कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कन्दली

kandalīस्त्री · fem.

In 15 kośas: 17 synonym verses, 6 as a nānārtha head word, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1294 · p. 49
मृगभेदा रुरुन्यङ्कुरङ्कुगोकर्णशम्बराः ॥ १२९३ ॥चमूरुचीनचमराः समूरैणर्श्यरौहिषाः ।कदली कन्दली कृष्णसारः पृषतरोहितौ ॥ १२९४ ॥
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह सिंहादिवर्गः Amarakośa 2.5.9
कदली कन्दली चीनश्चमूरुप्रियकावपि ।समूरुश्चेति हरिणा अमी अजिनयोनयः ॥ ९ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.338 · p. 126
कन्दल्यपि स्यात्कदली ककुत्स्त्री ककुदोऽस्त्रियाम् ।विहिते पत्रवस्त्रादौ मीने चीनोऽस्त्रियामयम् ॥ ३३८ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.29 · p. 145
कठोरमल्लिका चाथ पिस्तं स्याच्च मकूलकम् ।कदली कन्दली काली रसा हस्तिबुसा तथा ॥चर्मण्वती भानुफला रम्भा मोचा च कृष्णला ।वृन्तपुष्पा च निःसारा तृणसारा महाच्छदा ॥काष्टाला वारणबि[28a]सा ग्रन्थिनी गजदन्तिका ।सुकुमारा मृत्युफला कथिता दत्तविग्रहा ॥मोचं फलेऽस्याः पुष्पं तु शिलीध्रं कन्दलं त्रिषु ।तालस्तलो ना श्रीबीजो ध्वजद्रुः स महाफलः ॥ २९ ॥
metre not recognised
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.37 · p. 192
चमूरुः स्याच्चित्रमृगो रुरुर्मेघान्तशृङ्गमुक् ।कदली कन्दली चीनश्चमूरु-प्रियकावपि ।समूरुश्चेति हरिणा अमी अजिनयोनयः ।रिष्यर्श्य-रङ्कु * * * * * * * * * * *अष्टमश्चाष्टमश्च स्यात्पश्वङ्गावयवेऽन्यवत् ।* * * * * * * * रोहिताद्या मृगाः परे ॥ ३७ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.199 · p. 76
वाताप्रमीरोहितौ च कन्दली सार इत्यपि ।इत्यादयोऽपरे भेदाः स्वयं ज्ञेया मनीषिभिः ॥ १९९ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2340 · p. 378
कन्दली कृष्णशारश्च कृष्णसारोऽपि कथ्यते ।दक्षिणेर्मा मृगः सोऽस्ति यो व्याधैर्दक्षिणे क्षतः ॥ २३४० ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.368 · p. 135
पताका च पटाका च जयन्ती वैजयन्तिका ।ध्वजोऽस्त्री वैजयन्ती च कदली कन्दलीति च ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्त्रीलिङ्गसङ्ग्रहः Śabdaratnāvalī 9.28 · p. 309
चरे शिवा च वनिता कन्दली कदलीति च ।ब्रह्मवन्धूर्वीरबन्धूर्निन्दायामूङि तद्धिते ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.328 · p. 245
कन्दली नन्तो ङ्यन्तश्च कदली त्रिषु कन्दला ।हस्तायामऽश्याममृगे ऋश्य-रिश्यौ च सम्मतौ ॥ ३२८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 न्तो (wrong syllable)
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.648 · p. 83
वराहकन्दे वाराही कन्दलः कन्दली स्त्रियाम् ।मध्वालुको मधुरसः कालाची नूतकन्दलम् ॥ ६४८ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.687 · p. 88
पृषतो बिन्दुचित्रोङ्गः कन्दली तु महोदरी ।श्यामा हस्तसमायामा कोक ईहामृगो वृकः ॥ ६८७ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 114 · p. 537
द्रोणपर्णी स्निग्धकन्दा कन्दली भूमिकन्दली ॥ ११४ ॥
genderस्त्रीfem.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव क्षत्त्रियवर्गः Trikāṇḍaśeṣa 2.8.58 · p. 70
कदली कन्दली चीनमक्षंवाटस्तु मल्लभूः ।भीरुस्तु भेलो हरिणहृदयः स्यात्पलङ्कटः ॥ ५८ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.210 · p. 62
वराहकन्दे वाराही चक्रोष्ट्र्यां मालुवा स्त्रियाम् ।मध्वालुको मधुरसः कन्दलः कन्दली समौ ॥ २१० ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश पशुसङ्ग्रहाध्यायः Vaijayantī 3.4.25 · p. 67
कन्दली तु श्यामवर्णा हस्तायामा महोदरी ।एते स्युः कृष्णसाराद्या मृगा अजिनयोनयः ॥ २५ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश लिङ्गसङ्ग्रहाध्यायः Vaijayantī 8.9.38 · p. 292
genderपुंस्त्रीक्लीm. f. n.
धरणिकोश Dharaṇikośa · धरणिदास लश्लोकः Dharaṇikośa 27.3.27 · p. 202
कन्दली कदली चेति मृगवृक्षविशेष[96]योः ।कन्दलः कलहे युद्धे कपाले च कलध्वनौ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.342 · p. 76
रम्भायां स्यात् त्रिलिङ्ग्यां तु कन्दली नवपल्लवे ।झाटभेदे कच्छरूढेऽजिनयोनिमृगान्तरे ॥ ३४२ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.344 · p. 76
इत्येव रभसस्त्वाह त कलापोपरागयोः ।स्त्रियां तु क्षणिका ज्ञेया विद्युति क्षणवत्तु यत् ॥ ३४४ ॥
अनुष्टुप्
doubtful
शिवकोष Śivakoṣa · शिवदत्तमिश्र लत्रिः Śivakoṣa 23.2.450 · p. 41
ताम्रे च कपिलश्चित्रे कौन्तीशिंशिपयोः स्त्रियाम् ।कदला कदली पृश्न्यां कन्दली कन्दलावपि ॥ ४५० ॥
अनुष्टुप्
meanings
शिवकोष Śivakoṣa · शिवदत्तमिश्र लत्रिः Śivakoṣa 23.2.451 · p. 41
काष्टीलिकायां कदलो शाल्मली भूरुहेऽपि च ।कराला कालमालायां तैले सर्जरसस्य च ॥ ४५१ ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश लान्ताः Śabdaratnāvalī 7.28.49 · p. 280
कन्दली मृगभेदे स्त्री त्रिष्वङ्कुरोपरागयोः ।कदला कदलः पृश्न्यां कदला शाल्मलीद्रुमे ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ङ्कु (wrong syllable)

कन्दली as a meaning in nānārtha verses

  • शब्दरत्नावली प्रसूप्रसूर्मातरि कन्दल्यामश्वायां विरुधि स्त्रियाम् । वसुरत्ने धने क्लीबं दीप्तौ वृद्ध्यौषधे स्त्रियाम् । नाग्नौ देवे बके श्यामे योक्तभूपालसाधुषु ॥ Śabdaratnāvalī 7.32.5