कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

सङ्कर्षण

saṅkarṣaṇaपुं · masc.

In 7 kośas: 9 synonym verses, 4 as a meaning of another word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.24
बलभद्रः प्रलम्बघ्नो बलदेवोऽच्युताग्रजः ।रेवतीरमणो रामः कामपालो हलायुधः ॥ २३ ॥नीलाम्बरो रौहिणेयस्तालाङ्को मुसली हली ।सङ्कर्षणः सीरपाणिः कालिन्दीभेदनो बलः ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.29 · p. 4
सङ्कर्षणो रौहिणेयः कालिन्दीकर्षणो बलः ।रेवतीरमणो रामः कामपालो हलायुधः ॥ २९ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर अष्टमोपदेशः Bālaprabodhikā 8.160 · p. 80
बिलेशयो द्विजिह्वश्च जिह्मगः पवनाशनः ।शेषः सङ्कर्षणः शुक्रः सहस्राक्षः सहस्रपात् ॥ १६० ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.18 · p. 9
द्युपदः सर्वतोभद्रो रामः परशुभृत्कविः ।रामः सङ्कर्षणः पौरो बलदेवो हलायुधः ॥ १८ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.306 · p. 40
अनन्तो नीलवस्त्रश्च सङ्कर्षणैककुण्डलौ ।यमुनाभित् तथा फालः रुक्मिभिद्रुक्मिदारणः ॥ ३०६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्ष (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.43 · p. 4
रेवतीरमणो गुप्तवरः सम्बर्तको बली ।सङ्कर्षणो रौहिणेयो बलभद्रोऽच्युताग्रजः ॥
अनुष्टुप्
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मातृकानिघण्टु Tantrābhidhāna 5.16 · p. 36
सङ्कर्षणोऽनुग्रहेशो मुरारिर्व्यापिनी तथा ।अधोदन्तगतो मायी नृसिंहाङ्गं तथौ-स्वरः ॥ १६ ॥
अनुष्टुप्
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मध्वाचार्यविरचितमातृकानिघण्टु Tantrābhidhāna 6.14 · p. 42
ऊर्ध्वदन्तालिजः सद्यः सङ्कर्षणस्त्रिमात्रकः ।मन्त्रेशो नगसंज्ञश्च मात्रेशस्त्वो-स्वरः स्मृतः ॥ १४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्ष (wrong syllable)
genderपुंmasc.
अनुग्रहो दीर्घवक्त्रो मायी सङ्कर्षणश्च खम् ।मुरारिर्व्यापिनी चाघोदन्तगो नृहरेर्वपुः ॥ १६ ॥
अनुष्टुप्
genderपुंmasc.

सङ्कर्षण as a meaning in nānārtha verses

  • शब्दरत्नावली शेषशेषः सङ्कर्षणेऽनन्तं वधयुक्तेतरेषु च । शेषा प्रसादार्पणयोरात्यनिर्माल्यकेऽपि च ॥ शेषः स्याद्यक्ष्मरोगे ना शोषणे च भवेत्पुमान् । Śabdaratnāvalī 7.31.17
  • तन्त्राभिधान औऔ-कारो मनुराख्यातो दन्तान्तोऽधोरदाह्वयः । सङ्कर्षणोऽपि देवेशि! कथितोऽनुग्रहेश्वरः ॥ १० ॥ Tantrābhidhāna 1.10
  • तन्त्राभिधान औअधोदन्तश्च कण्ठोष्ठौ सङ्कर्षणः सरस्वती । आज्ञा चोर्ध्वमुखी शान्तो व्यापिनी प्रकृतः पयः ॥ ४७ ॥ Tantrābhidhāna 2.15.47
  • तन्त्राभिधान यशङ्खा भ्रमो जटी लोला वायुवेगी यशस्करः । सङ्कर्षणः क्षपा बालो हृदयं कपिला प्रभा ॥ १४० ॥ Tantrābhidhāna 2.43.140