All kośas › Kalpadrukośa
कल्पद्रुकोशः Kalpadrukośa
4,306 verses · 27,819 words tagged · 4,643 marked doubtful (dashed)
स्वर्गस्कन्धः · यज्ञादिप्रकाण्डः
यज्ञो नारायणः कुन्दो वैकुण्ठो विष्टरश्रवाः ।पीताम्बरो हृषीकेशः केशवो माधवः स्वभूः ॥ १ ॥
3.3.1 · p. 451
अनुष्टुप्
दैत्यदानवपर्यायशत्रुपर्याय इत्यपि ।बभ्रुश्चतुर्भुजः कृष्णो वासुभद्रो विरञ्चनः ॥ २ ॥
3.3.2 · p. 451
अनुष्टुप्
केशटः शंभुरो जह्नुः पद्मनाभिर्वृषाकपिः ।विरञ्चिः कपिलो विष्णुर्विश्वक्सेनोऽपराजितः ॥ ३ ॥
3.3.3 · p. 451
अनुष्टुप्
बहुरूपो जगन्नाथः श्रीदत्तः प्रपितामहः ।शार्ङ्ग्यच्युतो मधुरिपुः पद्मनाभो जनार्दनः ॥ ४ ॥
3.3.4 · p. 451
अनुष्टुप्
विष्वक्सेनः शतावर्तश्चक्री श्रीवत्सलाञ्छनः ।अधोक्षजोऽव्ययो वेधाः पुराणपुरुषः कविः ॥ ५ ॥
3.3.5 · p. 451
अनुष्टुप्
श्रीवासो यज्ञपुरुषः सुषेणः पुरुषोत्तमः ।विश्वंभरो विधुर्हंसस्तमोहा विषयी हरिः ॥ ६ ॥
3.3.6 · p. 451
अनुष्टुप्
जलशायी विश्वरूपो मुकुन्दः शिवकीर्तनः ।मञ्जुकेशः कौस्तुभोराः सोमगर्भो धराधरः ॥ ७ ॥
3.3.7 · p. 452
अनुष्टुप्
कामो मासो मलः कोको लक्ष्मीनाथः सुयामुनः ।सहस्रपारः षड्विन्दुरनन्तो नलिनेशयः ॥ ८ ॥
3.3.8 · p. 452
अनुष्टुप्
शशबिन्दुरृतधामा नरकारिर्नरायणः ।श्रीनिवासोऽजितो वासुः श्रीकरोऽजः पुनर्वसुः ॥ ९ ॥
3.3.9 · p. 452
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 त (wrong syllable)
आत्मयोनिरथैतस्यावताराः स्युर्महात्मनः ।पर्यायो मत्स्यकमठकोलकेसरिणामपि ॥ १० ॥
3.3.10 · p. 452
अनुष्टुप्
पुंसो नरस्य पर्यायदेहपर्याय इत्यपि ।आदित्यः काश्यपो विष्णुरिन्द्रार्थावरजार्थकः ॥ ११ ॥
3.3.11 · p. 452
अनुष्टुप्
त्रिविक्रम उपेन्द्रार्थो वामनोऽथ भृगूद्वहः ।रैणुकेयः स एव स्याज्जामदग्न्यः कुठार्यपि ॥ १२ ॥
3.3.12 · p. 452
अनुष्टुप्
न्यक्षः परशुरामोऽपि रामः शंकरशैक्षकः ।क्षत्रियारिः पर्शुरामो रामस्तु रघुनन्दनः ॥ १३ ॥
3.3.13 · p. 452
अनुष्टुप्
सीतापतिर्दाशरथिः सौमित्रिभरताग्रजः ।कौशल्येयः कौशलेयः काकुत्स्थो रघुनायकः ॥ १४ ॥
3.3.14 · p. 452
अनुष्टुप्
कोशलेशो रामभद्रो रामचन्द्रोऽब्धिसेतुकृत् ।कुम्भकर्णदशग्रीवदूषणादिकरक्षसाम् ॥ १५ ॥
3.3.15 · p. 452
अनुष्टुप्
नियन्ता राघवः कौसल्यायनिः शान्तानुजश्च सः ।मैथिली जानकी सीता वैदेही भूसुतापि च ॥ १६ ॥
3.3.16 · p. 453
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शीता योजनगन्धाऽस्य पत्नी दशरथः पिता ।स च दाशरथोऽपि स्याच्चत्वारो भ्रातरोऽस्य तु ॥ १७ ॥
3.3.17 · p. 453
अनुष्टुप्
भरतः स च कैकेयः कैकेयी केकयी च सूः ।अस्याथ लक्ष्मणोऽपि स्याल्लक्षणस्तदनूद्भवः ॥ १८ ॥
3.3.18 · p. 453
अनुष्टुप्
शत्रुघ्नः सोऽपि सौमित्रिः सौमित्रेयावुभावपि ।क्रमादेषां तु तनया रामस्य तु कुशो लवः ॥ १९ ॥
