All kośas › Nānārthārṇavasaṃkṣepa
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa
5,800 verses · 33,357 words tagged · 12,179 marked doubtful (dashed)
त्र्यक्षरकाण्डः · स्त्रीलिङ्गाध्यायः
इति द्व्यक्षरकाण्डः नानालिङ्गाध्यायः ।
द्व्यक्षरकाण्डः समाप्तः
Book part 2
त्र्यक्षरकाण्डः ।
स्त्रीलिङ्गाध्यायः ।
अथ खल्वयमत्यन्तः काण्डः प्रस्तूयतेऽधुना ।नानार्थत्र्यक्षराणां य सर्वस्व काव्यकारिणाम् ॥ १ ॥
3.1.1 · p. 1
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्व (wrong syllable)
तत्रादौ तावदध्यायः स्त्रीलिङ्गानां प्रणीयते ।अथ स्त्रियामभिख्या स्याच्छोभायां कीर्तिसंज्ञयोः ॥ २ ॥
3.1.2 · p. 1
अनुष्टुप्
प्रज्ञायामपि विख्यातावभिधा तूक्तिसंज्ञयोः ।अहल्या तु सरोभेदे भार्यायां गौतमस्य च ॥ ३ ॥
3.1.3 · p. 1
अनुष्टुप्
अवका स्याज्जलतृणे ज्ञेया चिञ्चोटिकाह्वये ।शैवले चाप्यथाध्यण्डा त्वामलक्यात्मगुप्तयोः ॥ ४ ॥
3.1.4 · p. 1
अनुष्टुप्
असिक्नी तु निशीथिन्यां नदीभेदे तु कश्चन ।तथैवान्तःपुरप्रेष्यस्त्रियां स्यादवनिः पुनः ॥ ५ ॥
3.1.5 · p. 1
अनुष्टुप्
भूमिनद्यगुलीषु स्यादङ्गुलिस्तु गजस्य च ।कराग्रे कर्णिकासंज्ञे शाखास्वप्यङ्घ्रिहस्तयोः ॥ ६ ॥
3.1.6 · p. 1
अनुष्टुप्
अनुष्टुप् छन्दसो भेदे ज्ञेया द्वात्रिंशदक्षरे ।तथा देवासुरादीनां छन्दोभेदेषु च स्मृता ॥ ७ ॥
3.1.7 · p. 1
अनुष्टुप्
वाचि सम्भावनायां तु स्यादाशङ्का भयेऽपि च ।आकृतिस्तु शरीरे स्यादाकारव्यक्तिजातिषु ॥ ८ ॥
3.1.8 · p. 1
अनुष्टुप्
अष्टाशीत्यक्षरे च स्याच्छन्दोभेदेऽप्यथाततिः ।अन्धकारे तथा मार्गे विस्तारे च प्रकीर्तिता ॥ ९ ॥
3.1.9 · p. 1
अनुष्टुप्
आयतिर्दीर्घतायां स्यात् प्रभावागामिकालयोः ।आहतियज्वना स्याच्च स्रुगासादनकर्मणि ॥ १० ॥
3.1.10 · p. 2
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ति (wrong syllable)
ताडने चाप्यथालप्तिः कीर्तिता गीत्युपक्रमे ।तथेवालपने विद्यात् त्वासन्दीमासनान्तरे ॥ ११ ॥
3.1.11 · p. 2
अनुष्टुप्
केचिद्वेत्रासनेऽन्ये तु वदन्त्यासनमात्रके ।इन्द्राणी तु शचीदेव्यां रतबन्धान्तरे तथा ॥ १२ ॥
3.1.12 · p. 2
अनुष्टुप्
स्त्रीणां स्यात् सिन्धुवाराख्यवृक्षे च स्यादथोपधा ।शब्दस्यान्त्यादलः पूर्ववर्णे च सुपरीक्षणे ॥ १३ ॥
