कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Paramānandīyanāmamālā

परमानन्दीयनाममाला Paramānandīyanāmamālā

1,849 verses · 15,356 words tagged · 1,353 marked doubtful (dashed)

प्रथमः परिच्छेदः

परमानन्दीयनाममाला ।

श्रीशारदायै नमः ।

श्रीपरमात्मने नमः ।

प्रथमः परिच्छेदः

यद्ध्यानात्प्राणिनां सद्यो भवन्ति विपुलाः श्रियः ।चिदानन्दस्वरूपाय तस्मै गोस्वामिने नमः ॥ १ ॥
1.1 · p. 1
अनुष्टुप्
यत्स्वरूपेण संव्याप्तं समस्तं वाङ्मयं परम् ।विष्णुनेव जगत्तस्यै नमस्कुर्मो गिरे सदा ॥ २ ॥
1.2 · p. 1
अनुष्टुप्
अन्येषामुपकाराय निजबोधाय च स्फुटम् ।नामपारायणं वक्ष्ये नानावर्गैरहं मुदा ॥ ३ ॥
1.3 · p. 1
अनुष्टुप्
अः कृष्णे गरुडेऽथाश्च द्रुहिणे पुष्पकेतने ।आ निपातः स्मृतौ वाक्ये कोपसंतापयोस्तथा ॥ ४ ॥
1.4 · p. 1
अनुष्टुप्
ईषदर्थक्रियायोगसीमाभिव्याप्तिषूक्त आङ् ।इः कामे कल्मषे चापि निपातः खेदकुब्वचोः ॥ ५ ॥
1.5 · p. 2
अनुष्टुप्
ईर्लक्ष्मीधरयोरुश्च शम्भौ मोक्षोर्ध्वशक्तिषु ।भावे स्यादुत्प्रकाशे च निपातः क्रोधलोभयोः ॥ ६ ॥
1.6 · p. 2
अनुष्टुप्
विभागे बन्धने चापि ऊर्गुरौ पालनेऽवने ।ऋर्देवमातरि क्ष्मायामॄकारो दैत्यमातरि ॥ ७ ॥
1.7 · p. 2
अनुष्टुप्
लृर्देव्यां लॄस्तु वाराह्यां लताभेदेऽपि कीर्तितः ।एर्विष्णुशैलयोरैश्च श[2]म्भावोर्धातरि स्मृतः ॥ ८ ॥
1.8 · p. 2
अनुष्टुप्
अं वेधसि तथा रुद्रेऽप्यंकारः कथितो बुधैः ।कं जले मस्तके सौख्ये कः स्वर्गे स्मरसूर्ययोः ॥ ९ ॥
1.9 · p. 2
अनुष्टुप्
ब्रह्मवायुसुहृत्केकिवह्न्युद्योतमात्मसु ।कुः पापीयसि मह्यां च निवारणकुशब्दयोः ॥ १० ॥
1.10 · p. 2
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
किमाश्चर्ये वितर्के च प्रश्ने क्षेपजुगुप्सयोः ।कियत्यथ खमित्युक्तमिन्द्रियाकाशयोनये ? ॥ ११ ॥
1.11 · p. 2
अनुष्टुप्
चन्द्रबिम्बे वर्णखण्डसंवित्स्वर्गसुखेषु च ।खो रवौ कथितं गीते गं गस्तु गणनायके ॥ १२ ॥
1.12 · p. 2
अनुष्टुप्
गीतगात्रोरथाख्यातो गौर्जले वज्रबाणयोः ।वृषधेन्वोर्गिरौ वाचि नेत्रदिग्भूमुखेषु च ॥ १३ ॥
1.13 · p. 2
अनुष्टुप्
