कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

एककुण्डल

ekakuṇḍalaपुं · masc.

In 13 kośas: 8 synonym verses, 8 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.138 · p. 13
रामो हली मुसलिसात्त्वतकामपालाः संकर्षणः प्रियमधुर्बलरौहिणेयौ ।रुक्मिप्रलम्बयमुनाभिदनन्तताललक्ष्मैककुण्डलसितासितरेवतीशाः ॥ २२४ ॥बलदेवो बलभद्रो नीलवस्त्रोऽच्युताग्रजः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
genderपुंmasc.
अभिधानचिन्तामशिलोञ्छ Abhidhānacintāmaśiloñcha · जिनदेवमुनीश्वर तिर्यक्काण्डः Abhidhānacintāmaśiloñcha 4.62 · p. 5
जलव्यालेऽलीगर्दोऽपि शेषः स्यादेककुण्डलः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ली (wrong syllable)
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.28 · p. 4
बलदेवो बलभद्रो मुशली नीलाम्बरः प्रलम्बघ्नः ।सीरी च सात्वतः स्यात्तालध्वज एककुण्डलोऽनन्तः ॥ २८ ॥
गीतिःmetre not read in every line
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव यज्ञादिप्रकाण्डः Kalpadrukośa 3.3.35 · p. 455
नीलार्थादम्बरार्थोऽपि तालाङ्को मुसली हली ।यमुनार्थात्कर्षणार्थः संवर्त्तक्येककुण्डलः ॥ ३५ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.306 · p. 40
अनन्तो नीलवस्त्रश्च सङ्कर्षणैककुण्डलौ ।यमुनाभित् तथा फालः रुक्मिभिद्रुक्मिदारणः ॥ ३०६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्ष (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2363 · p. 382
पुनर्नागाधिपः शेष एककुण्डल आलुकः ॥ २३६३ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.44 · p. 4
स्यादेककुण्डलो रामो लाङ्गली मुष्टिकान्तकः ।कामः पञ्चशरो मारः प्रद्युम्नो मदनः स्मरः ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव स्वर्गवर्गः Trikāṇḍaśeṣa 1.1.36 · p. 8
बलभद्रस्तु हालः स्यात्सौनन्दी हलतालभृत् ।संवर्तकी गुप्तचरो रुक्मिदार्य्येककुण्डलः ॥ ३६ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.388
कुलं गृहेऽपि तालाङ्के कुबेरे चैककुण्डलः ॥
अनुष्टुप्
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध अनेकार्थकाण्डम् Abhidhānaratnamālā (Halāyudha) 5.788 · p. 91
रुद्रेऽपि खण्डपरशुर्वैश्रवणेऽप्येककुण्डलः प्रोक्तः ।द्वारेऽपि प्रतिहारः प्राकाराग्रेऽपि कपिशीर्षम् ॥ ७८८ ॥
आर्या
कोषकल्पतरु Koṣakalpataru · विश्वनाथ लान्ताः Koṣakalpataru 6.28.486 · p. 356
शिलान्तरे स्यादपि पाण्डुकम्बलःसिते कुथे सीरिणि चैककुण्डलः ।मनुष्यधर्मण्यथ मस्तकस्रजिदूत्यां च ताली सुरतोत्तर स्थिता ॥ ४८६ ॥
upajati 12
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पञ्चाक्षरकाण्डः Nānārthārṇavasaṃkṣepa 7.36 · p. 96
बलभद्रे कुबेरे चाप्येककुण्डल इत्ययम् ।पुंसि त्रिषु तु यस्यैकं कुण्डलं तत्र नप् पुनः ॥ ३६ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास एकारादयः Paramānandīyanāmamālā 5.5.81 · p. 171
एककुण्डल आख्यातो रेवतीरमणे हरे ।किन्नराणामधीशेऽप्यैरावतः शक्रवारणे ॥ ८१ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश लान्ताः Śabdaratnāvalī 7.28.114 · p. 285
स्यादासुतीवलः पुंसि कल्पपालकयज्वनोः ।भवेदुद्दण्डपालस्तु मत्स्यसर्पविशेषयोः ॥स्यादेककुण्डलः पुंसि बलभद्रकुबेरयोः ।कृपीटपालः पवने नीरधौकेनिपातके ॥स्यात्तु पाण्डुकम्बलः श्वेतकम्बलग्रावभेदयोः ।भवेत्सुरतताली स्त्री दूतिकामौलिमालयोः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2233 · p. 270
अनन्ते वित्तनाथे च तालाङ्केऽप्येककुण्डलः ।ध्रुवेऽप्यौत्तानपादिः स्याद् गृध्रेऽपि कमलच्छदः ॥ २२३३ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 8.1.51 · p. 269
शौण्डिके चाप्यथानन्ते कुबेरे चैककुण्डलः ।आम्रे चामरपुष्पः स्यात् काशकेतकयोरपि ॥ ५१ ॥
अनुष्टुप्