3.1.13 · p. 2
अनुष्टुप्
उपधानक्रियाया चच्छन्दनाया च कीर्तिता ।माघस्य कोपधेत्यत्र मृग्योऽर्थ उपधापदे ॥ १४ ॥
3.1.14 · p. 2
अनुष्टुप्
उर्वरा सर्वसस्याढ्यभूमौ स्याद्भूमिमात्रके ।ऋच्छरा त्वङ्गुली ज्ञेया वेश्यायां चाथ कर्णिका ॥ १५ ॥
3.1.15 · p. 2
अनुष्टुप्
करिहस्ताङ्गुलौ पद्मबीजकोश्या च भूषणे ।कर्णस्य मध्यमाङ्गुल्यामपि कश्चिदभाषत ॥ १६ ॥
3.1.16 · p. 2
अनुष्टुप्
कणिका तिलमण्डे गोधूमे तच्चूर्णके लवे ।कलशिर्भेषजस्तम्बे पृश्निपर्णीति विश्रुते ॥ १७ ॥
3.1.17 · p. 2
अनुष्टुप्
दधिप्रमथनस्थाल्यां स्यात् कृपाण्या तु कर्तरी ।इषोः पुङ्खे च कर्णान्धूः पुनरुत्क्षिप्तिकाह्वये ॥ १८ ॥
3.1.18 · p. 2
अनुष्टुप्
कर्णभूषणभेदे स्यात् कर्णपाल्यामपि स्मृता ।काकणी मानदण्डस्य माषस्य च पणस्य च ॥ १९ ॥
3.1.19 · p. 2
अनुष्टुप्
तुर्येंऽशे पादुकायां च कपर्दानां च विंशतौ ।एकस्मिंश्च कपर्दे स्यादिति प्राहुर्मनीषिणः ॥ २० ॥
3.1.20 · p. 2
अनुष्टुप्
कारवी बाप्पिकासंज्ञभेषजे कृष्णजीरके ।अजमोजाविशेषे च खराश्वासंज्ञके तथा ॥ २१ ॥
3.1.21 · p. 3
अनुष्टुप्
शतपुष्पासमाख्ये च भैषज्ये भाषिता बुधैः ।कालिन्दी यमुनानद्यां कृष्णभार्यान्तरे तया ॥ २२ ॥
3.1.22 · p. 3
अनुष्टुप्
किणिही स्यादपामार्गे गिरिकर्ण्यां च भाषिता ।कुसृतिस्तु कुमार्गे स्यात् कुगतौ शाठ्य एव च ॥ २३ ॥
3.1.23 · p. 3
अनुष्टुप्
कूर्चिका मस्तुपिण्डे स्यात् सूचितूलिकयोरपि ।कवाटस्याङ्कुटे चापि खलिनी तु खलव्रजे ॥ २४ ॥
3.1.24 · p. 3
अनुष्टुप्
वाराहीमुसलीत्यादिपदैः स्तम्बे च विश्रुते ।ग्रहणी तूदरव्याधिविशेषे मृत्युमेढ्रयोः ॥ २५ ॥
3.1.25 · p. 3
अनुष्टुप्
भद्राशट्योस्तु गन्धालीत्येतद्रभसभाषितम् ।गुडूची(त्य?त्व)मृतानाम्नि वल्ल्या कुस्तुम्बुरुण्यपि ॥ २६ ॥
3.1.26 · p. 3
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
गोजिह्वा दार्विकासंज्ञस्थावरे परिकीर्तिता ।मनःशिलायां गोश्चापि जिह्वायां क्षुद्रधान्यके ॥ २७ ॥
3.1.27 · p. 3
अनुष्टुप्
गवीथुरिति विख्याते गोलोमी तु वचाह्वये ।भेषजे सितदूर्वायां भूतकेशाख्यवस्तुनि ॥ २८ ॥
3.1.28 · p. 3
अनुष्टुप्
घटिका तु मुहूर्ताख्ये काले नाडीद्वयात्मके ।गवादिदोहपात्रे च पारिसंज्ञे प्रकीर्तिता ॥ २९ ॥
