिकारणे क्षयकारणे । निधनं नाशकुलयोः प्रधनं युधि दारुणे ॥ पवनं स्यात्कुम्भकारपाकस्थाने नपुंसकम् । स्यात्पुमांस्तु जगत्प्राणे निष्पावे प्रयतेऽपि च ॥ प्रधानं प्रकृतिप्रज्ञामहामात्यपरात्मसु । एकत्वे चोत्तमे क्लीबं वाच्यलिङ्गन्तु कुत्रचित् ॥ पद्मिनी स्त्रीविशेषे स्यात्पद्मसङ्घे सरोऽम्बुजे । प्रसन्ना स्त्री सुरायां स्यात्सन्तुष्टामलयोस्त्रिषु ॥ प्रसूनं पुष्पफलयोः क्लीबं जाते तु वाच्यवत् । पत्री पत्ररथे श्येनेऽत्रिकाण्डे रथिके त्रिषु ॥ पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावचिह्नभेदयोः । स्याद्दर्शप्रतिपत्सन्धौ विषुवत्प्रभृतिष्वपि ॥ पक्ष्मसूत्रांशमुद्रादिकिञ्जल्कनेत्ररोमसु । पाठीनः पाठके मीनभेदे च गुग्गुलुद्रुमे ॥ Śabdaratnāvalī 7.20.57