कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

तालाङ्क

tālāṅkaपुं · masc.

In 7 kośas: 6 synonym verses, 2 as a meaning of another word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.24
बलभद्रः प्रलम्बघ्नो बलदेवोऽच्युताग्रजः ।रेवतीरमणो रामः कामपालो हलायुधः ॥ २३ ॥नीलाम्बरो रौहिणेयस्तालाङ्को मुसली हली ।सङ्कर्षणः सीरपाणिः कालिन्दीभेदनो बलः ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.19 · p. 9
बलभद्रः प्रलम्बारिस्तालाङ्को मुसली हली ।भद्राङ्गो भद्रवलनः सात्वतस्तु सितासितः ॥ १९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव यज्ञादिप्रकाण्डः Kalpadrukośa 3.3.35 · p. 455
नीलार्थादम्बरार्थोऽपि तालाङ्को मुसली हली ।यमुनार्थात्कर्षणार्थः संवर्त्तक्येककुण्डलः ॥ ३५ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.45 · p. 12
तालाङ्क-संकर्षण-रौहिणेयाःसौनन्दि-रुक्मिघ्न-कदम्बराश्च ।प्रलम्बनाशी यमुनीविभेदीसितासितैकश्रुतिभूषणौ च ॥ ४५ ॥
उपजातिः
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.42 · p. 4
नीलाम्बरो हलधरो हलभृत्तालभृद्बलः ।तालाङ्कः शीरपाणिः स्यात् सौनन्दी मुषली हली ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश आदिदेवाध्यायः Vaijayantī 1.1.23 · p. 4
बलभद्रः प्रलंबारिः कालिन्दीकर्षणो हली ।तालांको रेवतीकान्तः साच्वतो मुसली बली ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.doubtful

तालाङ्क as a meaning in nānārtha verses