3.1.29 · p. 3
अनुष्टुप्
घृताची स्वप्सरोभेदे निशायां च प्रकीर्तिता ।चर्चरी चर्भटिरिति प्रसिद्धे हास्यवाक्यके ॥ ३० ॥
3.1.30 · p. 3
अनुष्टुप्
उक्ता कर्पटिकानां च गीतभेदे मनीषिभिः ।चिरण्टी त्ववगन्तव्या द्वितीयवयसि स्त्रियाम् ॥ ३१ ॥
3.1.31 · p. 3
अनुष्टुप्
सुवासिनीति प्रथिते स्त्रीविशेषे च कोविदैः ।चुलकी शिशुमा(रो?रे) स्यात् कुण्डीभेदे कुलान्तरे ॥ ३२ ॥
3.1.32 · p. 3
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
जिगीषाशब्द उद्दिष्टो व्यवसायजयेच्छयोः ।जुगुप्सा तु घृणायां च निन्दायां चाथ झल्लरी ॥ ३३ ॥
3.1.33 · p. 4
अनुष्टुप्
वाद्यभेदेऽजयस्त्वाह हुड्डुक्क इति चिन्त्यधी ।अवस्थाभेदमापन्ने केशभेदे च कीर्तिता ॥ ३४ ॥
3.1.34 · p. 4
अनुष्टुप्
झम्पटिक्षुविगब्दाभ्यां प्रसिद्धे शब्दवेदिनाम् ।छत्रान्तालम्बिवस्त्रे च तृणता तु धनुष्यपि ॥ ३५ ॥
3.1.35 · p. 4
अनुष्टुप्
तृणत्वे चेति बहुभिः कविना चोररीकृतम् ।तच्चास्मभ्यं न रोचिष्णु तृणतभ्रेषशङ्कया ॥ ३६ ॥
3.1.36 · p. 4
अनुष्टुप्
दीधितिस्त्वङ्गुलौ रश्माविभीधेन्वोस्तु धेनुका ।नालिका तु चतुर्हस्तप्रमाणे युगसंज्ञके ॥ ३७ ॥
3.1.37 · p. 4
अनुष्टुप्
नवहस्तप्रमाणे च मुनिभिः परिभाषिता ।चुल्लीरन्ध्रे च रन्ध्रे च नाले काले तथैव च ॥ ३८ ॥
3.1.38 · p. 4
अनुष्टुप्
वेणुभाजनभेदे च जलशाकलतान्तरे ।कलम्बीशतपर्वादिशब्दैः शास्त्रेषु विश्रुते ॥ ३९ ॥
3.1.39 · p. 4
अनुष्टुप्
निर्वृतिर्मनसस्तोषे मोक्षेऽस्तमयबाढयोः ।नियतिः सयमे दैवे निकृतिः शठशाठ्ययोः ॥ ४० ॥
3.1.40 · p. 4
अनुष्टुप्
नितत्निस्तु तृतीयस्यां कृत्तिकायां निबोधत ।सप्तानां कृत्तिकानां तु दूर्वायामपि मन्वते ॥ ४१ ॥
3.1.41 · p. 4
अनुष्टुप्
निःश्रेणिस्त्वधिरोहण्यां खर्जूरीभूरुहेऽप्यथ ।शेफालिकायां निर्गुण्डी सिन्दुवारेऽथ नैचिकी ॥ ४२ ॥
3.1.42 · p. 4
अनुष्टुप्
उत्तमायां गवि प्रोक्ता शिरोदेशे च सा गवाम् ।प्रक्रिया त्वधिकारे स्याच्छब्दस्योत्पादनेऽपि च ॥ ४३ ॥
3.1.43 · p. 4
अनुष्टुप्
प्रकारे च प्रतिष्ठा तु स्थितौ माहात्म्य एव च ।षोडशाक्षरके चापिच्छन्दोभेदे च गौरवे ॥ ४४ ॥
3.1.44 · p. 4
अनुष्टुप्
क्षितौ ह्रस्वेऽपि पठिता समाम्नाये मनीषिणा ।प्रतिमा तु प्रतिकृतौ गजानां दन्तबन्धने ॥ ४५ ॥
3.1.45 · p. 5
अनुष्टुप्