रश्मिवह्न्योश्च सत्याक्षिस्वर्गमातृषु भाषितः ।गीश्च वाण्यां दिशाब्राह्म्योर्दुर्गायामथ घो घटे ॥ १४ ॥
1.14 · p. 3
अनुष्टुप्
रुद्रे च हनने घा तु क्षुद्रघण्टौ घनध्वने ।ङकारो विषये भीमे चस्तरौ चन्द्रचोरयोः ॥ १५ ॥
1.15 · p. 3
अनुष्टुप्
चाव्ययं च समाहारे पक्षान्तरसमानयोः ।कारणे पादपूर्तौ च विनियोगसमस्तयोः ॥ १६ ॥
1.16 · p. 3
अनुष्टुप्
चुः कोकेऽप्यथ संस्थाने छश्चारे छेदके रवौ ।छं वृत्ते निर्मले प्रोक्तं जोऽथ केशवजीवयोः ॥ १७ ॥
1.17 · p. 3
अनुष्टुप्
जूर्व्योमवाचि जवनपिशाच्योः कीटकेऽपि च ।झो मञ्जुलसमीरे स्यान्नष्टेऽपि परिकीर्तितः ॥ १८ ॥
1.18 · p. 3
अनुष्टुप्
ज्ञो मुनौ चतुरे चन्द्रपुत्रे ब्रह्मणि ञः पुनः ।गायने घर्घरध्वानगूढरूपकयोस्तथा ॥ १९ ॥
1.19 · p. 3
अनुष्टुप्
टो भूमिवायुशब्देषु शरीरास्थनि टं पुनः ।गवि ठः सुस्तने रुद्रे चन्द्रमण्डलशून्ययोः ॥ २० ॥
1.20 · p. 3
अनुष्टुप्
डः शब्दभर्गयोर्ध्याने ढो ढक्काध्वविशेषयोः ।णस्तु निःश्रेयसे स्पष्टे निष्कलेऽपि समर्थितः ॥ २१ ॥
1.21 · p. 3
अनुष्टुप्
तशब्दस्तस्करे पुच्छे क्रोडे युद्धेऽपि ता श्रियाम् ।धरण्यामपि ताशब्दः त्वक्च वल्कलचर्मणोः ॥ २२ ॥
1.22 · p. 3
अनुष्टुप्
त्विट् च वाण्यां प्रभायां च जिगीषाव्यवसाययोः ।रुचौ तृट् च मता लोभतृष्णयोस्तुः स्मृतौ पुनः ॥ २३ ॥
1.23 · p. 4
अनुष्टुप्
अव्ययं तु समाहारसाकल्यकरणेष्वपि ।थो भयाद्रक्षणे भूध्रे दम्पत्यां दा प्रदेशने ॥ २४ ॥
1.24 · p. 4
अनुष्टुप्
दाष्णुबन्धनयोर्दृक्स्यान्नेत्रदर्शनयोरपि ।द्योः स्वर्गनभसोर्द्युस्तु व[3]ह्निवासरयोरथ ॥ २५ ॥
1.25 · p. 4
अनुष्टुप्
धः पुनर्धनदे धीरेऽश्ववारकसुचित्रयोः ।धं पृक्ते धीस्तु बुद्धौ स्यान्निषङ्गे धा तु धातरि ॥ २६ ॥
1.26 · p. 4
अनुष्टुप्
गुह्यकेशेऽथ धूर्धूते भरे कम्परथास्ययोः ।नो ज्ञानस्थानयोर्बुद्धे निर्बन्धेऽस्माकमप्यतः ॥ २७ ॥
1.27 · p. 4
अनुष्टुप्
अस्मानस्मभ्यमप्येवं नुः स्तवे न्वव्ययं पुनः ।विकल्पप्रश्नयोस्तर्के निर्भरेऽनुशये नये? ॥ २८ ॥
1.28 · p. 4
अनुष्टुप्
निः क्रीते निश्चये व्यूहे निषेधे नोननाः पुनः ।निपाताः प्रतिषेधार्था नीर्धून्यां नौस्तरी मता ॥ २९ ॥
1.29 · p. 4
अनुष्टुप्
