कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnāvalī

शब्दरत्नावली Śabdaratnāvalī

4,306 verses · 34,698 words tagged · 6,000 marked doubtful (dashed)

भूमिकाण्डः · ब्रह्मवर्गप्रकाशः (2/4)

स्यादभ्युदित इत्येष कर्मोदायिक इत्यपि ।परिवेता कणिष्ठः स्याद् ज्येष्ठेऽनूढे विवाहभाक् ॥
3.6.121 · p. 119
अनुष्टुप्
तज्ज्येष्ठः परिवित्तिः स्यात् परिवित्तिक इत्यपि ।विवाहः स्यादुपयम उद्वाहः पाणिपीडनम् ।उपयामः परिणयो दारकर्म करग्रहः ॥
3.6.122 · p. 119
अनुष्टुप्
मुखधन्टा हुलुहुली जयकारो लूलूकावपि ।विवाहपुष्पताम्वूले कुहलिः पुजपुष्पिका ॥
3.6.123 · p. 119
अनुष्टुप्metre not read in every line
अब्रह्मचर्यकं ग्राम्यधर्मञ्च सुरतं रतं ।सम्प्रयोगो निधुवनं रमणं मैथुनं रतिः ॥
3.6.124 · p. 119
अनुष्टुप्
उपसृष्टं धर्षितञ्च क्रीडारत्रं महासुखम् ।त्रिभद्रं योगमिथुनमभिमानितमित्यपि ॥
3.6.125 · p. 119
अनुष्टुप्
धर्मार्थकाममोक्षैश्चतुर्वगी निगद्यते ।चतुर्भद्रं सवीर्यैस्तैस्त्रिवर्गो मोक्षहीनकः ।वरस्यैव वयस्या ये ते हि जन्याः समीरिताः ॥
3.6.126 · p. 119
अनुष्टुप्metre not read in every line

इति महाराज श्रीयुतमुछाखान मशलन्दएल्लि विरचितायां शब्दरत्नावल्यां ब्रह्मवर्गप्रकाशः ॥

क्षत्रियो बाहुजः क्षत्रो द्विजलिङ्गी नृपो विराट् ।राजा मूर्धाभिषिक्तश्च राजन्यो मूर्धकोऽपि च ॥
3.6.127 · p. 120
अनुष्टुप्
राजन्यो नरपतिः पार्थः पार्थिवो नृपतिर्नृपः ।भूपो महीक्षिद्भूपाली भूभृत्क्ष्मभुक् महीपतिः ॥
3.6.128 · p. 120
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 त्क्ष्म (wrong syllable)
नाभिनाराट् च भूमीन्द्रो नरेन्द्रो नायकोऽधिपः ।प्रणताश्रेषसामन्तो भूपालः स्यादधीश्वरः ॥
3.6.129 · p. 120
अनुष्टुप्
चक्रवर्ती सार्वभौम एकजन्मा नृपाग्रणीः ।तस्मादन्यो मण्डलेशो मण्डलेश्वर इत्यपि ॥
3.6.130 · p. 120
अनुष्टुप्
यो राजसूययाजी तु यो वा स्यान्मण्डलेश्वरः ।आज्ञया शास्ति राज्ञोऽपि स सम्राट् परिकीर्तितः ॥
3.6.131 · p. 120
अनुष्टुप्
राजन्यकं क्षत्रवृन्दो राजवृन्दे च राजकम् ।अमात्यः स्याद्ग्रन्थिहरो मन्त्री धीसचिवोऽपि च ॥
3.6.132 · p. 120
अनुष्टुप्
अमात्याश्च ततोऽन्ये ये ते कर्मसचिवा मताः ।यौक्तिक्ता नर्मसचिवाः क्रीडादिकुशलाश्च ये ॥
3.6.133 · p. 120
अनुष्टुप्
प्रधानन्तु महामात्रो मध्यमे चाधिकारिणि ।पुरोहितः पुरोधास्तु धर्मकर्मादिकारके ।व्यवहारदर्शिनि स्यात् प्राड्विवेकोऽक्षदर्शकः ॥
3.6.134 · p. 120
अनुष्टुप्metre not read in every line
