कुलटा
kulaṭāस्त्री · fem.In 14 kośas: 15 synonym verses, 15 as a meaning of another word.
कृतसापत्निकाध्यूढाधिविन्नाथ पतिव्रता ॥ ५२७ ॥एकपत्नी सुचरित्रा साध्वी सत्यसतीत्वरी ।पुंश्चली चर्षणी बन्धक्यविनीता च पांसुला ॥ ५२८ ॥स्वैरिणी कुलटा याति या प्रियं साभिसारिका ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 च (wrong syllable)
genderस्त्रीfem.
पुंश्चली धर्षिणी बन्धक्यसती कुलटेत्वरी ॥ १० ॥स्वैरिणी पांसुला च स्यादशिश्वी शिशुना विना ।
अनुष्टुप्
genderस्त्रीfem.
पांशुला बन्धुकी स्वैरिण्यसती पुंश्चलीत्वरी ।धर्षिणी कुलटा प्रोक्ता त्वविनीताभिसारिका ॥ ४९६ ॥
अनुष्टुप्
genderस्त्रीfem.
पतित्यक्ता सुकुलजा सा स्यात्पतिवतीति च ।कुलकूणी तु कुलटा पांसुला घर्षिणीत्वरी ॥ ३४ ॥
अनुष्टुप्
genderस्त्रीfem.
पुंश्च[76a]ली धर्षणी बन्धक्यसती कुलटेत्वरी ।अविनीता पांसुला च स्वैरिणी लाञ्छनी व(म)ता ॥ ३५ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 णी (syllables merged)
genderस्त्रीfem.
कात्यायन्यर्द्धवृद्धा या काषायवसनाधवा ।श्रवणा श्रमणा मुण्डा भिक्षुकी कुलटासती ॥ ४२ ॥
अनुष्टुप्
genderस्त्रीfem.
बन्धकी कुलटा मुक्ता पुनर्भूः पुंश्चली खला ।स्पर्शाऽभिसारिका दूती स्वैरिणी शम्फली तथा ॥ ३५ ॥
अनुष्टुप्
genderस्त्रीfem.
असती धर्षिणी पांसुलाविनीतेत्वरी समाः ।पुंश्चली बन्धकी चापि कुलटा स्वैरिणी मता ॥ १९२ ॥
अनुष्टुप्
genderस्त्रीfem.
कर्षकी बन्धकी चैव कांसला चेत्वरी सरा ।कुलटा स्वैरिणी मन्दा चालिनी व्यभिचारिणी ॥ ८२ ॥
अनुष्टुप्
genderस्त्रीfem.
भिक्षुक्यां कुलटा प्रोक्ता तत्पुत्री कौलटेयका ।कौलटेयः कौलटिनेयः कौलटिक इत्यपि ॥ ९७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 कौ (wrong syllable)
genderस्त्रीfem.
असती पांशुलाशीला स्वैरिणी कुलटेत्वरी ।पुंश्चली बन्धुकी धृष्टा चर्षणी व्यभिचारिणी ॥ १७ ॥
अनुष्टुप्
genderस्त्रीfem.
अविनीता पांसुला खण्डशीला मदननालिका ।बन्धुदा बन्धकी चैवं कुलटा कलकूणिका ॥ ८४० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
कामुकी तु वृषस्यन्ती रतीच्छावलितस्त्रियाम् ।कान्तमुद्दिश्य सङ्केतं या याति साभिसारिका ॥असती धर्षिणी धृष्टा पांशुला कुलटेत्वरी ।पुंश्चली स्वैरिणी दुष्टा वन्धकी धर्षितापि च ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ति (wrong syllable)
genderस्त्रीfem.
धर्षिणी कुलटा बन्धक्यसती पांसुला च सा ।विश्वस्ता विधवा रण्डा जातापत्या प्रसूतिका ॥ १०४४ ॥
अनुष्टुप्
genderस्त्रीfem.
वधूटी च चिरंटी च द्वितीयवयसि स्त्रियाम् ।स्वैरिणी धर्षिणी पुंश्चल्यसती कुलटेत्वरी ॥ ९ ॥
अनुष्टुप्
genderस्त्रीfem.