न्यग्नीचकार्त्स्न्ययोर्निम्ने पोऽम्भःपाने च पातरि ।समीरमार्गयोः प्रौढे पूस्तु देहपुरोरपि ॥ ३० ॥
1.30 · p. 4
अनुष्टुप्
फो झंझापवने फेने फूर्वातूलककुब्वचोः ।विण्नरेऽवस्करे वैश्ये बः पद्मघटयोरपि ॥ ३१ ॥
1.31 · p. 4
अनुष्टुप्
विः पक्षिनभसोर्वस्तु प्रचेतसि च शंकरे ।वाग्वचःश्रुतदेव्योः स्याद्वौपम्येऽव्ययमीरितम् ॥ ३२ ॥
1.32 · p. 4
अनुष्टुप्
भः काव्ये भ्रमरे भं तु धिष्ण्यराश्योश्च भाः करे ।प्रभावे साध्वसे भीः स्यात्स्थित्युत्पत्तिमहीषु भूः ॥ ३३ ॥
1.33 · p. 4
अनुष्टुप्
मः शिवे चन्द्रविध्योश्च मा लक्ष्म्यां मातृमानयोः ।निषेधे माव्ययं ख्यातं मा निशाकरमासयोः ॥ ३४ ॥
1.34 · p. 5
अनुष्टुप्
मूर्बन्धवेश्मनोर्योऽथ ब्रह्मवातयमेषु च ।यं जले या रमायात्रोः खट्वाङ्गरथयोरपि ॥ ३५ ॥
1.35 · p. 5
अनुष्टुप्
रः कामवह्निशब्देषु तीव्रे रामे नरे पवौ ।राः स्वर्णधनयोर्मेघे स्थानके रुर्भये ध्वनौ ॥ ३६ ॥
1.36 · p. 5
अनुष्टुप्
रक्षणादित्ययो रीस्तु भ्रमे रूग्रुचिवाञ्छयोः ।घृणिरुग्व्यथयोश्चपि रे हूतावव्ययं स्मृतम् ॥ ३७ ॥
1.37 · p. 5
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 श्च (wrong syllable)
लोऽमृते चलने शक्रे ला दाने लीस्तु कङ्कणे ।श्लेषबन्धनयोः श्रीश्च सरलद्रवसम्पदोः ॥ ३८ ॥
1.38 · p. 5
अनुष्टुप्
लक्ष्मीप्रभाभारतीषु शं सुखश्रेयसोरपि ।शीः स्वापे शुर्निशानाथे षूः प्रसूतौ च षो वरे ॥ ३९ ॥
1.39 · p. 5
अनुष्टुप्
सा लक्ष्म्यां सः परोक्षे स्वो ज्ञातमात्मनि च स्मृतः ।स्वरव्ययं स्वर्गभद्रपरलोकगतिष्वथ ॥ ४० ॥
1.40 · p. 5
अनुष्टुप्
सच्छब्दः पूजिते सत्ये साधूशोभनयोः सति ।स्वं निजे द्रविणे होऽथ वीरे रुद्रे भयंकरे ॥ ४१ ॥
1.41 · p. 5
अनुष्टुप्
ह संबुद्धौ पादपूर्तौ हा दुःखे शुग्विषादयोः ।ही विस्मये विषादे हुं स्वापे प्रश्नवितर्कयोः ॥ ४२ ॥
1.42 · p. 5
अनुष्टुप्
हे संबुद्धौ हं च खेदे क्रोधोक्तौ संस्मृतावपि ।हि हेतौ पादपूर्तौ च क्षः क्षेत्रे रक्षसि क्षये ॥ ४३ ॥
1.43 · p. 5
अनुष्टुप्
विश्वप्रकाशामरहेममुख्यनामाकरान्भूरितरान्निरीक्ष्य ।शिशुप्रबोधाय कृतो विचारः श्रीमज्जगन्नाथपदप्रसक्त्या ॥ ४४ ॥
1.44 · p. 6
उपजातिः