कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

उत्तर

uttaraक्ली · neut.

In 13 kośas: 19 synonym verses, 7 as a nānārtha head word, 5 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.263 · p. 15
उत्तरं तु प्रतिवचः प्रश्नः प्रच्छानुयोजनम् ।कथंकथिकता चाथ देवप्रश्न उपश्रुतिः ॥ २६३ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह शब्दादिवर्गः Amarakośa 1.6.17
प्रश्नोऽनुयोगः पृच्छा च प्रतिवाक्योत्तरे समे ।
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव ब्रह्मप्रकाण्डः Kalpadrukośa 3.2.71 · p. 446
उपन्यास उपोद्घात उदाहारः शपः पुमान् ।शपथः शपनं क्लीबे प्रतिवाक्योत्तरे समे ॥ ७१ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.101 · p. 472
शृङ्गवेराम्रतीराणां पुष्करागारयोरपि ।नागरोत्तरयोः स्फारशूरयोः कदरस्य च ॥ १०१ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.89 · p. 36
तत्र जा[24a]ता यदि स्त्री स्यात्फल्गुनी सा निगद्यते ।उत्तरा स्यादार्यमणी तज्जाते त्वौत्तरोत्तरौ ॥ ८९ ॥
metre not recognised
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.38 · p. 69
विना तु पात्रं यः प्रश्नो नभोदर्शनपूर्वकम् ।आकाशभाषितं तत्स्याद्दैवप्रश्न उपश्रुतिः ।उत्तरं प्रतिवचः प्रतिवाक्यमस्त्रियां तु चटुलं चटु चाटु ।चाटुकं च हृदयंगमहृद्ये सूनृतं त्रिषु त(भ)वेत्प्रियसत्ये ॥ ३८ ॥
अनुष्टुप्two metres in one verse
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.97 · p. 21
उदीच्य उत्तरोऽनूर्ध्वस्त्वधरो विनिगद्यते ।अन्तरः परिधानीयस्त्य-इदौ बुद्धिगब्रुवौ ॥ ९७ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नपुंसकाधिकारः Koṣakalpataru 4.3.7 · p. 107
सिन्दूर-दूरोदर-नागराणितीरोत्तर-प्रान्तर-चामराणि ।कटीर-वैरारर-पुष्कराणिमण्डूर-कुस्तुम्बुरु-चत्वराणि ॥ ७ ॥
उपजातिः
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास नपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.3.95 · p. 222
द्रुवयं द्वापरक्षेत्रे शृङ्गबेराभ्रनागरम् ।अगारमुत्तरं तीरं कलेवरकुकुन्दरे ॥ ९५ ॥
अनुष्टुप्
genderक्लीneut.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.5 · p. 1
प्राच्यः प्राक् पूर्व्व इन्द्राख्य उदगुत्तरधानदाः ।आगस्त्यो दक्षिणो याम्यः प्रत्यक्पाश्चात्यपश्चिमाः ॥ ५ ॥
अनुष्टुप्
genderविadj.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संयोगादिवर्गः Śāradīyākhyanāmamālā 2.2.102 · p. 29
व्याहारो भाषितं चोक्तिर्वाग्वाक्यं वचनं स्मृतम् ।प्रश्नः पृच्छानुयोगश्च प्रतिवाक्यं तदुत्तरम् ॥ १०२ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.380 · p. 49
अथ प्रतिवचस्तु स्यादुत्तरञ्चापि कथ्यते ।पृच्छाऽनुयोजनं प्रश्नः कथंकथिकता किल ॥ ३८० ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.370 · p. 26
प्रश्नः पृच्छानुयोगश्च पृच्छनं पृच्छनापि च ।प्रत्युक्तिः प्रतिवाक्यं स्यादुत्तरं प्रतिवागपि ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तिभेदाध्यायः Śabdaratnākara 2.7.913 · p. 114
रुशती वागशुभा स्यात् पृच्छा प्रश्नोऽनुयोगश्च ।प्रतिवचनमुत्तरं स्यादुच्चैर्घुष्टं तु घोषणाथ स्यात् ॥ ९१३ ॥
उद्गीतिः
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वैश्याध्यायः Śabdaratnākara 3.4.1400 · p. 170
कूटसाक्षी मृषासाक्षी प्रतिभूलग्नकौ समौ ।अर्थिनो वचनं भाषा तत्प्रत्यर्थिन उत्तरम् ॥ १४०० ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1680 · p. 202
समानावुत्तरोदीच्यौ दाक्षिणात्यस्तु दक्षिणः ।समानौ प्राग्भवप्राच्यौ पक्त्रिमं तु पचेलिमम् ॥ १६८० ॥
अनुष्टुप्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश लोकपालाध्यायः Vaijayantī 1.2.54 · p. 13
जारवायुस्तु हेमन्ते शारदः सारणः शरः ।गोगन्धनः पुरोवात उत्तरस्तु हिमानिलः ॥ ५४ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश शब्दाध्यायः Vaijayantī 2.4.37 · p. 34
अर्थवादः परार्थोक्तिः प्रश्नः पर्यनुयोगवत् ।अनुयोगश्च पृच्छा च प्रतिवाक्यं तदुत्तरम् ॥ ३७ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.16 · p. 124
अर्थिनो वचनं भाषा स्यात्प्रत्यर्थिन उत्तरम् ।कारणन्त्वभ्यवस्कन्दः प्रत्यवस्कन्द इत्यपि ॥ १६ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.191
उपर्युदीच्यश्रेष्ठेष्वप्युत्तरः स्यादनुत्तरः ।एषां विपर्यये श्रेष्ठे दूरानात्मोत्तमाः पराः ॥ १९१ ॥
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास रश्लोकः Dharaṇikośa 26.3.37 · p. 185
उत्तरं वाग्विशेषार्थश्रेष्ठोदीच्येषु कीर्तितम् ।उत्तरा दिग्विराटाख्यनृपस्यौरस उत्तरः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.86 · p. 315
भवेद्भवान्यां नरि तूत्तरः स्या-द्विराटपुत्रे दिशि योषिति स्यात् ।भवेद्द्वयोनः प्रतिवाक्यवाची-तरोऽन्यनामा त्रिषु पामरे च ॥ ८६ ॥
उपेन्द्रवज्रा
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.248 · p. 68
उत्तंसस्तु नृशण्डे स्यात् कर्णपूरेऽपि शेखरे ।उत्तरं प्रतिवाक्ये क्ली त्रिस्तूर्ध्वोदीच्ययोस्तथा ॥ २४८ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.249 · p. 68
श्रेष्ठे चाप्यजयस्त्वाह परे चैतत् स्त्रियां पुनः ।कौबेर्यां दिशि ना तु स्यान्निम्नादुत्तारणे तथा ॥ २४९ ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश रेफान्ताः Śabdaratnāvalī 7.27.59 · p. 269
उदारो दातृमहतोरनुकूलेऽभिधेयवत् ।उत्तरा स्त्री तु दिग्भेदे स्नुषायां फाल्गुणस्य च ॥विराटतनये पुंसि क्रूरे दिव्युत्रये त्रिषु ।प्रतिवाक्ये क्लीबलिङ्गमुत्तरन्तु निगद्यते ॥एकाग्रं वाच्यलिङ्गं स्यादनाकुलैकतानयोः ।औशीरमासने क्लीबं स्वापचामरदण्डयोः ॥कृकरः पक्षिभेदे स्यात् क्रकचे पक्षिदीनयोः(?) ।कदरः क्रकचव्याधिभिदोश्च खदिरे सिते ॥कर्वुरो राक्षसे पापे जलहेम्नोर्नपुंसकम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 कु (wrong syllable)
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 7.5.18 · p. 258
उत्तरं प्रतिवाक्ये स्यादुदीच्ये प्रवरोर्ध्वयोः ।स्त्रीलिङ्गत्वे धनुर्लक्ष्म्यां पुरुषे पावके च ना ॥ १८ ॥
अनुष्टुप्

