धर्षणी
dharṣaṇīस्त्री · fem.In 9 kośas: 5 synonym verses, 5 as a nānārtha head word.
कुलटायां तु दुःशृङ्गी बन्धुदा कलकूणिका ॥ ११० ॥धर्षणी लाञ्छनी खण्डशीला मदननालिका ।त्रिलोचना मनोहारी पालिः सश्मश्रुयोषिति ॥ १११ ॥
अनुष्टुप्
genderस्त्रीfem.
पुंश्च[76a]ली धर्षणी बन्धक्यसती कुलटेत्वरी ।अविनीता पांसुला च स्वैरिणी लाञ्छनी व(म)ता ॥ ३५ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 णी (syllables merged)
genderस्त्रीfem.
हस्तिकोशातकी त्वैभी विशाला कर्कशच्छदा ।क्षीरिण्यां स्यात् पटुपर्णी धर्षणी पीतदुग्धिका ॥ ३२३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 टु (wrong syllable)
genderस्त्रीfem.
अथाऽसती चर्षणी च धर्षणी स्वैरिणी तथा ।इत्वरी पुंश्चली चापि त्रिलोचना विलोचना ॥ ८३९ ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 च (wrong syllable)
genderस्त्रीfem.
देवरे विनियुक्ता या यात्यन्यं साभिसारिका ।प्रसभा निरिणा मीढा निर्लज्जा धर्षणी च सा ॥ ४६ ॥
अनुष्टुप्
genderस्त्रीfem.
धर्षणं निधुवने पराभवे धर्षणी च गदिताथ पुंश्चली ।कङ्कणं वरविवाहमुद्रके मण्डने च वलये च शेखरे ॥
रथोद्धता
meaningsपुंश्चली
अथ क्ली धर्षणं धार्ष्ट्येऽभिभवे सुरतेऽप्यथ ।धर्षणी कुलटायां स्त्री धमनस्तु पुमानयम् ॥ ९७२ ॥
अनुष्टुप्
meaningsकुलटा
सुरतक्रान्तिधार्ष्ट्येषु धर्षणं धर्षणीत्वरी ।धिषणा तु मनीषायां धिषणो देवदेशिके ॥ २१०६ ॥
अनुष्टुप्
meaningsइत्वरी
दक्षिणा दिशि दाने च दक्षिणः सरलेऽपि च ।असती स्याद्धर्षणी च धर्षणं निकृतौ रते ॥ १३१ ॥
अनुष्टुप्
meaningsअसती
दुन्दुभिः पुंसि भेर्यां स्त्री त्वक्षबिन्दुत्रिकद्वये ।धर्षणं सुरते धार्ष्ट्ये कुलटायां तु धर्षणी ॥ ४८ ॥
अनुष्टुप्
meaningsकुलटा