द्वारपालः प्रतीहारः प्रतिहारश्च दर्शकः ।द्वारी दौवारिकोऽपि स्यात् वेतालो द्वारपालके ॥
3.6.135 · p. 120
अनुष्टुप्
दौःसाधिको वर्तरूको गर्वाटो दण्डपांशुलः ।अनीकस्थो रक्षिवर्गस्त्वङ्गरक्षणकारिषु ॥
3.6.136 · p. 120
अनुष्टुप्
आयव्ययाधिकारी स्यादध्यक्षोऽधिकृतश्च सः ।एकग्रामाधिकारी यः स्थायुकः सोऽभिधीयते ॥
3.6.137 · p. 120
अनुष्टुप्
बहुग्रामाधिकारी च गोपो गोपक उच्यते ।सुवर्णाध्यक्षपुरुषे करणकाध्यक्षभौरिकौ ॥
3.6.138 · p. 120
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 कर (syllable split)
तथैव रजताध्यक्षे रूपाध्यक्षोऽपि नैष्किकः ॥
3.6.139 · p. 120
आदिराजः पृथुर्वैण्यः काकुस्थः स्यात् पुरञ्जयः ।यौवनाश्वस्तु मान्धाता कट्वङ्गः स्याद्दिलीपकः ॥
3.6.140 · p. 120
अनुष्टुप्
रामपुत्रौ कुशलवावेकयोक्त्या कुशीलवौ ।रावणो दशकण्ठः स्यात् पौलस्त्यः निकषात्मजः ॥
3.6.141 · p. 121
अनुष्टुप्
राक्षसेन्द्रस्तु लङ्केशः पङ्क्तिग्रीवो दशाननः ।इन्द्रजित् शक्रभित् मेघनादो मन्दोदरीसुतः ॥
3.6.142 · p. 121
अनुष्टुप्
अथ शक्रसुतो वालिः किष्किन्धाधिपवालिनः ।वानरेन्द्रो रामसखः सुग्रीवो रविनन्दनः ॥
3.6.143 · p. 121
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 रा (wrong syllable)
ऐलः पुरोरवा बौध उर्वशीवल्लभोऽपि च ।ययातिः स्याद्यजातिश्च नाहुषिर्नहुषात्मजः ॥
3.6.144 · p. 121
अनुष्टुप्
शान्तनुः स्यान्महाभीमः प्रतीपः प्रतिपोऽपि च ।अथ भीष्मः शान्तनवो गाङ्गेयो गान्दिनीसुतः ॥
3.6.145 · p. 121
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 शा (wrong syllable)
गाङ्गो गङ्गायोनिर्देवव्रतो गङ्गाज इत्यपि ।स्वेच्छामृत्युः कौणपदन्तः पनच्छ(?) पुरावसुः ॥
3.6.146 · p. 121
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 यो (wrong syllable)
धृतराष्ट्रस्त्वाम्बिकेयः प्रज्ञाचक्षुः परव्रतः ।अथ पाण्डुः पाण्डुकश्च माद्रीपतिः पृथापतिः ॥
3.6.147 · p. 121
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 प (wrong syllable)
माद्री मद्रसुता स्यात्तु पृथा कुन्ती समीरिता ।काली योजनगन्धा च गन्धकाली झषोदरी ॥व्यासमाता सत्यवती सत्या चित्राङ्गदप्रसूः ।विचित्रवीर्यसूः श्रीदा दासेयी दासनन्दिनी ॥
3.6.148 · p. 121
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स (wrong syllable)
दुर्योधनः कुरुपतिः गान्धारेयः सुयोधनः ॥
3.6.149 · p. 121
कर्णे राधेयचाम्पेशवसुषेणाऽर्कनन्दनाः ।अङ्गाधिपः सुतपुत्रो घटोत्कचान्तकोऽपि च ॥
