All kośas › Nānārthārṇavasaṃkṣepa
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa
5,800 verses · 33,357 words tagged · 12,179 marked doubtful (dashed)
नानालिङ्गाध्यायः (3/18)
उपला सज्जनस्त्वाह दिशि चाथो(पलो?लपो)ऽस्त्रियाम् ।आदिसर्गस्थभूतानामन्नभेदे नपि त्वदः ॥ २४१ ॥
4.241 · p. 67
अनुष्टुप्metre not read in every line
गुल्मिन्यां सलिले काष्ठेऽप्यूर्ध्वमूलाह्वये पुनः ।स्तम्बभेदे कलापाख्यमुनेः शिष्यान्तरे च ना ॥ २४२ ॥
4.242 · p. 67
अनुष्टुप्
हलायुधेन तूक्तं यदुलपा बल्बजा इति ।तत्प्रमादकृतं विद्यादुडुपं तु प्लवे नपि ॥ २४३ ॥
4.243 · p. 67
अनुष्टुप्
ना चन्द्रेऽथोटजोऽस्त्री स्यादृषीणां पर्णवेश्यनि ।गृहमात्रेऽप्यु(दि?द)ञ्चस्तु पुमान् वादनदण्डके ॥ २४४ ॥
4.244 · p. 68
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 त्रेऽ (syllables merged)
कोणाख्ये परपुष्टे तु द्वे उदात्तस्तु पुंस्ययम् ।उच्चैःस्वरे तद्वति तु महात्मनि च भेद्यवत् ॥ २४५ ॥
4.245 · p. 68
अनुष्टुप्
उद्वान्तो निर्मदगजे पुमानुच्छर्दिते त्रिषु ।उद्भिदं कूप्यलवणे क्लीबं ना तु जलोद्गमे ॥ २४६ ॥
4.246 · p. 68
अनुष्टुप्
कूपादेस्त्रिषु तूद्भिज्जे तरुगुल्मादिवस्तुनि ।उल्मुकं स्यादलाते स्त्री पूर्वराजान्तरं तु ना ॥ २४७ ॥
4.247 · p. 68
अनुष्टुप्
उत्तंसस्तु नृशण्डे स्यात् कर्णपूरेऽपि शेखरे ।उत्तरं प्रतिवाक्ये क्ली त्रिस्तूर्ध्वोदीच्ययोस्तथा ॥ २४८ ॥
4.248 · p. 68
अनुष्टुप्
श्रेष्ठे चाप्यजयस्त्वाह परे चैतत् स्त्रियां पुनः ।कौबेर्यां दिशि ना तु स्यान्निम्नादुत्तारणे तथा ॥ २४९ ॥
4.249 · p. 68
अनुष्टुप्
उत्तमस्तु विभक्तीनां पाश्चात्यत्रितये त्रि तु ।उत्कृष्टे दुग्धिकायां तु स्त्रियां स्यादुत्तमाथ ना ॥ २५० ॥
4.250 · p. 68
अनुष्टुप्
उद्धनो यत्र निक्षिप्य काष्ठे काष्ठस्य तक्षणम् ।तत्रोद्गतधनादौ तु त्रिरुदक्यां तु सा स्त्रियाम् ॥ २५१ ॥
4.251 · p. 68
अनुष्टुप्
ऋतुमत्यां प्रियाचारशूद्रे तु स पुमान् मतः ।उदकार्हे पुनस्त्रि स्यात् तथैवोदकसाधुनि ॥ २५२ ॥
4.252 · p. 68
अनुष्टुप्
उपस्थोऽस्त्री भगे मेढ्रेऽप्युत्सङ्गेऽप्यौरसे पुनः ।उरस्यो द्वे सुते ना तु स्तने त्रिस्तूरसा सह ॥ २५३ ॥
4.253 · p. 68
अनुष्टुप्
एकदिक्के तत्र साधावुरोभव उरोहिते ।उचितं तु स्वभाव क्ली निश्चिताभ्यस्तयोः पुनः ॥ २५४ ॥
4.254 · p. 68
अनुष्टुप्
त्रिर्युक्तेऽनुमते चाथ प्रोक्तवाञ्छाकटायनः ।योग्ये चिरानुयाते चेत्यथोद्धानं नपुंसकम् ॥ २५५ ॥
