नवपल्लव
navapallavaIn 6 kośas: 0 synonym verses, 8 as a meaning of another word.
नवपल्लव as a meaning in nānārtha verses
- धरणिकोश प्रवालकरालो दन्तुरे तुङ्गे भीषणे तैलधूणके । प्रवालो वल्लकीदण्डे विद्रुमे नवपल्लवे ॥ Dharaṇikośa 27.2.36
- कोषकल्पतरु विद्रुमस्यात्संभ्रमोऽपि त्वरणेऽतिवेगे तथा दरे स्यान्नरि चादरे च । ना विद्रुमो रत्नतरौ प्रवाले तथा प्रदिष्टो नवपल्लवे च ॥ ८३ ॥ Koṣakalpataru 6.25.83
- कोषकल्पतरु प्रवालस्यात्ताम्रकुम्भे नृपतौ तु गोपे गोपाल उक्तोऽप्यथ नागलोके । और्वेऽपि पातालमुशन्ति रन्ध्रे- ऽथास्त्री प्रवालो नवपल्लवेऽपि ॥ ४२ ॥ Koṣakalpataru 6.28.42
- नानार्थार्णवसंक्षेप कन्दलीरम्भायां स्यात् त्रिलिङ्ग्यां तु कन्दली नवपल्लवे । झाटभेदे कच्छरूढेऽजिनयोनिमृगान्तरे ॥ ३४२ ॥ Nānārthārṇavasaṃkṣepa 4.342
- नानार्थार्णवसंक्षेप प्रवालनवपल्लव इत्यन्ये वीणादण्डेऽपि विद्रुमे । प्रलम्बस्तु पुमान् दैत्यविशेषे च लताङ्कुरे ॥ १०८८ ॥ Nānārthārṇavasaṃkṣepa 4.1088
- शिवकोष विद्रुमविद्रुमो रत्नवृक्षेऽपि प्रवाले नवपल्लवे । कलिद्रुमो दुरारोहे श्रीवासे च विभीतके ॥ ३३७ ॥ Śivakoṣa 20.2.337
- त्रिकाण्डशेष प्रबालवीणादण्डे प्रबालोऽत्री विद्रुमे नवपल्लवे । नले काशे पोटगलः पित्तत्युक्ते च पित्तलः ॥ ४०० ॥ Trikāṇḍaśeṣa 3.3.400
- वैजयन्ती प्रवालवीणादण्डे प्रवालोऽस्त्री विद्रुमे नवपल्लवे । प्रसूनमर्थवज्जाते पुष्पे क्ली सारथौ पुमान् ॥ ५५ ॥ Vaijayantī 7.5.55