दैवप्रश्न
daivapraśnaपुं · masc.In 4 kośas: 5 synonym verses.
अथ स्यात्पुष्पशकटी दैवप्रश्न उपश्रुतिः ।तान्त्रिको ज्ञातसिद्धान्तः सत्री गृहपतिः समौ ॥ ६७ ॥
अनुष्टुप्
genderपुंmasc.
कथंकथिकता तु स्यात् पृच्छा प्रश्नोऽनुयोजनम् ।अनुयोगोऽप्यथो दैवप्रश्नः स्त्री स्यादुपश्रुतिः ॥ ७२ ॥
अनुष्टुप्
genderपुंmasc.
विना तु पात्रं यः प्रश्नो नभोदर्शनपूर्वकम् ।आकाशभाषितं तत्स्याद्दैवप्रश्न उपश्रुतिः ।उत्तरं प्रतिवचः प्रतिवाक्यमस्त्रियां तु चटुलं चटु चाटु ।चाटुकं च हृदयंगमहृद्ये सूनृतं त्रिषु त(भ)वेत्प्रियसत्ये ॥ ३८ ॥
अनुष्टुप्two metres in one verse
genderपुंmasc.
चित्रोक्तिः पुष्पशकटी दैवप्रश्न उपश्रुतिः ।त्रिषु प्रत्ययिनश्चाप्तः द्वयं प्रत्यययोग्यके ॥
अनुष्टुप्
genderपुंmasc.
चित्तोक्तिः पुष्पशकटी दैवप्रश्न उपश्रुतिः ।लेखको मसिपण्यः स्याद्वोलकः किरिकोऽपि सः ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.