कुलटा as a meaning in nānārtha verses
- कोषकल्पतरु त्रपास्रुवेऽपि शिल्पं कृतिकौशले च व्यासे कृपो द्रोणजमातुले च । स्त्रियां दयायां कुलटाह्रियोस्तु त्रपा वपा मेदसि गर्त्तके च ॥ ८ ॥ Koṣakalpataru 6.22.8
- कोषकल्पतरु पांसुलस स्त्रियां च कुलटाभुवोरथो- ऽस्पष्टवाचि परगामि संकुलम् । व्याप्तकेऽथ तिनिशे च वेतसा- शोकयोर्भवति वञ्जुलः पुमान् ॥ २२ ॥ Koṣakalpataru 6.28.22
- नानार्थार्णवसंक्षेप बलाकाबन्धक्यां कुलटायां चेत्यथात्र रभसोऽपठीत् । स्याद्वारललनायां च व्रीहिभेदे च बर्बटी ॥ ६३ ॥ Nānārthārṇavasaṃkṣepa 3.1.63
- नानार्थार्णवसंक्षेप धर्षणीअथ क्ली धर्षणं धार्ष्ट्येऽभिभवे सुरतेऽप्यथ । धर्षणी कुलटायां स्त्री धमनस्तु पुमानयम् ॥ ९७२ ॥ Nānārthārṇavasaṃkṣepa 4.972
- नानार्थार्णवसंक्षेप पांसुलापरुषत्वे शक्रवने तेनैव क्लीबमीरितम् । पांसुला तु स्त्रियां भूमौ कुलटोदक्ययोस्त्रि तु ॥ ११३७ ॥ Nānārthārṇavasaṃkṣepa 4.1137
- नानार्थार्णवसंक्षेप बन्धकीकुलटायां तथानाप्तसत्कृतिर्वेशगामिनी । अर्थाय या स्त्री तस्यां च करिण्यां चाह शब्दवित् ॥ १२३९ ॥ Nānārthārṇavasaṃkṣepa 4.1239
- शब्दरत्नावली लङ्कारेकः विरेके शङ्कायां रङ्कः कृपणमन्दयोः । लङ्कादेशस्य पूःशाखाशाकिनीकुलटासु च ॥ Śabdaratnāvalī 7.1.19
- शब्दरत्नावली त्रपातापः कृच्छे च सन्तापे तापी नद्यन्तरे स्त्रियाम् । त्रपा स्त्री कुलटायाञ्च स्याल्लज्जाकुलकीर्तिषु । दर्पः पुमानहङ्कारे कस्तूर्यां दर्पकेऽपि च ॥ Śabdaratnāvalī 7.21.8
- शब्दरत्नावली इत्वरीआशरो राक्षसे पुंसि तथा वैश्वानरेऽपि च । इत्वरी कुलटायां स्त्री पथिकक्रूरयोस्त्रिषु ॥ ईश्वरः शङ्करे कामे नाट्ये स्वामिनि वाच्यवत् । ईश्वरा चेश्वरी गौर्य्यां लक्ष्मीवाण्यादिशक्तिषु ॥ Śabdaratnāvalī 7.27.58
- शब्दरत्नावली निशाचरीधृतराष्ट्रो नागभेदे सुनृपे क्षत्रभिद्यपि । नभश्चरो विहङ्गे स्याद्धने विद्याधरेऽनिले ॥ निशाचरे राक्षसे स्याच्शृगालपेचकाहिषु । वनजेषु पशुष्वेवं कुलटायां विशाचरी ॥ Śabdaratnāvalī 7.27.130
- शब्दरत्नावली अरालाअरालो हस्तभेदे स्यात्कुटिले मत्तहस्तिनि । पुंसि सर्जरसे स्त्री तु कुलटाधृष्टयोरपि ॥ Śabdaratnāvalī 7.28.41
- शब्दरत्नावली चपलाचपलः पारदे मीने चौरे च चञ्चलाश्मनोः । चपला कुलटालक्ष्मीपिप्पलीचञ्चलासु च ॥ Śabdaratnāvalī 7.28.61
- शब्दरत्नावली पांशुलापांशुलः पापिहरयोः पुंश्चले … द्वयोः । पांशुला कुलटायाञ्च तथा भूय्यामपि स्त्रियाम् । पाकलं कुष्टकौषध्यां न स्त्रियां कुञ्जरज्वरे ॥ Śabdaratnāvalī 7.28.74
- शब्दरत्नाकर बन्धकीकरिण्यां कुलटायां च भ्रातृव्यो भ्रातृजे रिपौ । भवनं जन्मगृहयोः भुवनं जगदम्भसोः ॥ २१४० ॥ Śabdaratnākara 4.1.2140
- वैजयन्ती धर्षणीदुन्दुभिः पुंसि भेर्यां स्त्री त्वक्षबिन्दुत्रिकद्वये । धर्षणं सुरते धार्ष्ट्ये कुलटायां तु धर्षणी ॥ ४८ ॥ Vaijayantī 7.5.48