3.6.150 · p. 121
अनुष्टुप्metre not read in every line
युधिष्ठिरो धर्मराजः कङ्को धर्मसुतोऽपि च ।कर्णानुजोऽजातशत्रुरजमीढः शुचिव्रतः ॥
3.6.151 · p. 121
अनुष्टुप्
अथ भीमो भीमसेनो वीरवेणुर्वृकोदरः ।वककीचककिर्मीरजरासन्धहिडिम्वजित् ॥
3.6.152 · p. 121
अनुष्टुप्
कटव्रणो नागबलः गुणाकरोऽपि कीर्तितः ।अर्जुनो फाल्गुनो जिष्णुः सव्यसाची धनञ्जयः ॥
3.6.153 · p. 121
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
पार्थः किरीटी वीभत्सुः श्वेतवाजी कपिध्वजः ।राधाभेदी सुभद्रेशो गुडाकेशो बृहन्नलः ॥
3.6.154 · p. 122
अनुष्टुप्
गाण्डीवी विजयश्चेन्द्रिर्जयः स्यात् कृष्ण इत्यपि ।द्रौपदी पार्वती कृष्णा पाञ्चाली पाण्डुशर्मिला ॥
3.6.155 · p. 122
अनुष्टुप्
सत्यसन्धा याज्ञसेनी वेदिजा नित्ययौवना ।स्यात् परीक्षित् परिक्षिच्च परीक्षित-परिक्षितौ ॥
3.6.156 · p. 122
अनुष्टुप्
पारीक्षितस्तु राजर्षिर्जनमेजय इत्यपि ।जन्मेजयः सर्पसत्री सत्यसन्धास्तिकार्थदः ॥
3.6.157 · p. 122
अनुष्टुप्
यायावरो जरत्कारुः क्षान्तः पद्मावतीप्रियः ।पद्मा पद्मावती पद्मप्रिया पातालकन्यका ॥
3.6.158 · p. 122
अनुष्टुप्
जरत्कारुप्रिया नागमाता विषहरापि च ।आस्तिकजननी नित्या विधात्री च विषोद्भवा ॥
3.6.160 · p. 122
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 क (wrong syllable)
बलिर्वैरोचनो धीरो विरोचनसुतोऽपि च ।वाणः स्यात् कोट्टवीपुत्रो वैरीचिर्वलिनन्दनः ॥
3.6.161 · p. 122
अनुष्टुप्
दमधोषसुतश्चैद्यः शिशुपालश्च चेदिराट् ।बार्हद्रथो जरासन्धो जरापुष्टो नरायणिः ।अथ भोजाधिपः कंसो मायावानुग्रसेनजः ॥
3.6.162 · p. 122
अनुष्टुप्
मूलेदेवो मूलभद्रः कर्णीपुत्रः कलाङ्करः ।शशिदेवः क्रीडाबन्धुः … कलिप्रियः ॥
3.6.163 · p. 122
metre not recognised
अन्तःपुरे त्वधिकृतो स्यादन्तर्वंशिको जनः ।स्थापत्यः कञ्चुकी स स्यात् सौविदः सौविदल्लकः ॥
3.6.164 · p. 122
अनुष्टुप्
अथ षण्टो वर्षवरो द्वयमन्तर्महल्लके ।जात्या न दुष्टे कार्ये च स्त्रीस्वभावे नपुंसके ॥
3.6.165 · p. 122
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 व (wrong syllable)
अनुजीवी सेवकोऽर्थी त्रयं स्यात् परिचारके ।भूमेरव्यवहितो विजिगीषोः समन्ततः ॥
3.6.166 · p. 123
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 1 भू (syllables merged)
राजा शतुरिति ख्यात एकार्थाभिनिवेशतः ।भूम्येकान्तरितो राजा समित्रं मित्रकार्यतः ॥
3.6.167 · p. 123
अनुष्टुप्
तस्मात् परतरो यः स्यादुदासीनः स भूपतिः ।तथा शतुहितायैव पृष्ठं गृह्नाति यो नृपः ॥
