कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

नीलाम्बर

nīlāmbaraपुं · masc.

In 8 kośas: 9 synonym verses, 3 as a nānārtha head word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.24
बलभद्रः प्रलम्बघ्नो बलदेवोऽच्युताग्रजः ।रेवतीरमणो रामः कामपालो हलायुधः ॥ २३ ॥नीलाम्बरो रौहिणेयस्तालाङ्को मुसली हली ।सङ्कर्षणः सीरपाणिः कालिन्दीभेदनो बलः ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.28 · p. 4
बलदेवो बलभद्रो मुशली नीलाम्बरः प्रलम्बघ्नः ।सीरी च सात्वतः स्यात्तालध्वज एककुण्डलोऽनन्तः ॥ २८ ॥
गीतिःmetre not read in every line
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.370 · p. 173
तालं नीलाम्बरं नीलं तुङ्गा तु वंशरोचना ।क्षीरी वांशी च शुभ्रापि वनेन्दुर्वंशशर्करा ॥ ३७० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव यज्ञादिप्रकाण्डः Kalpadrukośa 3.3.35 · p. 455
नीलार्थादम्बरार्थोऽपि तालाङ्को मुसली हली ।यमुनार्थात्कर्षणार्थः संवर्त्तक्येककुण्डलः ॥ ३५ ॥
अनुष्टुप्
genderपुंmasc.doubtful
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.54 · p. 32
मन्दश्-छायातनयः पातंगि-क्रूरदृक्-शनयः ।असित-शनैश्चर-नीलाम्बर-यम-सप्तार्च्चिषः कोणः ॥ ५४ ॥
उपगीतिः
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.42 · p. 4
नीलाम्बरो हलधरो हलभृत्तालभृद्बलः ।तालाङ्कः शीरपाणिः स्यात् सौनन्दी मुषली हली ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.223 · p. 16
च्छायासुतो भास्करिश्च मन्दो नीलाम्बरोऽपि च ।राहुरभ्रपिशाचः स्याद् ग्रहकल्लोल-सैंहिकौ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण आदिदेवाध्यायः Śabdaratnākara 1.2.31 · p. 4
रामो नीलाम्बरः शेषो रौहिणेयोऽच्युताग्रजः ।संकर्षणः सालकेतुर्मुसली रेवतीपतिः ॥ ३१ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश आदिदेवाध्यायः Vaijayantī 1.1.24 · p. 5
भद्रांगो भद्रवदनः कामपालः सितासितः ।बलो नीलांबरश्चाथ तस्य संवर्तकं हलम् ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.doubtful
धरणिकोश Dharaṇikośa · धरणिदास रार्धश्लोकः Dharaṇikośa 26.2.72 · p. 177
औडुम्बरः श्राद्धदेवे गदमेदे च [84] कीर्तितः ।नीलाम्बरौ समाख्यातौ रौहिणेयशनैश्चरौ ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.99 · p. 331
औदुम्बरः कृतान्ते पित्तजकुष्ठामये त्वन्ये ।नीलाम्बरो हलधरे निशाचरे क्रूरलोचने तद्वत् ॥ ९९ ॥
उद्गीतिः
शब्दरत्नावली Śabdaratnāvalī · मथुरेश रेफान्ताः Śabdaratnāvalī 7.27.131 · p. 275
नीलाम्बरो रौहिणेये राक्षसे च शनैश्चरे ।परिकरः समारम्भे पर्यङ्कवृन्दयोरपि ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 3 क (wrong syllable); pāda 4, syllable 3 ङ्क (wrong syllable)