कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

हृद्य

hṛdyaवि · adj.

In 18 kośas: 26 synonym verses, 8 as a nānārtha head word, 12 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1445 · p. 55
चारु हारि रुचिरं मनोहरं वल्गु कान्तमभिरामबन्धुरे ।वामरुच्यसुषमाणि शोभनं मञ्जुमञ्जुलमनोरमाणि च ॥ १४४४ ॥साधुरम्यमनोज्ञानि पेशलं हृद्यसुन्दरे ।काम्यं कम्रं कमनीयं सौम्यं च मधुरं प्रियम् ॥ १४४५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 म (wrong syllable)
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह शब्दादिवर्गः Amarakośa 1.6.38
श्राव्यं हृद्यं मनोहारि विस्पष्टं प्रकटोदितम् ।
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.53
अभीष्टेऽभीप्सितं हृद्यं दयितं वल्लभं प्रियम् ॥ ५३ ॥
अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.689 · p. 79
प्राग्र्यं प्राग्रहरं प्रवेकमपरं वर्यं वरेण्यं वरं,श्रेष्ठं प्रेष्ठमनुत्तमं च मधुरं मञ्जु प्रियं मञ्जुलम् ।हृद्यं हारि मनोहरं च रुचिरं कान्तं परं सुन्दरं,सौम्यं साधु च वल्गु चारु सुषमं वामं शुभं पेशलम् ॥ ६८९ ॥
शार्दूलविक्रीडितम्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.102 · p. 225
अपि स्यात्सुषमं चाथाभीप्सितं दयितं प्रियम् ।अभीष्टं वल्लगहृद्यमथासेचनकं हि तत् ॥ १०२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ग (wrong syllable)
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.64 · p. 60
वशीकरणमन्त्रो यः स हृद्य इति कीर्त्तितः ।ऋचोर्द्वयोः प्रगथने प्रगाथो नरि कीर्त्तितः ॥आयुर्वेदो धनुर्वेदो गान्धर्वश्चोपवेदकाः ।शाखा स्त्री चरणस्त्वस्त्री सूक्तं स्यादेकदेवतम् ॥साम्नः षट्प्रणवा न्यूङ्खौ भङ्गस्त्वृग्भेदनं मतः ।अध्यायश्चानुवाकश्च ऋग्यजुःसंग्रहे मतौ ॥पदप्रकृतिका तु स्यात्संहिताऽथ पदं भवेत् ॥ ६४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.38 · p. 69
विना तु पात्रं यः प्रश्नो नभोदर्शनपूर्वकम् ।आकाशभाषितं तत्स्याद्दैवप्रश्न उपश्रुतिः ।उत्तरं प्रतिवचः प्रतिवाक्यमस्त्रियां तु चटुलं चटु चाटु ।चाटुकं च हृदयंगमहृद्ये सूनृतं त्रिषु त(भ)वेत्प्रियसत्ये ॥ ३८ ॥
अनुष्टुप्two metres in one verse
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.80 · p. 166
भृङ्गं वराङ्गं सु[45b]रसं वरं रामाप्रियं त्वचम् ।गुडत्वगुत्कटं हृद्यं चोचं स्यात्स्वर्णभूमिकम् ॥ ८० ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.3 · p. 1
सुकृती पुण्यवान्धन्यः श्रेयस्वी शंकरश्च सः ।हृदयालुर्हृदयिकश्चेद्धृद्यो हृदयी तथा ॥ ३ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.60 · p. 18
कान्तं मनोज्ञं रुचिरं रुचिष्यं ।रुचिर्मनोहारि मनोहरं च ।हृद्यं प्रियं बन्धुर-सुन्दराभि-रामाणि वामं रमणीयमाहुः ॥ ६० ॥
उपजातिः
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.63 · p. 18
अभीष्टेऽभीप्सितं हृद्यं दयितं वल्लभं प्रियम् ।मिष्टं मृष्टं मधुरं स्वाद्यं स्वादिष्ठ-भल्लवत् ॥ ६३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderविadj.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.226 · p. 37
हैयंगवीनं तक्रेजं नवनीतं घृताकरम् ।दधि विप्रप्रियं हृद्यं श्रीघनं क्षीरजं शरः ॥ २२६ ॥
अनुष्टुप्
genderक्लीneut.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 178 · p. 85
चारु श्लक्ष्णं च रुचिरं प्रशस्तं हृद्यबन्धुरम् ।दर्शनीयं मनोज्ञं च चित्तपर्यायहारि च ॥ १७८ ॥
अनुष्टुप्
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.185 · p. 27
हृद्यं श्रव्यं मनोहारि सुस्पष्टं प्रकटोक्तिकम् ।अनृतं वितथालीके परुषे रूक्षनिष्ठुरे ॥ १८५ ॥
अनुष्टुप्
genderविadj.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संकीर्णवर्गः Śāradīyākhyanāmamālā 3.5.97 · p. 44
कान्तं रम्यं चारु हारि कमनीयं मनोरमम् ।हृद्यं काम्यं रमणीयं प्रशस्तं साधु शोभनम् ॥ ९७ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 म (wrong syllable)