3.6.168 · p. 123
अनुष्टुप्
स पाष्णिग्राह इत्येवं पार्ष्णिग्राहक इत्यपि ।अथ शत्रुः सपत्नोऽरिर्विपक्षो द्वेषणो द्विषन् ॥
3.6.169 · p. 123
अनुष्टुप्
परिपन्थिः रिपुर्वैरी घातकामित्रदस्यवः ।द्वेषी द्विट् शात्रवोऽरातिरभिधाती च विद्विषः ॥
3.6.170 · p. 123
अनुष्टुप्
प्रत्यर्थी हिंसको विद्विट् सपत्नान्तकोऽप्रियः ।अभिघातिः परो दुर्हृदहिनो दौर्हृदोऽपि च ॥
3.6.171 · p. 123
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
वयस्ये सवयाः स्निग्धः सहपांशुकिलोऽपि च ।मित्रं सखा सुहृच्चैव सख्यं साप्तपदीनवत् ॥
3.6.172 · p. 123
अनुष्टुप्
अथानुकूले द्वितयमनुरोधोऽनुवर्तनम् ।चरे यथार्हवर्णः स्यादपसर्पोऽपसर्पकः ॥
3.6.173 · p. 123
अनुष्टुप्
प्रणिधिर्गूढपुरुषः प्रतिष्कसप्रतिष्कशौ ।परः स्पशो गुप्तगतिर्मन्त्रगूढो हितप्रणीः ॥
3.6.174 · p. 123
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ष्क (wrong syllable)
चित्रोक्तिः पुष्पशकटी दैवप्रश्न उपश्रुतिः ।त्रिषु प्रत्ययिनश्चाप्तः द्वयं प्रत्यययोग्यके ॥
3.6.175 · p. 123
अनुष्टुप्
दैवज्ञो गणको ज्ञानी मौहूर्तो दैवलेखकः ।कार्तान्तिको ज्योतिषिको मौहूर्तिक-भसूचकौ ॥
3.6.176 · p. 123
अनुष्टुप्
सांवत्सरो वर्षकोषो रेखाजीवी गणाङ्कभुक् ।तान्त्रिको ज्ञातसिद्धान्तः शास्त्रतत्तज्ञ ईरितः ॥
3.6.177 · p. 123
अनुष्टुप्
सन्त्री गृहपतिश्चेति गृहायणिक इत्यपि ।लेखके स्यात् लिपिकरो वोलकः किरकोऽपि च ॥
3.6.178 · p. 123
अनुष्टुप्
मसीपण्योऽक्षरचणोऽक्षरचुञ्चुः करप्रणीः ।मसीधानी मसिमरिर्मेलान्धुर्वर्णकूपिका ॥
3.6.179 · p. 123
अनुष्टुप्
मेलानन्दा च मेलाम्बुर्मसिधानञ्च कुत्रचित् ।द्वयोर्मसिर्मसीमेला काली पत्राञ्जनाञ्जने ॥
3.6.180 · p. 123
अनुष्टुप्
लेखनी वर्णतुली स्यात् वर्णकाक्षरतूलिका ।कराश्रयः श्रीकरणश्चित्रकः कलमः पुमान् ॥
3.6.181 · p. 124
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 तु (wrong syllable)
वर्णदूतः स्वस्तिमुखो वाचिकहारको लेखः ।चतुष्कं लिखिते पत्रे लिखनं लेखनं क्वचित् ॥
3.6.182 · p. 124
अनुष्टुप्metre not read in every line
भवेदक्षरसंस्थानं लिखितञ्च लिविर्लिवी ।लिपिर्लिपी च लिपिका सप्तकं लिखिते मतम् ॥
3.6.183 · p. 124
अनुष्टुप्
काचनं तालिकोऽपि स्याल्लिखितस्य निबन्धने ।काचनी स्यात् काचनकी तालिकापि क्वचिद्भवेत् ॥
3.6.184 · p. 124
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable)
