कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnākara

शब्दरत्नाकर Śabdaratnākara

2,335 verses · 19,015 words tagged · 2,063 marked doubtful (dashed)

चतुर्थः काण्डः · अनेकार्थाधिकाराध्यायः (4/4)

बाहुलेयो वृषे स्कन्दे भूतनाथः शिवे नृपे ।महाकालो हरे हालाहले बाणासुरेऽपि च ॥ २२२० ॥
4.1.2220 · p. 268
अनुष्टुप्
परमात्ममहावेश्मविहारेषु महालयः ।संकर्षणः सौरभेये रौहिणेयो बुधे गुहे ॥ २२२१ ॥
4.1.2221 · p. 268
अनुष्टुप्
रजस्वलस्तु महिषे पुष्पवत्यां रजस्वला ।लोकपालो नृपेन्द्राद्योः राज्ञि लक्ष्मीपतिर्हरौ ॥ २२२२ ॥
4.1.2222 · p. 269
अनुष्टुप्
वृषाकपिस्तु वैकुण्ठे हरेऽर्केऽग्नौ विभावसुः ।विश्वकर्मा द्युकक्ष्णि स्यादर्यम्णि हरिवातयोः ॥ २२२३ ॥
4.1.2223 · p. 269
अनुष्टुप्
वाडवेयोऽश्विनोर्विप्रे वासुदेवो मुनौ हरौ ।धर्माध्यक्षे ज्योतिषिके वारवाणिरथो वटे ॥ २२२४ ॥
4.1.2224 · p. 269
अनुष्टुप्
व्यवहारो वाक्प्रयोगे विवादे द्यूतदण्डयोः ।शासने वित्तसंवादे संबन्धेऽसिवणिज्ययोः ॥ २२२५ ॥
4.1.2225 · p. 269
अनुष्टुप्
वानप्रस्थो मधुष्ठीले तृतीये ब्राह्मणाश्रमे ।व्यसने स्याद्व्यतिकरः संकरे व्यतिषञ्जने ॥ २२२६ ॥
4.1.2226 · p. 269
अनुष्टुप्
वनस्पतिर्वृक्षमात्रेऽप्यपुष्पात् फलवद्द्रुमे ।स्याद्वर्धमान एरण्डे शरावे भूषणेऽपि च ॥ २२२७ ॥
4.1.2227 · p. 269
अनुष्टुप्
शंकुकर्णौ गर्दभोष्ट्रौ शरभृङ्गौ शिलीमुखौ ।श्रीवत्साङ्कौ हरिवृकौ सिंहकाकौ सकृत्प्रजौ ॥ २२२८ ॥
4.1.2228 · p. 269
अनुष्टुप्
समाहारस्तु संक्षेप एकत्रकरणेऽपि च ।स्तनयित्नुर्जलधरे तदीये गर्जितेऽपि च ॥ २२२९ ॥
4.1.2229 · p. 269
अनुष्टुप्
सालावृकः शुनि क्रोष्टौ वृके स्थूलोच्चयस्त्वयम् ।असाकल्ये वारणानां मध्यमे च गतिक्रमे ॥ २२३० ॥
4.1.2230 · p. 269
अनुष्टुप्
सांपरायस्तु संपाते(!) आघातागामिकालयोः ।हेरम्बे हस्तमल्लः स्यादमराधिपकुञ्जरे ॥ २२३१ ॥
4.1.2231 · p. 270
अनुष्टुप्

