पृच्छा
pṛcchāस्त्री · fem.In 9 kośas: 9 synonym verses, 5 as a meaning of another word.
प्रश्नोऽनुयोगः पृच्छा च प्रतिवाक्योत्तरे समे ।
अनुष्टुप्
genderस्त्रीfem.
कथंकथिकता तु स्यात् पृच्छा प्रश्नोऽनुयोजनम् ।अनुयोगोऽप्यथो दैवप्रश्नः स्त्री स्यादुपश्रुतिः ॥ ७२ ॥
अनुष्टुप्
genderस्त्रीfem.
कथंकथिकता पृच्छा ज्ञीप्सा प्रश्नोऽनुयोगवत् ।तत्रोपालम्भसहिते भवेत्पर्यनुयोजनम् ॥ ३६ ॥
अनुष्टुप्
genderस्त्रीfem.
व्यवहारो विवादः स्यात्पृच्छा प्रश्नोऽनुयोजनम् ।कथंकथिकता देवप्रश्ने तूपश्रुतिस्तथा ॥ १७८ ॥
अनुष्टुप्
genderस्त्रीfem.
व्याहारो भाषितं चोक्तिर्वाग्वाक्यं वचनं स्मृतम् ।प्रश्नः पृच्छानुयोगश्च प्रतिवाक्यं तदुत्तरम् ॥ १०२ ॥
अनुष्टुप्
genderस्त्रीfem.
अथ प्रतिवचस्तु स्यादुत्तरञ्चापि कथ्यते ।पृच्छाऽनुयोजनं प्रश्नः कथंकथिकता किल ॥ ३८० ॥
अनुष्टुप्
genderस्त्रीfem.
प्रश्नः पृच्छानुयोगश्च पृच्छनं पृच्छनापि च ।प्रत्युक्तिः प्रतिवाक्यं स्यादुत्तरं प्रतिवागपि ॥
अनुष्टुप्
genderस्त्रीfem.
रुशती वागशुभा स्यात् पृच्छा प्रश्नोऽनुयोगश्च ।प्रतिवचनमुत्तरं स्यादुच्चैर्घुष्टं तु घोषणाथ स्यात् ॥ ९१३ ॥
उद्गीतिः
genderस्त्रीfem.
अर्थवादः परार्थोक्तिः प्रश्नः पर्यनुयोगवत् ।अनुयोगश्च पृच्छा च प्रतिवाक्यं तदुत्तरम् ॥ ३७ ॥
अनुष्टुप्
genderस्त्रीfem.
पृच्छा as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् नुनु पृच्छायां विकल्पे च पश्चात्सादृश्ययोरनु । Amarakośa 3.3.484
- नामलिङ्गानुशासनम् किम्तूष्णीमर्थे सुखे जोषं किं पृच्छायां जुगुप्सने । Amarakośa 3.3.490
- कोषकल्पतरु किम्कं कल्याणशिरोम्बुरुक्पुनरु[245a]रीकारानुयोगार्थयोः पृच्छा-गर्हणयोस्तु किं स्म तु गते कालेऽङ्घ्रिपूर्तावपि । स्वाच्छन्द्येऽनुमतौ च काममुदितं स्यात्सामि निन्दा-र्धयो- र्नूनं निश्चित-तर्कयोरनुनय-क्रोधोक्तितर्केषु हूम् ॥ ६ ॥ Koṣakalpataru 5.1.6
- कोषकल्पतरु आहोआह क्षेपनियोगयोरथ मतावाहो उताहो उभौ पृच्छायां च विचारणेऽप्यथ परिक्लेशे प्रकर्षेऽह हा । हिंसोपक्रमकुत्सनेषु विबुधाः संकीर्तयन्त्यादह प्रोक्तं मंक्षु विचक्षणे अति[246b]शये तत्त्वे तथाति द्रुते ॥ २९ ॥ Koṣakalpataru 5.1.29
- शब्दरत्नावली ऊंमा विकल्पे वारणे स्यात्स्मातीते पादपूरणे ॥ मा स्म स्यान्मङ्गले तथ्ये वारणेऽन्यकृतावपि । अमासहार्थे रश्म्यर्थे निकरार्थे रसार्थके ॥ अज्ञाते विस्मये स्मृत्यामुद्यमार्थे निगद्यते । उं प्रश्ने चाभ्युपगमे क्रोधे च कोपगर्जिते ॥ ऊं पृच्छायामपक्रोशे रोषोक्तौ दम्भभाषिते । उमङ्गीकारकल्याणप्रणवोपक्रताह्वये ॥ Śabdaratnāvalī 8.1.48