लेख्यस्थानं ग्रन्थकुटी मुद्रा प्रत्ययकारिणी ।दूतः सन्दिष्टकथकः सन्देहहर इत्यपि ॥
3.6.185 · p. 124
अनुष्टुप्
भावे कर्मणि दूतस्य दूत्यमित्यभिधीयते ।पथिको मन्तुरध्वन्योऽध्वनीनो यातुरध्वगः ॥
3.6.186 · p. 124
अनुष्टुप्
पथको यात्रिकः पान्थ यातृकोऽपि कुत्रचित् ।स्यात् सन्देशे कौशली च सन्दिष्टं प्राभृतं त्रिषु ॥
3.6.187 · p. 124
metre not recognisednearly अनुष्टुप्
उपप्रदानमुत्कोच उपदानकमित्यपि ।जनान्तिकमप्रकाशे हण्डी स्यान्ध्यायसारिणी (?) ॥
3.6.188 · p. 124
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 क (wrong syllable)
स्वामात्यश्च राष्ट्रञ्च दुर्गं कोषो बलं सुहृत् ॥
3.6.189 · p. 124
परस्परोपकारीदं सप्ताङ्ग राज्यमुच्यते ।अमात्यराष्ट्रदुर्गाणि कोषो दण्डश्च पञ्चमः ॥
3.6.190 · p. 124
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ङ्ग (wrong syllable)
एताः प्रकृतयस्तद्वत् विजिगीषोरुदाहृताः ।एताः पञ्च तथामित्रं सप्तमः पृथिवीपतिः ॥
3.6.191 · p. 124
अनुष्टुप्
सप्तप्रकृतिकं राज्यमित्युवाच बृहस्पतिः ॥
3.6.192 · p. 124
पौरश्रणी तदङ्गञ्च व्रूवते शब्दवेदिनः ।स्वाम्यमात्यः सुहृत् कोषो राष्ट्रं दुर्गं बलं तथा ॥
3.6.193 · p. 124
अनुष्टुप्
पौरश्रेणीश्च राज्याङ्ग प्रकृतिश्च भवेत् द्वयमम् ।पुंसि सन्धिर्विग्रहः स्याद् यानमासनमा श्रेयः ॥
3.6.194 · p. 124
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 7 श्रे (wrong syllable)
द्वैधमित्थञ्च षट् प्रोक्ताः गुणा राजकुलोद्भवाः ।शक्तयो विहितास्तिस्रः प्रभावोत्साहमन्त्रजाः ॥
3.6.195 · p. 124
अनुष्टुप्
वृद्धिस्थानं क्षयश्चेति त्रिवर्गोनीतिवेदिनम् ।इतरेषान्तु धमार्थकामैरप्यभिधीयते ॥
3.6.196 · p. 124
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ध (wrong syllable)
स प्रतापः प्रभावोऽपि यद्वीर्यं कोषदण्डजम् ॥
3.6.197 · p. 124
सामदानं दण्डभेदौ स्यादुपाये चतुष्टयम् ।साम सान्त्वं दया दानं दमो दण्डस्तु साहसम् ॥
3.6.198 · p. 125
अनुष्टुप्
भेदोपजापावित्येषां पर्यायः परिकीर्तितः ।उपधाधर्मकामार्थैरमात्यादिपरीक्षणम् ॥
3.6.199 · p. 125
अनुष्टुप्
स तु त्रिष्वषडक्षीणो राज्यमन्त्रादिरेव यः ॥
3.6.200 · p. 125
त्रिषु च्छन्ननिःशलाकविविक्तविजना अपि ॥
3.6.201 · p. 125
रहश्च क्लीवलिङ्गं स्यात् रहश्चोपांशु चाव्यये ।अथ विश्रम्भविश्वासावाश्वासाश्चाश्रमोऽपि च ॥
3.6.202 · p. 125
अनुष्टुप्
भ्रषो यथोचिताद्भ्रंशो भेश इत्यपि कुत्रचित् ।न्यायः कल्पो देशरूपमभ्रेषः स्यात् समञ्जसम् ॥
3.6.203 · p. 125
अनुष्टुप्