रभसोऽनुकृतौ चाह खेये तु परिखाम्बुधौ ।भूभृत्यपि समाम्नाता समानाये मनीषिणा ॥ ४६ ॥
3.1.46 · p. 5
अनुष्टुप्
प्रकृतिः पञ्चभूतेषु स्वभावे मूलकारणे ।कारणे शिश्नयोन्योश्च जन्त्वमात्यादिमातृषु ॥ ४७ ॥
3.1.47 · p. 5
अनुष्टुप्
प्रत्ययात् पूर्वभागे चच्छन्दसोश्चोभयोरपि ।अष्टाक्षरेऽप्यत्युक्ताख्ये तथा सलिलसंज्ञके ॥ ४८ ॥
3.1.48 · p. 5
अनुष्टुप्
विज्ञेया चतुराशीतिस्वरे च प्रसृतिः पुनः ।तन्तौ वाचि च जाले वा तात्पर्येऽपि च बन्धने ॥ ४९ ॥
3.1.49 · p. 5
अनुष्टुप्
अथ प्रवृत्तिर्वार्तायां व्यापारे हस्तिनां मदे ।कुलत्थसंज्ञधान्ये चाप्युच्चारेऽपि च सज्जन ॥ ५० ॥
3.1.50 · p. 5
अनुष्टुप्
प्रवाहे च प्रसूतिस्तु पुत्रयोरपि जन्मनि ।प्रसवाख्यक्रियायां च वल्लीविस्तारयोः पुनः ॥ ५१ ॥
3.1.51 · p. 5
अनुष्टुप्
प्रततिर्वैजयन्त्यां तु वीरुधीत्याह शब्दवित् ।पक्षतिः पक्षमूलेऽपि प्रतिपत्संज्ञके तिथौ ॥ ५२ ॥
3.1.52 · p. 5
अनुष्टुप्
पद्धतिः पथि पतौ च परीष्टिस्तु परीक्षणे ।मार्गणे परिचर्यायामभितो यजनेऽपि च ॥ ५३ ॥
3.1.53 · p. 5
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 प (wrong syllable)
प्रवेणी तु कुथायां च वेण्यां चाथ प्रतोल्यसौ ।पुरस्य गोपुरे चापि रथ्यायां प्रतिपत् पुनः ॥ ५४ ॥
3.1.54 · p. 5
अनुष्टुप्
स्याद्बहिष्पवमानस्य प्रथमायामृचि स्मृता ।पक्षस्य प्रथमायां च तिथौ बाधेऽपि कीर्तिता ॥ ५५ ॥
3.1.55 · p. 5
अनुष्टुप्
प्राचिका तु भवेत् तत्र या भवेद्वनमक्षिका ।श्येनासंज्ञविहङ्गे च पालङ्क्यां तु प्रकीर्तिता ॥ ५६ ॥
3.1.56 · p. 5
अनुष्टुप्
शाकभेदे च रभसः सल्लक्यामप्यभाषत ।पापर्द्धिमृगयायां स्यात् पापर्द्धौ च प्रकीर्तिता ॥ ५७ ॥
3.1.57 · p. 5
अनुष्टुप्
पाताली वागुरास्थाल्योर्जङ्घामासे तु पिण्डिका ।रथचक्रस्य नाभौ च गृहधिष्ण्येऽथ पूतना ॥ ५८ ॥
3.1.58 · p. 6
अनुष्टुप्
देवजातिविशेषे च हरीतक्यां च-- च ।रवेः शतानि चत्वारि रश्मीनां वृष्टिसृष्टये ॥ ५९ ॥
3.1.59 · p. 6
अनुष्टुप्metre not read in every line
तेषां तुर्यशते ये स्यू रश्मयः पृतना पुनः ।सेनाभेदे च वाहिन्यास्त्रिगुणात्मनि सा तथा ॥ ६० ॥
3.1.60 · p. 6
अनुष्टुप्
सेनायामपि युद्धे च पृथिवी तु महीखयोः ।पृथ्वीका पुनरेलायां स्यात् तथा कृष्णजीरके ॥ ६१ ॥
