रौहिणेय
rauhiṇeyaपुं · masc.In 13 kośas: 15 synonym verses, 8 as a nānārtha head word, 5 as a meaning of another word.
रामो हली मुसलिसात्त्वतकामपालाः संकर्षणः प्रियमधुर्बलरौहिणेयौ ।रुक्मिप्रलम्बयमुनाभिदनन्तताललक्ष्मैककुण्डलसितासितरेवतीशाः ॥ २२४ ॥बलदेवो बलभद्रो नीलवस्त्रोऽच्युताग्रजः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
genderपुंmasc.
बलभद्रः प्रलम्बघ्नो बलदेवोऽच्युताग्रजः ।रेवतीरमणो रामः कामपालो हलायुधः ॥ २३ ॥नीलाम्बरो रौहिणेयस्तालाङ्को मुसली हली ।सङ्कर्षणः सीरपाणिः कालिन्दीभेदनो बलः ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
सङ्कर्षणो रौहिणेयः कालिन्दीकर्षणो बलः ।रेवतीरमणो रामः कामपालो हलायुधः ॥ २९ ॥
अनुष्टुप्
genderपुंmasc.
वक्रमङ्गारकं भौमं लोहिताङ्गं धरात्मजम् ।रौहिणेयं बुधं सौम्यमाहुश्चान्द्रमसायनम् ॥ ४६ ॥
अनुष्टुप्
genderपुंmasc.
रक्ताङ्कुरोङ्गारमणिः शोणाङ्गश्च लतामणिः ।रौहिणेयो मरकतश्चाश्मगर्भो हरिन्मणिः ॥ ५९९ ॥
अनुष्टुप्
genderपुंmasc.
संवर्त्तको रेवतीशः सुरापर्यायवल्लभः ।रौहिणेयश्चैकचरः सात्वतो हलमस्य तु ॥ ३६ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 श्चै (wrong syllable)
genderपुंmasc.
तालाङ्क-संकर्षण-रौहिणेयाःसौनन्दि-रुक्मिघ्न-कदम्बराश्च ।प्रलम्बनाशी यमुनीविभेदीसितासितैकश्रुतिभूषणौ च ॥ ४५ ॥
उपजातिः
genderपुंmasc.
श्राविष्ठीय इलेशो ज्ञो रौहिणेयः प्रहर्षणः ।पञ्चार्चिर्बुध एकाङ्गश्चान्द्रिश्चान्द्रमसायनिः ॥ १०३ ॥
अनुष्टुप्
genderपुंmasc.
रौहिणेयो बलो रामो रेवतीरमणो हली ।मुशली सात्वतः कामपालः प्रियमधुश्च सः ॥ १८ ॥
अनुष्टुप्
genderपुंmasc.
पौरः प्रियमधुर्गुप्तचरोऽच्युताग्रजस्तथा ।रेवतीशस्तथा रौहिणेयः शेषाहिनामभृत् ॥ ३०७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च्यु (wrong syllable)
genderपुंmasc.
रेवतीरमणो गुप्तवरः सम्बर्तको बली ।सङ्कर्षणो रौहिणेयो बलभद्रोऽच्युताग्रजः ॥
अनुष्टुप्
genderपुंmasc.
वर्षार्चिर्लोहिताङ्गश्च खोन्मुखः स्यादृणान्तकः ।बुधः सौम्यो रौहिणेयो राजपुत्रः प्रहर्षणः ॥
अनुष्टुप्
genderपुंmasc.
रामो नीलाम्बरः शेषो रौहिणेयोऽच्युताग्रजः ।संकर्षणः सालकेतुर्मुसली रेवतीपतिः ॥ ३१ ॥
अनुष्टुप्
genderपुंmasc.
रुधिरो लोहिताङ्गोऽथ सौम्यश्चान्द्रमसायनिः ।रौहिणेयो बुधः शक्रसचिवस्तु बृहस्पतिः ॥ १८४ ॥
अनुष्टुप्
genderपुंmasc.
स्याद्रूक्षणहिते चाथ ज्ञेयो रूक्षस्वरो द्वयोः ।गर्दभे पूर्ववत् सादि रौहिणेयस्तु ना बुधे ॥ ५२८ ॥
अनुष्टुप्
meaningsबुध
बलभद्रे च रोहिण्यास्त्वपत्ये स्याद्द्वयोरयम् ।लक्ष्मीपुत्रो द्वयोरश्वे लक्ष्म्याः पुत्रे च स त्रि तु ॥ ५२९ ॥
अनुष्टुप्
doubtful
आश्रये सदसि स्थाने प्रसिद्धे च प्रतिश्रयः ।हुताशने विष्णुशङ्खे पाञ्चजन्यः समीरितः ॥पुंसा कृते तद्विकारे पौरुषेयो भवेत्त्रिषु ।पुंसि बृन्दे वधे चापि पुरुषस्य पदान्तरे ॥प्रावृज्जे त्रिषु नीपे ना प्रावृषेण्यो निगद्यते ।लाभे सुरालये हर्षे भवेत्पुंसि फलोदयः ॥परमात्मनि तीर्थे च विहारे च महालयः ।अपवर्गे चाधिपत्ये कान्यकुब्जे महोदयः ॥शुद्धौ तु कायशोधे स्यान्मार्जनीयो भवेत्पुमान् ।बलरामे बुधे पुंसि रौहिणेयो भवेदिवृ ॥कर्कटे मूषिके सर्गे पुंलिङ्गे स्याद्विलेशयः ।युद्धेऽप्यायदुत्तरे स्यात्सम्परायः पुमानयम् ॥पशुपक्षियुधि द्यूते चाह्वाने च समाह्वयः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 य (wrong syllable)
रौहिणेय as a meaning in nānārtha verses
- धरणिकोश नीलाम्बरऔडुम्बरः श्राद्धदेवे गदमेदे च [84] कीर्तितः । नीलाम्बरौ समाख्यातौ रौहिणेयशनैश्चरौ ॥ Dharaṇikośa 26.2.72
- कोषकल्पतरु बुधबुधः कवौ ज्ञातरि रौहिणेये मिद्धं तथालस्यकनिद्रयोः स्यात् । न्यासे च वित्तस्य परत्र नद्धः संसारिणि स्यादपि बद्धमात्रे ॥ ५३ ॥ Koṣakalpataru 6.20.53
- नानार्थार्णवसंक्षेप विद्परमात्मनि नाथ स्त्री विज्ज्ञाने ज्ञातरि त्रिषु । ना रौहिणेये विट् तु स्त्रीशण्डयोर्गूढवाचि(नि?नी) ॥ १८ ॥ Nānārthārṇavasaṃkṣepa 1.5.18
- शब्दरत्नावली नीलाम्बरनीलाम्बरो रौहिणेये राक्षसे च शनैश्चरे । परिकरः समारम्भे पर्यङ्कवृन्दयोरपि ॥ Śabdaratnāvalī 7.27.131
- त्रिकाण्डशेष बुधरोधे निरोधो नाशे च बुद्धो ज्ञाते जिने बुधे । निषेधे बुद्धयोर्बाधो रौहिणेये कवौ बुधः ॥ २१९ ॥ Trikāṇḍaśeṣa 3.3.219