अथ न्याय्यमौपयिकं युक्तं लभ्यं क्रमोचितम् ।भजमानं चाभिनीतं… ॥
3.6.204 · p. 125
metre not recognised
समर्थनं भवेत् सम्प्रधारणा च समर्थना ।आज्ञाववादो निर्देशो निदेशः शासनं तथा ॥
3.6.205 · p. 125
अनुष्टुप्
शिष्टिश्च शास्तिरादेशः स्यादादेशनमित्यपि ।मर्यादा धारणा संस्था संस्थितिः स्थितिरित्यपि ॥
3.6.206 · p. 125
अनुष्टुप्
अथापराधो मन्तुः स्यात्तथागः त्वग इत्यपि ।अथ बन्धनमुद्दानं बन्धः संयमनन्तथा ॥उचिताद्द्विगुणो दण्डो द्विपाद्यमभिधीयते ।राजग्राह्ये तु भागे स्यात् भागधेयो बलिः करः ॥
3.6.207 · p. 125
अनुष्टुप्
घट्टादिदेये शुल्कोऽस्त्री यौतुकान्तधनेऽपि च ।उपहारः प्राभृतं स्यादुपग्राह्यमुपायनम् ॥
3.6.208 · p. 125
अनुष्टुप्
उपदा चेति पञ्चैते भेट समाह्वये मताः ।उत्कोच इति केषाञ्चित् मतं न बहुसम्मतम् ॥
3.6.209 · p. 125
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स (wrong syllable)
युतकं योनिसम्बन्धस्तद्भवे स्यात्तु यौतकम् ।यौतके व्रतभिक्षायां दायो हरणमित्यपि ॥
3.6.210 · p. 125
अनुष्टुप्
तत्कालश्च तदात्वं स्याद् द्वयं सम्प्रति कालके ।तथा भविष्यत्काले तु स्त्रियामायतिरायती ॥
3.6.211 · p. 125
अनुष्टुप्
अथ सान्दृष्टिकं सद्यःफलं सान्दृष्टकं तथा ।भविष्यति फले च स्यादुदर्कः पुंसि निश्चितः ॥
3.6.212 · p. 125
अनुष्टुप्
अदृष्टं वह्नितोयादिभयं दैवकृतं हि यत् ।स्वचक्रात् परचक्राद्वा भयं दृष्टमिहोच्यते ॥
3.6.213 · p. 125
अनुष्टुप्
भवेदहिभयं राज्ञां निजपक्षभवं भयम् ।अधिकारस्त्वधीकारः प्रक्रिया नियते विधौ ॥
3.6.214 · p. 126
अनुष्टुप्
प्रकीर्णकारचूर्णे द्वे रोमकेशरचामरे ।नृपानामासनं यत्तु भवेद्भद्रासनं हि तत् ॥
3.6.215 · p. 126
अनुष्टुप्
सुवर्णरजतं तत्तु सिंहासनमिहोदितम् ।अथ च्छत्रं चातपत्रं छायामित्रं प्रकोटजम् ॥
3.6.216 · p. 126
अनुष्टुप्
छत्रे कणकदण्डे तु राजशृङ्गमुदाहृतम् ।नृपलक्ष्म भवेत्तत्तु यच्छत्रं पृथिवीभुजाम् ॥
3.6.217 · p. 126
अनुष्टुप्
अथ चामरवाते च कुचेरमिति कथ्यते ।भद्रकुम्भः पूर्णकुम्भो वारिपूरितकुम्भके ॥
3.6.218 · p. 126
अनुष्टुप्
भृङ्गारोऽपि च गड्डुको गड्डुकः करकालुका ।अथ सैन्यरक्षणे स्यात् सर्जनं चोपरक्षणम् ॥
3.6.219 · p. 126
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 ड्डु (wrong syllable); pāda 3, syllable 4 न्य (wrong syllable)
हस्तिनोऽश्वाः रथाः पत्तिव्रजाः सेनाङ्गमुच्यते ।हस्तीमतङ्गमातङ्गमतङ्गजगजद्विपाः ॥
3.6.220 · p. 126
अनुष्टुप्