3.1.61 · p. 6
अनुष्टुप्
बलाका तूदिता सर्वैर्बिसकण्ठ्याख्यपक्षिणि ।शाकटायनसूरिस्तु व्याचष्टे स्मादिशाब्दिकः ॥ ६२ ॥
3.1.62 · p. 6
अनुष्टुप्
बन्धक्यां कुलटायां चेत्यथात्र रभसोऽपठीत् ।स्याद्वारललनायां च व्रीहिभेदे च बर्बटी ॥ ६३ ॥
3.1.63 · p. 6
अनुष्टुप्
भित्तिका तु नदीभेदे शरावत्याह्वये स्मृता ।तथा माषादिचूर्णे च वैजयन्त्यां त्वभूद्भ्रमः ॥ ६४ ॥
3.1.64 · p. 6
अनुष्टुप्
लिपिसङ्करतः स्थाने शरावत्याः शतावरी ।अस्यार्थत्वेन निर्दिष्टा स्थेयान् वै शाकटायनः ॥ ६५ ॥
3.1.65 · p. 6
अनुष्टुप्
ब्रवीति वजे रभसः पुनरत्र पठत्यमुम् ।भूजम्बूरिति गोधूमे विकङ्कतफलेऽपि च ॥ ६६ ॥
3.1.66 · p. 6
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 व (wrong syllable)
मञ्जूषावाक् तु पेडायां पुरे च कथिता बुधैः ।मर्यादा तु व्यवस्थायां सीमायां च प्रकीर्तिता ॥ ६७ ॥
3.1.67 · p. 6
अनुष्टुप्
अथो मनाका कामिन्यां हस्तिन्यां च प्रकीर्तिता ।अथात्र रभसेनायमर्धश्लोक उदारितः ॥ ६८ ॥
3.1.68 · p. 6
अनुष्टुप्
स्यात् कृत्रिमा मातृका या दातृका कारणे स्वरे (१) ।इत्येवमथ मीमांसा वेदवाक्यार्थचिन्तके ॥ ६९ ॥
3.1.69 · p. 7
अनुष्टुप्
शास्त्रे विचारणायां च सूरिभिः परिभाषिता ।मुरली वशवाद्ये च काहलायाश्च भेदके ॥ ७० ॥
3.1.70 · p. 7
अनुष्टुप्
पुण्डिकासंज्ञकेऽथ स्याद् मेखला कटिसूत्रके ।काच्यामिति तु सिंहाद्याः श्रोणिस्थाने तु केचन ॥ ७१ ॥
3.1.71 · p. 7
अनुष्टुप्
खड्गत्सरु निबध्नन्ति येन द्रव्येण तत्र च ।पर्वतस्य नितम्बेऽपि रशना त्वङ्गुलावपि ॥ ७२ ॥
3.1.72 · p. 7
अनुष्टुप्
काञ्च्यां च रेणुका तु स्याद्वरेण्याह्वयभेषजे ।जमदग्नेश्च भार्यायामथ स्याद्रेवती गवि ॥ ७३ ॥
3.1.73 · p. 7
अनुष्टुप्
बलभद्रस्य पत्न्यां च पौष्णनक्षत्र एव च ।तद्युक्तकालमात्रे च तत्र जातस्त्रियामपि ॥ ७४ ॥
3.1.74 · p. 7
अनुष्टुप्
मालत्यां भेषजस्तम्बे नागदन्तीति विश्रुते ।केषुचित् सामभेदेषु रेवत्य इति भूम्नि च ॥ ७५ ॥
3.1.75 · p. 7
अनुष्टुप्
प्रत्येकं स्युस्तृचे चापि रेवतीर्नउपक्रमे ।मातृष्वप्याह रभसः शब्दवेदी सुधीरथ ॥ ७६ ॥
3.1.76 · p. 7
अनुष्टुप्
पथ्यायां गव्युमाकन्यालोहिनीषु च रोहिणी ।कण्ठरोगप्रभेदे च नक्षत्रे च प्रजापतेः ॥ ७७ ॥
3.1.77 · p. 7
अनुष्टुप्