इति वत्सकुलवामनभट्टबाणविरचिते शब्दरत्नाकरे अनेकार्थाधिकारे चतुरक्षराध्यायः ॥

पञ्चाक्षराध्यायः

विष्णौ शक्रेऽसुरारातिर्ब्राह्मणेऽप्यमृताशनः ।आशुशुक्षणिरर्केऽपि यज्वन्यप्यासुतीवलः ॥ २२३२ ॥
4.1.2232 · p. 270
अनुष्टुप्
अनन्ते वित्तनाथे च तालाङ्केऽप्येककुण्डलः ।ध्रुवेऽप्यौत्तानपादिः स्याद् गृध्रेऽपि कमलच्छदः ॥ २२३३ ॥
4.1.2233 · p. 270
अनुष्टुप्
कथाप्रसंगस्तु विषवैद्ये वातगुणाधिके ।काकेऽपि कौशिकद्वेषी बलेऽपि खरखण्डनः ॥ २२३४ ॥
4.1.2234 · p. 270
अनुष्टुप्
काशे चामरपुष्पः स्यात् केतकीसहकारयोः ।तमोविहारी खद्योत उलूके चोररक्षसोः ॥ २२३५ ॥
4.1.2235 · p. 270
अनुष्टुप्
नीपे धूलिकदम्बो ना क्लीबे तु रजसां गणे ।चन्द्रेऽपि देवतोच्छिष्टः शंकरे पांसुचन्दनःप्राचीनबर्हिरिन्द्रेऽग्नौ पुरुषव्याघ्र इत्ययम् ॥ २२३६ ॥
4.1.2236 · p. 270
अनुष्टुप्
गृध्रेऽपि प्रेतनिलयः श्मशाने वृषभध्वजे ।मातुलपुत्रस्तून्मत्तफले मातुलनन्दने ।पञ्चबाणे च सरितां पत्यौ च मकरध्वजः ॥ २२३७ ॥
4.1.2237 · p. 271
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 तु (wrong syllable)
वृषाकपायी श्रीगौर्योरौर्वेऽपि बडवामुखः ।विकङ्कते गोक्षुरके कोल्यां च स्वादुकण्टकः ॥ २२३८ ॥
4.1.2238 · p. 271
अनुष्टुप्
निम्बे च हिङ्गुनिर्यासो हिङ्गुवृक्षरसेऽपि च ।हिरण्यबाहुः शोणाख्यनदे पशुपतावपि ॥ २२३९ ॥
4.1.2239 · p. 271
अनुष्टुप्

इति वत्सकुलवामनभट्टबाणविरचिते शब्दरत्नाकरे अनेकार्थाधिकारे पञ्चाक्षराध्यायः ॥

एकाक्षराध्यायः

एकाक्षरा इहोच्यन्ते पूर्वं नोक्ता यथाक्रमम् ।अस्तु विष्णौ वर्णमात्रे स्यादिः काम उरीश्वरे ॥ २२४० ॥
4.1.2240 · p. 271
अनुष्टुप्
कः समीरार्कवेधःसु खमुडौ व्योम्नि चेन्द्रिये ।गौवृषे ना स्त्रियां गोभूवाग्दिग्दृष्टिमरीचिषु ॥ २२४१ ॥
4.1.2241 · p. 271
अनुष्टुप्
द्वयोः सायकवज्राम्बुस्वर्गयज्ञेषु लोम्न्यपि ।ज्या शिज्जिनीवसुधयोस्त्विड्ज्वालादीप्तिकान्तिषु ॥ २२४२ ॥
4.1.2242 · p. 272
अनुष्टुप्
तृडाशायां पिपासायां द्वास्तु द्वाराभ्युपाययोः ।द्योदिवौ स्वर्गवियतोराशोपायगमेषु दिक् ॥ २२४३ ॥
4.1.2243 · p. 272
अनुष्टुप्
दृग्बुद्धौ दर्शने नेत्रे स्त्री स्याद्द्रष्टरि तु त्रिषु ।धूः स्त्री भारे यानमुखे नौः स्त्रियां तरिकालयोः ॥ २२४४ ॥
4.1.2244 · p. 272
अनुष्टुप्
पूः स्त्रियां नगरे देहे भूर्महीस्थानमात्रयोः ।मा रमायां च संपत्तौ रा द्वयोर्द्युम्नरुक्मयोः ॥ २२४५ ॥
4.1.2245 · p. 272
अनुष्टुप्
लिप्साज्वालाकान्तिवाञ्छाभङ्गरोगेषु रुक् स्त्रियाम् ।भारतीवचसोर्वाक् स्याद् विः पक्षिपरमात्मनोः ॥ २२४६ ॥
4.1.2246 · p. 272
अनुष्टुप्
विट् प्रजावैश्ययोः पुंसि स्त्री मले जनने द्वयोः ।श्रीः कान्तिसंपदोर्लक्ष्म्यां लवङ्गकुसुमेऽपि च ॥ २२४७ ॥
4.1.2247 · p. 272
अनुष्टुप्
त्रिषु स्वीये नरि ज्ञातौ स्वो धने तु नपुंसके ।साधौ श्रेष्ठे वर्तमाने सत्ये चाभ्यर्हिते च सत् ॥ २२४८ ॥
4.1.2248 · p. 272
अनुष्टुप्