पीलुर्दन्ताबलो दन्ती द्विरदः कुञ्जरः करी ।वराङ्गः पुष्करी नागो जलकाङ्क्षः महामृगः ॥
3.6.221 · p. 126
अनुष्टुप्
स्तम्वेरमः शूर्पकर्णः सिन्धुरः सामजः कटी ।अन्तःस्वेद इभः पद्मी वारणः दीर्घमारुतः ॥
3.6.222 · p. 126
अनुष्टुप्
विलोमजिह्वः करटी पिण्डपादो महामदः ।पेटकी कटकी कुम्भी निर्लुवः स्यादनेकपः ॥
3.6.223 · p. 126
अनुष्टुप्
यूथनाथो यूथपः स्यात् प्रधानः वन्यहस्तिनाम् ।मदोत्कटो मदकलो याजको मत्तकुञ्जरे ॥
3.6.224 · p. 126
अनुष्टुप्
यावत् पञ्चाब्दमेतस्मिन् करभः कलभोऽपि च ।विक्कदिक्कौ तथा स्त्री तु करभी कलभीत्यपि ॥
3.6.225 · p. 126
अनुष्टुप्
प्रभिन्नो गर्जितो मत्तः स्यान्मतङ्गे क्षरन्मदे ।अथ निर्मद उद्वान्तो मदहीने मतङ्गजे ॥
3.6.226 · p. 126
अनुष्टुप्
हास्तिकं गजता चेति द्वयं द्विरदसञ्चये ।स्यात् करेणूः करेणुश्च रेणुका च करेणुका ॥
3.6.227 · p. 126
अनुष्टुप्
धेनुका वासिता वासा हस्तिनी करिणी वशा ।स तु गम्भीरवेदी स्याद् दुर्धरो योऽङ्कुशादपि ॥
3.6.228 · p. 126
अनुष्टुप्
चालको व्यालको मत्तचालके तु मतङ्गजे ।राजवाह्यस्तु यो हस्ती भवेद्विजयकुञ्जरः ॥
3.6.229 · p. 126
अनुष्टुप्
राजहस्ती च मारीचो मारिचोजयमङ्गलः ।ईशादन्तो महादन्तो विषाणञ्च भवेत् त्रिषु ॥
3.6.230 · p. 126
अनुष्टुप्
गण्डः कटश्च कटकः करटो हस्तिगण्डके ।मदो दानं हस्तिमदे कर्णास्फाले सनः सनी ॥
3.6.231 · p. 127
अनुष्टुप्
मदप्रयोगे व्यस्तारः वमथुः करशीकरः ।विदुर्णा कुम्भसन्धौ तु कम्भो मस्तकपिण्डयोः ॥
3.6.232 · p. 127
अनुष्टुप्
अथ हस्तिललाटे स्यादवग्रह उपग्रहः ।इषीका त्वीषिका चाक्षिकूटकं नेत्रगोलके ॥
3.6.233 · p. 127
अनुष्टुप्
निर्नायनन्तु निर्याणं मतङ्गापाङ्गदेशके ।चूलिका कर्णमूले स्याद् वाहित्थं कुम्भयोरधः ।तदधः प्रतिमानं स्यात् स्कन्धदेशे तथासनम् ॥
3.6.234 · p. 127
अनुष्टुप्
अथ हस्तिमुखादौ तु विन्दुवृन्दे च पद्मकम् ।हस्तिनां पार्श्वभागे च पक्षभागः स ईरितः ॥
3.6.235 · p. 127
अनुष्टुप्
दन्तभागोऽग्रतोभागे भवेद्दन्तसमन्विते ।गात्रं गात्रात् पूर्वभागेऽवरं जङ्घादिदेशयोः ॥
3.6.236 · p. 127
अनुष्टुप्
अपरा च परा चेति परभागेऽपरापरे ।नासापूर्वं स्थूलहस्तं दन्तमूलौ करीरिका ॥
3.6.237 · p. 127
अनुष्टुप्
वंशिके जानुनीख्याते सन्धानं जानुनोरधः ।अयस्कारस्तु जङ्घाग्रे प्रोहश्चरणपर्वणि ॥
3.6.238 · p. 127
अनुष्टुप्
वैणुकं वेणुकं तोत्रं गजप्रेषणदण्डके ॥
3.6.239 · p. 127
शङ्कुरालानमक्षोडो बन्धस्तम्भे च हस्तिनाम् ।हिञ्जीरो निगडोऽस्त्री स्यादन्दुकः शृङ्खलं त्रिषु ॥
3.6.240 · p. 127
अनुष्टुप्