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2626 · p. 423
मञ्जु वामं तथा हृद्यं नामानि सुन्दरस्य वै ।विशेषणार्थका एते शब्दा आयान्ति प्रायशः ॥ २६२६ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 नि (wrong syllable); pāda 4, syllable 5 न्ति (wrong syllable)
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.249 · p. 76
त्वचं चोचं त्वचा पत्रं हृद्यं सुरभिवल्कलम् ।तेजपत्रं गन्धजातं पत्रं पत्रकमित्यपि ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश विशेषणवर्गप्रकाशः Śabdaratnāvalī 5.4 · p. 163
रामञ्च रुचिरं रुच्यमभिरामञ्च नन्दितम् ।विज्ञेयमासेचनकमासेचनकमित्यपि ॥यस्य दर्शनतस्तृप्तेरन्तो नास्ति द्वयन्तु तत् ।दयितं वल्लभं हृद्यमभीष्टाभीप्सितप्रियम् ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.644 · p. 82
द्रोणस्तु द्रोणिका छत्रा चक्षुष्या द्रोणपुष्पिका ।जीरको जरणो हृद्योऽजाजिः कृष्णे तु जीरके ॥ ६४४ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.771 · p. 98
मण्डं दधिभवं मस्तु करम्भा दधिसक्तवः ।आज्यं दशाब्दिकं कौहं हृद्यं तु श्रीघनं दधि ॥ ७७१ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1581 · p. 191
वल्लभदयिताभीप्सितहृद्यप्रियरुचिररुच्यकान्तेष्टाः ।मञ्जुलमञ्जुमनोरमसुन्दरकमनीयचारुसुषमाश्च ॥ १५८१ ॥
गीतिः
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.32 · p. 47
कपित्थे स्युर्दधिफलो दधित्थग्राहिमन्मथाः ।हृद्यो दन्तशठः पुष्पफलोऽरिष्टे तु फेनिलः ॥ ३२ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.139 · p. 134
दधि विप्रप्रियं हृद्यं क्षीरजं श्रीघनं गुरु ।स्थूलं श्वेतं च मंगल्यं कट्वारः शण्डगोरसौ ॥ १३९ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.48 · p. 140
मधुमद्ये तु माध्वीकं कामिकान्तं मदोत्कटम् ।विक्रान्तं कपिशं हृद्यं मुखवासः सुखोदयः ॥ ४८ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.96 · p. 209
रुचिते हृद्यलषितवांछितेष्टेडितेहिताः ।संवीतं स्याद्वलयितं वेष्टितं रुद्धमावृतम् ॥ ९६ ॥
अनुष्टुप्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.135 · p. 212
शोभनं सुषमं चारु हृद्यं चौक्षं मनोहरम् ।न्युंखं हारि प्रियं साधु लडहं च मनोरमम् ॥ १३५ ॥
अनुष्टुप्
genderविadj.
धरणिकोश Dharaṇikośa · धरणिदास यश्लोकः Dharaṇikośa 25.3.10 · p. 159
हृद्यं स्याद्धृद्भवं हृद्यं हृद्धितं तत्प्रियं च यत् ।वशीकरणमन्त्रोऽपि वैदिको मन्त्र इष्यते ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ यान्ताः Koṣakalpataru 6.26.25 · p. 290
स्त्री स्त्रीगवी तु प्रथिताथ वन्ध्योऽफलेऽप्रसूतप्रमदासु वन्ध्या ।स्याच्छ्वेतजीरे चरमेऽत्र हृद्यंविशेष्यवद्धृद्भवहृत्प्रियार्थम् ॥ २५ ॥
उपजातिः
कोषकल्पतरु Koṣakalpataru · विश्वनाथ यान्ताः Koṣakalpataru 6.26.26 · p. 290
वशत्वकृद्वेदमनौ तु पुंसिस्त्रियां तु वृद्ध्याह्वय औषधे च ।प्रश्नेऽद्भुते चोद्यमुशन्ति षण्ढेविशेष्यवत्प्रेरणवाचकं च ॥ २६ ॥
उपजातिः
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1600 · p. 179
हृद्यस्तु ना वशीकारमन्त्रे स्याद्वैदिके द्रुमे ।कपित्थाख्ये तत्फले तु क्ली दधन्यनुलेपने ॥ १६०० ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1601 · p. 179
मधुमद्ये च माध्वीकसंज्ञे त्रिषु तु हृद्भवे ।हृत्प्रिये हृद्धिते हृज्जे चारौ हृद्या तु सा स्त्रियाम् ॥ १६०१ ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र यद्विः Śivakoṣa 21.1.350 · p. 32
हृद्यो लुङ्गे युगे हृद्या मुरायां जलकुब्जके ।हृद्यं गुडत्वचायां च कृष्णजीरे तु न स्त्रियाम् ॥ ३५० ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 6.5.100 · p. 238
कपिभेकाहिसिंहेषु हरिर्ना कपिले त्रिषु ।हृद्यो वशीक्रिया मन्त्रे हृद्यं दध्न्यनुलेपने ॥ १०० ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 6.5.101 · p. 238
हृत्प्रिये हृद्धिते हृज्जे ह्रीकौ नकुललज्जितौ ।यमेऽल्पे वामने ह्रस्वो हरित् स्त्री दिशि षण् तृणे ॥ १०१ ॥
अनुष्टुप्

हृद्य as a meaning in nānārtha verses