कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnāvalī

शब्दरत्नावली Śabdaratnāvalī

4,306 verses · 34,698 words tagged · 6,000 marked doubtful (dashed)

नानार्थवर्गप्रकाशः · षान्ताः

इति शान्तवर्गः ॥

षकारः श्रेयसि श्रेष्ठे षूश्च गर्भविमोचने ।
7.31.1 · p. 291
अनुष्टुप्
अक्षो रुद्राक्षजातान्धव्यवहारेषु पाशके ॥
7.31.2 · p. 291
अनुष्टुप्
सर्पे विभीतके तार्क्ष्ये चक्रे कर्षे भवेत्पुमान् ।क्लीबे खौवर्चले तुत्थे इन्द्रियेऽपि निगद्यते ॥उषा स्त्री बाणकन्यायां कामिगुग्गुलयोः पुमान् ।ऊषा च रात्रिशेषे स्यादुषाऽव्ययमपीष्यते ॥
7.31.3 · p. 291
अनुष्टुप्
ऋषिर्वेदे वशिष्ठादौ दीधितौ मत्स्यरूपिणि ।ऋक्षं कैतवनक्षत्रधनेष्वपि नपुंसकम् ॥
7.31.4 · p. 291
अनुष्टुप्
पुमान् पर्वतभेदे स्याद्भल्लूके शोणकेऽपि च ।कक्षा स्पर्धापदे बाहुमूले च कर्त्तृणेऽपि च ।काञ्चीगुणेऽन्तरीयस्य पश्चादञ्चलपल्लवे ॥
7.31.5 · p. 291
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
कर्षो मानविशेषे स्यात्कर्षणे च पुमानयम् ।कर्षूः पुंसि करीषाग्नौ स्त्रियां कुल्येष्टखातयोः ॥काक्षी सौराष्ट्रमृद्भदे स्त्रियान्तु वरिकोषधौ ।घोषमाभीरपल्ल्याञ्च ध्वनिगोपालघोषके ॥चोक्षो दक्षे मनोज्ञे च तीक्ष्णे च शुचिगीतयोः ।झषा नागवलायां स्त्री तापमीनवनेषु ना ॥
7.31.6 · p. 291
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 द्भ (wrong syllable)
तर्षो वाञ्छातृषोः पुंसि त्विट् स्त्री वाक्द्युतिकात्तिषु ।तुषो विभीतकतरौ धान्यादित्वचि पुंस्ययम् ॥
7.31.7 · p. 291
अनुष्टुप्
तृषा कामसुतावाञ्छापिपासास्वपि च स्त्रियाम् ।पिपासितस्य वाञ्छायामपि तृट् सैव कीर्त्यते ॥दक्षः पटौ ताम्रचूडे महेशे च प्रजापतौ ।वृषभे वृक्षभेदे स्याद्दक्षा स्त्री चतुराभुवोः ॥
7.31.8 · p. 291
अनुष्टुप्
दोषा भुजे रजन्याञ्च दोषो दूषणपापयोः ।ध्याङ्क्षो भिक्षुकमत्स्याशिपक्षिणोः काककर्कयोः ॥ध्याङ्क्षी कक्कोलिकायान्तु पिशाचीराक्षसीभिदोः ।न्यक्षं साकल्यतृणयोर्महिषे नाऽधमे त्रिषु ॥
7.31.9 · p. 291
अनुष्टुप्
प्लक्षोऽश्वत्थे गर्दभाण्डे जटीद्वीपविशेषयोः ।पक्षः सहाये सुहृदि पार्श्वे मासार्द्धराजयोः ॥विहगे वलये साध्ये विरोधे गृहशुद्धयोः ।चुल्लीरन्ध्रे हस्तिपार्श्वे केशादिपरती व्रजे ॥प्रेक्षा नृत्ये क्षणे वुद्धौ शिक्षायामपि च स्त्रियाम् ।प्रैषः क्लेशे मर्दने च प्रेषणोन्मादयोरपि ॥