उत्तर as a meaning in nānārtha verses

  • नानार्थार्णवसंक्षेप उदच्उर्वी पृथिव्यां नद्यां च स्यादुदक् तु त्रिषूत्तरे । दिग्देशकालविषय उदीच्ये चाप्युदङ्मुखे ॥ १०३ ॥ Nānārthārṇavasaṃkṣepa 2.5.103
  • शब्दरत्नावली सम्परायआश्रये सदसि स्थाने प्रसिद्धे च प्रतिश्रयः । हुताशने विष्णुशङ्खे पाञ्चजन्यः समीरितः ॥ पुंसा कृते तद्विकारे पौरुषेयो भवेत्त्रिषु । पुंसि बृन्दे वधे चापि पुरुषस्य पदान्तरे ॥ प्रावृज्जे त्रिषु नीपे ना प्रावृषेण्यो निगद्यते । लाभे सुरालये हर्षे भवेत्पुंसि फलोदयः ॥ परमात्मनि तीर्थे च विहारे च महालयः । अपवर्गे चाधिपत्ये कान्यकुब्जे महोदयः ॥ शुद्धौ तु कायशोधे स्यान्मार्जनीयो भवेत्पुमान् । बलरामे बुधे पुंसि रौहिणेयो भवेदिवृ ॥ कर्कटे मूषिके सर्गे पुंलिङ्गे स्याद्विलेशयः । युद्धेऽप्यायदुत्तरे स्यात्सम्परायः पुमानयम् ॥ पशुपक्षियुधि द्यूते चाह्वाने च समाह्वयः ॥ Śabdaratnāvalī 7.26.57
  • शब्दरत्नावली परविमाने चक्षुषि क्लीबं लक्ष्मीनाड्योरपि स्त्रियाम् । परो विदूरश्रेष्ठान्योत्तरे क्लीबन्तु केवले ॥ Śabdaratnāvalī 7.27.22
  • शब्दरत्नाकर तर्हितूष्णीमर्थे सुखे जोषं तर्हि स्यात् प्रश्न उत्तरे । तथा समुच्चये साम्ये परमार्थाभ्यनुज्ञयोः ॥ २२६८ ॥ Śabdaratnākara 5.2.2268
  • वैजयन्ती तर्हिनिषेधे वागलंकारे ज्ञीप्सनेऽनुनये खलु । तूष्णीमर्थे सुखे जोषं तर्हि स्यात्प्रश्न उत्तरे ॥ २० ॥ Vaijayantī 8.7.20