तद्युक्ते कालमात्रे च तत्र जातस्त्रियामपि ।श्रुतौ तु मूलनक्षत्रेऽप्याम्नाता दृश्यते बुधैः ॥ ७८ ॥
3.1.78 · p. 7
अनुष्टुप्
कृष्णस्य पत्नीभेदेषु प्रधानेष्वेकयोषिति ।लक्तिका गवि गोधायां वाद्यभेदे च कीर्तिता ॥ ७९ ॥
3.1.79 · p. 7
अनुष्टुप्
लुम्बिका तु स्त्रियां वाद्यभेदे भक्षान्तरे तथा ।उलुम्बसंज्ञे वनिता पुनः स्निग्धस्त्रियामपि ॥ ८० ॥
3.1.80 · p. 8
अनुष्टुप्
स्त्रीमात्रे च वरत्रा तु वर्ध्र्यां वर्तौ च कीर्तिता ।वसतिस्तु गृहे रात्राववस्थाने जिनाश्रमे ॥ ८१ ॥
3.1.81 · p. 8
अनुष्टुप्
वर्तनिस्तु भवेद्वृत्तौ मार्गे स्यात् तक्रपिण्डके ।स्याद्वल्लरिस्तु मञ्जर्यां लतायां च धनञ्जयः ॥ ८२ ॥
3.1.82 · p. 8
अनुष्टुप्
वलभिन्तु पुरीभेदे कूटागारेऽपि कीर्तिता ।वाशिता तु करिण्यां च स्त्रियां चाप्यथ वाणिनी ॥ ८३ ॥
3.1.83 · p. 8
अनुष्टुप्
मत्तयोषिति नर्तक्यां विदग्धायां च कीर्तिता ।वाणीचिस्तु स्मृता योगे छायायामपि वाचि च ॥ ८४ ॥
3.1.84 · p. 8
अनुष्टुप्
विरजा तूड्रदेशस्थे पूर्भेदे जम्बुपादपे ।वितण्डा तु भवेत् कच्छीशाके रभसभाषिता ॥ ८५ ॥
3.1.85 · p. 8
अनुष्टुप्
स्वपक्षस्थापनाहीनवादे तार्किकविश्रुता ।विपणिः पण्यवीथ्यां स्यादापणेऽपि प्रकीर्तिता ॥ ८६ ॥
3.1.86 · p. 8
अनुष्टुप्
स्याद्विच्छित्तिस्तु विच्छेदे भावभेदे च योषिताम् ।स चायं वस्त्रमाल्यादेर्न्याऽनास्थोपशोभितः ॥ ८७ ॥
3.1.87 · p. 8
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अथो विपञ्ची वीणायां वीणाभेदे च सोऽप्यसौ ।नवतन्त्रीकोऽल्पदण्डो विदारी तु रुगन्तरे ॥ ८८ ॥
3.1.88 · p. 8
अनुष्टुप्
क्रोष्ट्रीसंज्ञलताभेदेऽप्युक्ता वेद्यां तु वेदिका ।तथैवाङ्गुलिमुद्रायां शर्करा तु शिलान्तरे ॥ ८९ ॥
3.1.89 · p. 8
अनुष्टुप्
रोगभेदे सितायां च शकलाल्पकपालयोः ।शर्करावत्प्रदेशे च गुडे चाप्याह यादवः ॥ ९० ॥
3.1.90 · p. 8
अनुष्टुप्
ब्रूते तु खण्डविकृतौ रभसो नाप्तभाषणः ।शलाका तु भवेत् सूच्यां द्यूतोपकरणेऽपि च ॥ ९१ ॥
3.1.91 · p. 8
अनुष्टुप्
अस्थूलदीर्घकाष्ठादिमये वस्तुनि चाप्यथ ।श्वदंष्ट्रा गोक्षुराभिख्यस्तम्बे यन्त्रान्तरेऽपि च ॥ ९२ ॥
3.1.92 · p. 9
अनुष्टुप्
परिखायां बहिर्भूमौ राज्ञां दन्तान्तरे शुनाम् ।श्ववृत्तिस्तु शुनां वृत्तौ सेवायां चाथ शष्कुली ॥ ९३ ॥