7.31.10 · p. 291
अनुष्टुप्
भिक्षा तु भिक्षितद्रव्ये याञ्चासेवागतिष्वपि ।माषो मूर्खे व्रीहिभेदे मानत्वग्दोषयोरपि ॥मिषं छले क्लीबलिङ्गं स्पर्द्धायां ना मिषाव्ययम् ।मेषो भैषज्यभेदे स्यात्पशुभिद्राशिभेदयोः ॥मोक्षो मुक्तौ मोचने स्यात्पाटलौ भवेत्पुमान् ॥
7.31.11 · p. 292
अनुष्टुप्
यक्षो गुह्यकमात्रे स्याद् गुह्यकेश्वर इत्यपि ॥
7.31.12 · p. 292
रूक्षमप्रेम्णि कठिने रक्षा जतुनि रक्षणे ।लक्षं व्याजे शरव्ये च लक्षसंख्यान्तरेऽपि च ॥
7.31.13 · p. 292
अनुष्टुप्
वर्षोऽस्त्री भारताद्यब्दजम्बुद्वीपेषु वर्षणे ।केचित्क्लीवमिति प्राहुर्बहुत्वे प्रावृषि स्त्रियाम् ॥विट् व्याप्तिविष्ठयोः स्त्री स्याद्विषञ्च गरलाम्बुनोः ।भवेदतिविषायां स्त्री विषो दन्तः क्वचिद्भवेत् ॥
7.31.14 · p. 292
अनुष्टुप्
वृषो धर्मे वलीवर्दे संख्याराशिभिदोरपि ।मूषिके शुक्तलेऽपि स्यादुत्तरस्थो वरार्थकः ॥
7.31.15 · p. 292
अनुष्टुप्
वृषा मूषिकपर्ण्यान्तु व्रतिनामासने वृषी ।शुषिः शोषे च विवरे सर्पदन्तान्तरालके ॥
7.31.16 · p. 292
अनुष्टुप्
शेषः सङ्कर्षणेऽनन्तं वधयुक्तेतरेषु च ।शेषा प्रसादार्पणयोरात्यनिर्माल्यकेऽपि च ॥शेषः स्याद्यक्ष्मरोगे ना शोषणे च भवेत्पुमान् ।
7.31.17 · p. 292
अनुष्टुप्
अध्यक्षोऽधिकृते पुंसि प्रत्यक्षेऽतिप्रधानके ॥अभीषुः प्रग्रहे कामकिरणानुरागेषु ना ।उष्णीषोऽस्त्री शिरोवेष्टे किरीटचिह्नभेदयोः ॥
7.31.18 · p. 292
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 रा (wrong syllable); pāda 4, syllable 3 ट (wrong syllable)
उत्प्रेक्षाऽवधारणे स्यात्काव्यालङ्कारभिद्यपि ।कल्माषो राक्षसे पुंसि कृष्णे च कृष्णपाण्डरे ॥कलुषं चाविले पापे किल्विषन्तु रुगागयोः ।कुल्माषः काञ्जिकायान्तु यावके रुग्विशेषके ॥गण्डूषा हस्तिहस्ताग्रे पुंसि वा मुखपूरणे ।प्रसृतोन्मितनीरादौ क्लीबलिङ्गञ्च कुत्रचित् ॥गवाक्षी शक्तवारुण्यां गवाक्षो जालके कपौ ।गोरक्षके नागरङ्गे पिच भवेत्पुमान् ।जिगीषा स्त्री जयेच्छायां व्यवसायप्रकर्षके ॥
7.31.19 · p. 292
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 व (wrong syllable); pāda 4, syllable 3 च (wrong syllable)
तरीषः शोभनाकारे व्यवसायेऽब्धिभेलयोः ।तारिषी शक्रकन्यायां ना स्वर्गाम्बुधिकाञ्चने ॥
7.31.20 · p. 292
अनुष्टुप्