3.3.19 · p. 453
अनुष्टुप्
भिन्नवाक्यादेकयोक्त्या तौ विज्ञेयौ कुशीलवौ ।वाल्मीकिशिष्यौ भरतपुत्रौ तक्षकपुष्करौ ॥ २० ॥
3.3.20 · p. 453
अनुष्टुप्
लक्ष्मणस्याङ्गदश्चित्रकेतुः शत्रुघ्नजावमू ।सुबाहुः सूरसेनश्च कौशल्या राममातरि ॥ २१ ॥
3.3.21 · p. 453
अनुष्टुप्
कौसल्याप्यथ कृष्णस्तु वासुदेवो गदाग्रजः ।अपि दामोदरः शौरिः शौरी सौरिश्च यादवः ॥ २२ ॥
3.3.22 · p. 453
अनुष्टुप्
यादवेन्द्रो दैवकेयो गोविन्दः पाण्डवायनः ।बलानुजो गोकुलेशो दाशार्हः स्मरदेहकृत् ॥ २३ ॥
3.3.23 · p. 453
अनुष्टुप्
भौमी जाम्बती भामा सत्या भद्रा च लक्ष्मणा ।कालिन्दीमित्रविन्दादिपतिपर्याय इत्यपि ॥ २४ ॥
3.3.24 · p. 453
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 भौ (syllables merged)
वनमाल्यर्जुनार्थेभ्यः सखा सारथिरित्यपि ।अरिष्टकेशियवनकंसचाणूरमर्दनः ॥ २५ ॥
3.3.25 · p. 454
अनुष्टुप्
वसुदेवोऽस्य जनको दुन्दुरानकदुन्दुभिः ।भूकश्यपः क्षित्यदितिर्देवकी दैवकी च सूः ॥ २६ ॥
3.3.26 · p. 454
अनुष्टुप्
अश्वाश्च शैव्यसुग्रीवमेघपुष्पबलाहकाः ।शुकपिच्छस्वर्णमेघपाण्डुवर्णाः क्रमादमी ॥ २७ ॥
3.3.27 · p. 454
अनुष्टुप्
शैव्यस्तु दक्षिणे वामे सुग्रीव उभयोरपि ।पृष्ठवाहावुभावास्तां मेघपुष्पबलाहकौ ॥ २८ ॥
3.3.28 · p. 454
अनुष्टुप्
ध्वजो भुजङ्गहा मन्त्री पवनव्याधिरुद्धवः ।सैन्यमेतस्य दाशार्हा दासार्हा यादवाश्च ते ॥ २९ ॥
3.3.29 · p. 454
अनुष्टुप्
गदोऽनुजः पाञ्चजन्यो दक्षिर्णावर्त्त इत्यपि ।शङ्खो माला वैजयन्ती चक्रमस्त्री सुदर्शनः ॥ ३० ॥
3.3.30 · p. 454
अनुष्टुप्
सुनाभं पुंस्यरिः खड्गो नन्दकः कौस्तुभो मणिः ।अन्यः स्यमन्तकः शार्ङ्गं धनुः कौमोदकी गदा ॥ ३१ ॥
3.3.31 · p. 454
अनुष्टुप्
एकानंशास्वसाथ स्याद्दारुकश्चास्य सारथिः ।श्रीवत्सोऽङ्कोऽस्य गरुडो वाहनं मथुरा पुरी ॥ ३२ ॥
3.3.32 · p. 454
अनुष्टुप्
द्वारकाऽप्यथ वैदर्भी रुक्मिण्यपि च कामसूः ।भैमी सत्या सत्यभामा बलदेवो हलायुधः ॥ ३३ ॥
3.3.33 · p. 454
अनुष्टुप्
कृष्णाग्रजो बलभद्रो बलो रामः सितासितः ।प्रलम्बरुक्मिद्विविदहन्ता कामार्थपालकः ॥ ३४ ॥
3.3.34 · p. 455
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
नीलार्थादम्बरार्थोऽपि तालाङ्को मुसली हली ।यमुनार्थात्कर्षणार्थः संवर्त्तक्येककुण्डलः ॥ ३५ ॥
3.3.35 · p. 455
अनुष्टुप्
संवर्त्तको रेवतीशः सुरापर्यायवल्लभः ।रौहिणेयश्चैकचरः सात्वतो हलमस्य तु ॥ ३६ ॥
3.3.36 · p. 455
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 श्चै (wrong syllable)
संवर्त्तकाख्यं मुशलं सौनन्दं च सुतः शठः ।मदनो मन्मथो मारः प्रद्युम्नो दर्पकः स्मरः ॥ ३७ ॥
3.3.37 · p. 455
अनुष्टुप्