3.1.93 · p. 9
अनुष्टुप्
अपूपभेदे कर्णस्य प्रदेशे च क्वचित् स्मृता ।शकन्धुर्देवताभेदे तथैव स्याद्वनस्पतौ ॥ ९४ ॥
3.1.94 · p. 9
अनुष्टुप्
शिञ्जिनी नूपुरे मौर्व्यां शुश्रूषा तु कथानके ।उपास्तौ श्रोतुमिच्छायां षण्डाली तु सरस्यपि ॥ ९५ ॥
3.1.95 · p. 9
अनुष्टुप्
स्त्रियामपि सरागायां तैलमानेऽथ सप्तला ।सातलायां तथा गुञ्जानवमालिकयोरपि ॥ ९६ ॥
3.1.96 · p. 9
अनुष्टुप्
सन्धिला तु सुरुङ्गायां नदीमन्दिरयोरपि ।सरघा तु शुनीभेदे देवानां मक्षिकान्तरे ॥ ९७ ॥
3.1.97 · p. 9
अनुष्टुप्
मधुकारिण्यथ श्रेणौ सरणिर्मार्ग एव च ।सन्ततिस्त्वन्ववाये स्यात् पारम्पर्येऽपि पुत्रयोः ॥ ९८ ॥
3.1.98 · p. 9
अनुष्टुप्
सम्मतिस्त्वपि वाञ्छायामनुज्ञापूजयोरपि ।समितिः परिषत्स्थाने युद्धे संसदि सङ्गमे ॥ ९९ ॥
3.1.99 · p. 9
अनुष्टुप्
स्यात् संवित्तिस्तु संवादे ज्ञाने संसिद्धिवाक् पुनः ।सम्यक्सिद्धौ स्वभावे च मेदोग्रायां च कश्चन ॥ १०० ॥
3.1.100 · p. 9
अनुष्टुप्
स्यन्दिनी त्वपि लालायां गोभेदे च क्षरत्स्तने ।सन्धिनी त्वप्यकाले या दुग्धा गोस्तत्र केचन ॥ १०१ ॥
3.1.101 · p. 9
अनुष्टुप्
द्विकालदोह्या सत्येककालं गौर्दुह्यते हि या ।तत्रेत्यन्ये परे त्वाहुर्वृषाक्रान्तगीष्विति ॥ १०२ ॥
3.1.102 · p. 10
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
वत्सान्तरस्य सन्धानात् सन्धिनीत्यपरे विदुः ।सिकतास्तु बहुष्वेकैर्वालुकायामुदीरिता ॥ १०३ ॥
3.1.103 · p. 10
अनुष्टुप्
सिकतावति देशे च तथैव ब्रुवते परे ।सिंहिका तु जनन्यां स्याद् राहो किञ्च महार्णवम् ॥ १०४ ॥
3.1.104 · p. 10
अनुष्टुप्
लङ्घयन्तं हनूमन्तं याप्यगच्छज्जिघांसया ।तस्यामपि च राक्षस्यां कन्याभेदेऽस्य लक्षणम् ॥ १०५ ॥
3.1.105 · p. 10
अनुष्टुप्
अविवाह्यासु कन्यासु नतजातुरिति स्मृतम् ।एतत् त्वदृष्टपूर्वं च द्वेष्यं च रभसोदितम् ॥ १०६ ॥
3.1.106 · p. 10
अनुष्टुप्
सिथिला तु नदीमद्यसुरुङ्गामु भवदिति ।स्तिहिनी तु महीजस्य फले स्यादङ्कुरे तथा ॥ १०७ ॥
3.1.107 · p. 10
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 व (wrong syllable)
सुषवी तु भवेत् कारवल्ल्यां कृष्णे च जीरके ।हरिणिस्तु भवेन्मृत्यौ कुल्यायां ह्रदिनी पुनः ॥ १०८ ॥
3.1.108 · p. 10
अनुष्टुप्