नहुषो नागभेदे स्यात्सूर्यवंशनृपान्तरे ।निकषः शानफलके स्त्रियां राक्षसमातरि ॥निमेषनिमिषौ कालप्रभेदेऽक्षिनिमीलने ।परुषं कर्बुरे रूक्षे तथा निष्ठुरभाषणे ॥प्रदोषः पुंसि दोषे स्यात्तथा च समयान्तरे ।प्रत्यूषः स्याद्दिनमुखे चण्डांशुवसुभेदयोः ॥
7.31.21 · p. 293
अनुष्टुप्
पीयूषममृते सप्तदिवसावधिदुग्धके ।पुरुषः सांख्यतत्त्वज्ञे पुन्नागभूरुहात्मनोः ।पौरुषं पुरुषस्यैव प्रभावे कर्मभावयोः ।ऊर्द्धविस्तृत …मारिषी दक्षमातरि ॥
7.31.22 · p. 293
अनुष्टुप्metre not read in every line
मृगाक्षी तु विशालायां मृगनेत्रा सुयोषितीः ।मारिषः शाकभेदे स्यादार्द्रे नाहोक्तितः पुमान् ॥
7.31.23 · p. 293
अनुष्टुप्
मारिषा राक्षसीभेदे … समुपाशने ।शैलूषस्तु नटे धूर्ते श्रीफले तालधारके ॥
7.31.24 · p. 293
अनुष्टुप्metre not read in every line
संघर्षो घर्षणस्पर्धासंसर्पे च पुंस्ययम् ।समीक्षा तु मनीषायां तत्त्वे यत्ने निभालने ॥
7.31.25 · p. 293
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अनेकर्षो रथाधःस्थकाष्ठेऽनुकर्षणेऽपि च ॥
7.31.26 · p. 293
अम्बरीषो हरे भूपकिशोरमिहिरेषु ना ।क्लीबलिङ्गं रणे भाष्ट्रेऽनुतपिनरकेऽस्त्रियाम् ॥
7.31.27 · p. 293
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 त (wrong syllable)
अनिमेषः सुरे मीने कामिनीबन्धमित्यपि ।अनुतर्षः सुरापानपात्रे तृष्णाभिलाषयोः ॥
7.31.28 · p. 293
अनुष्टुप्
अहिद्विड्गरुडे शक्ते मयूरे नकुलेऽपि च ।अलम्बुषः प्रहस्ते स्याच्छर्दने तालरक्षसोः ॥
7.31.29 · p. 293
अनुष्टुप्
अलम्बुषा तु मुण्डरी स्वर्वेश्याभेदयोरपि ।भवेत्किंपुरुषो लोकविशेषे किन्नरेऽपि च ॥
7.31.30 · p. 293
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 ण्ड (wrong syllable)
नन्दिघोषोऽर्जुनरथे पुंसि वन्दिजनस्तुतौ ॥
7.31.31 · p. 293
परिघोषस्तु निनदे दुर्वाच्ये जलदस्वने ॥
7.31.32 · p. 293
परिवेषस्तु परिधौ स्वकरे परिवेषणे ।पलङ्कषा तु मुण्डीर्यां लाक्षागुग्गुलगोक्षुरे ॥
7.31.33 · p. 293
अनुष्टुप्
रास्नाकिंशुकयोः स्त्री तु राक्षसे तु पलङ्कषः ।वीरवृक्षस्तु भल्लातककुभद्रुमयोरपि ।भूतवृक्षस्तु शाखोटद्रुमश्योनाकवृक्षयोः ॥
7.31.34 · p. 293
अनुष्टुप्
महाघोषश्चातिशब्दहहकर्कटशृङ्गीषु ।राजवृक्षः पियालद्रुस्वर्भानुद्रुमयोरपि ॥
7.31.35 · p. 293
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 ङ्गी (wrong syllable)
विशालाक्षो हरे तार्क्ष्ये दीर्घनेत्र-सुनेत्रयोः ॥
7.31.36 · p. 294