कामो विधाता कन्दर्प आमोजो विषयी पुनः ।सूर्पशम्बरवैर्यर्थः पञ्चवाणार्थ इत्यपि ॥ ३८ ॥
3.3.38 · p. 455
अनुष्टुप्
मीनपुष्पार्थयोः केतूरमिलः कमनो रमः ।रत्यर्थात्पतिपर्याय आत्मभूर्मकराङ्ककः ॥ ३९ ॥
3.3.39 · p. 455
अनुष्टुप्
मनोलक्ष्म्यङ्गशृङ्गारकृष्णार्थेभ्यो जनुश्च सः ।मनःशयो जराभीतपर्यायः कन्तुरित्यपि ॥ ४० ॥
3.3.40 · p. 455
अनुष्टुप्
पुष्पपर्यायवाणार्थः संसारगुरुवाचकः ।चन्द्रपर्यायसचिवो मधुपर्यायसारथिः ॥ ४१ ॥
3.3.41 · p. 455
अनुष्टुप्
भीरुपर्यायसैन्यास्त्रसहायार्थोऽपि कञ्जसूः ।मुर्मुरो रणरणको रूपास्त्रः कनकः पुनः ॥ ४२ ॥
3.3.42 · p. 455
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र (wrong syllable)
मधुपर्यायपुष्टार्थः स्वरोचिश्चास्य तु प्रिया ।केलती से रागलता सेवा केलिकला रतिः ॥ ४३ ॥
3.3.43 · p. 456
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 रा (wrong syllable)
पुत्रोऽनिरुद्ध ऋष्याङ्क उषेशो ब्रह्मसूरपि ।वाणारिरस्य पत्नी स्यादुषाप्यूषाऽथ मार्गणाः ॥ ४४ ॥
3.3.44 · p. 456
अनुष्टुप्
अरविन्दमशोकाख्यं चूतं च नवमल्लिका ।नीलोत्पलं तथा चान्ये प्राहुरुन्मादनः पुनः ॥ ४५ ॥
3.3.45 · p. 456
अनुष्टुप्
सन्तापनः शोषणश्च मारणश्चापि मोहनः ।पञ्चकामस्य पुत्र्यौ द्वे प्रीतितृष्णे ततो मदः ॥ ४६ ॥
3.3.46 · p. 456
अनुष्टुप्
मोहः क्रोधो लोभदम्भा एतस्य परिचारकाः ।अरुणार्थादवरजो विनतातनयार्थकः ॥ ४७ ॥
3.3.47 · p. 456
अनुष्टुप्
सौपर्णेयः स्वर्णकायः कामायुर्वज्रजित् पुनः ।शाल्मली तृक्षपुत्रार्थो गरुत्मान् गरुडः पुनः ॥ ४८ ॥
3.3.48 · p. 456
अनुष्टुप्
पक्षिपर्यायराडर्थो मायुः पुष्कर इत्यपि ।शिलापर्यायवासार्थः सुधापर्यायहारकः ॥ ४९ ॥
3.3.49 · p. 456
अनुष्टुप्
कश्यपापत्यपर्याय उलूतीशो रसायनः ।स्वर्णपक्षः सुमुखसूर्महावीरः खगार्थकः ॥ ५० ॥
3.3.50 · p. 456
अनुष्टुप्
नागपर्यायाशनार्थशत्रुपर्यायवाचकः ।विमानरथकेत्वर्थो विष्णुपर्यायतोऽस्य तु ॥ ५१ ॥
3.3.51 · p. 456
अनुष्टुप्
प्रियोन्नतिरुलूती स्यात्पुत्रस्तु सुमुखोऽथ च ।इन्दिरा चञ्चलार्था स्यान्मा रमा कमलापि च ॥ ५२ ॥
3.3.52 · p. 457
अनुष्टुप्
पद्मार्थगृहपर्याया हरिपर्यायतः प्रिया ।भृगुक्षीराब्धिपर्यायपुत्री नारायणीति च ॥ ५३ ॥
3.3.53 · p. 457
अनुष्टुप्
कन्दर्पलोकपर्यायमात्रर्था पद्मलाञ्छना ।लक्ष्मीर्वृषाकपायी श्रीर्मङ्गला मङ्गलार्थका ॥ ५४ ॥
3.3.54 · p. 457
अनुष्टुप्
बिल्वद्रुगृहपर्याया करीषिण्यपि पिल्पिला ।अश्वार्थान्मातृपर्याया पिङ्गला पद्ममालिनी ॥ ५५ ॥
3.3.55 · p. 457
अनुष्टुप्
(इति द्युस्थानदेवमणिप्रकाण्डः पञ्चविंशः ।)कल्पद्रौ केशवकृते स्कन्धे तार्तीयसंज्ञिते ।यज्ञादिमः प्रकाण्डोऽयं द्वितीयः सिद्धिमागतः ॥ ५६ ॥
3.3.56 · p. 457
अनुष्टुप्metre not read in every line