4.255 · p. 68
अनुष्टुप्
चुल्ल्यामुद्गमने च त्रिः पुनः स्यादुद्गते तथा ।उष्णीषमस्त्री मकुटे शिरोवेष्टेऽप्यथ द्वयोः ॥ २५६ ॥
4.256 · p. 69
अनुष्टुप्
उच्छीतष्टिट्टिभे स्वप्ने पुनर्नाथोपबर्हणे ।उच्छीर्ष क्ली त्रिषु पुनरुन्मूर्धनि पुमान् पुनः ॥ २५७ ॥
4.257 · p. 69
अनुष्टुप्
उदारः काककड्गौ स्यात् त्रिस्त्वग्राम्यमहात्मनोः ।दानशौण्डेषु चैतेषु स्त्र्यर्थे वृत्तिर्यदा तदा ॥ २५८ ॥
4.258 · p. 69
अनुष्टुप्
उदारा चाप्युदारी चेत्येवं रूपद्वयं भवेत् ।उदरं तु न ना ज्ञेयं जठरे क्ली तु संयुगे ॥ २५९ ॥
4.259 · p. 69
अनुष्टुप्
उद्दामो वरुणे पुंसि त्रिषु तु स्याद्विशृङ्खले ।उल्लोलः पुंसि कल्लोले भृशलोले तु भेद्यवत् ॥ २६० ॥
4.260 · p. 69
अनुष्टुप्
उन्मत्तः पुंसि धुर्धूरे तत्फले क्ली त्रिषु त्वयम् ।उन्माद(स्त्रिषु?वति) पूगस्य पुनः क्लीबं फले भवेत् ॥ २६१ ॥
4.261 · p. 69
अनुष्टुप्metre not read in every line
उद्वेगमिति सिंहोक्तं वैजयन्त्यां तु खण्डिते ।पूगस्य फल इत्युक्तः पुमांस्तूद्वेजने त्रि तु ॥ २६२ ॥
4.262 · p. 69
अनुष्टुप्
भवेदुद्गतवेगादावुष्णिका तु स्त्रियामियम् ।यवाग्वामुष्णकस्तु त्रिर्दक्षे क्लीबं तु चेतसि ॥ २६३ ॥
4.263 · p. 69
अनुष्टुप्
उच्चलं चापभेदे च त्रिषु तूच्चलितर्यदः ।उद्धर्षस्तु महे पुंसि त्रिषु तूत्कटहर्षके ॥ २६४ ॥
4.264 · p. 69
अनुष्टुप्
उन्मदस्तु पुमाञ्छूर्पे कच्छपे तु द्वयोरयम् ।उत्सृष्टस्त्रिषु दत्ते स्यात् त्यक्ते चाथ नृलिङ्गकः ॥ २६५ ॥
4.265 · p. 69
अनुष्टुप्
शाकजातिविशेषस्य मारिषाख्यस्य भेदके ।देवमारिषसंज्ञेऽथो उन्माथः पाशयन्त्रके ॥ २६६ ॥
4.266 · p. 69
अनुष्टुप्
ना हिंसायामथोन्मार्गे त्रिः स्रुवे चाजयोऽब्रवीत् ।उत्साहोऽध्यवसाये ना सूत्रे च रभसोऽब्रवीत् ॥ २६७ ॥
4.267 · p. 69
अनुष्टुप्
उत्साहा तु स्त्रियामुक्ता वैजयन्त्यां मनीषिणा ।आरकूटाह्वये लोहभेदेऽथोत्कीर्ण इत्ययम् ॥ २६८ ॥
4.268 · p. 70
अनुष्टुप्
जलाशयविशेषे ना पुरीसंज्ञेऽथ स त्रिषु ।भवेदुल्लिखितेऽथायम् (१)उपेन्द्रस्तु पुमानयम् ॥ २६९ ॥
4.269 · p. 70
अनुष्टुप्
विष्णावुपगते त्विन्द्रः त्रिरथो उच्छुनः पुमान् ।वैशाखमासे त्रिषु तु स्यादुद्गतशुनादिके ॥ २७० ॥
4.270 · p. 70
अनुष्टुप्
उद्गता विषमे वृत्तविशेषे स्त्री त्रि तूत्सवे ।उत्पिबो द्वे चकोराख्यपक्षिण्युत्पातरि त्रिषु ॥ २७१ ॥
4.271 · p. 70
अनुष्टुप्
उत्करस्तु पुमान् पुञ्जे यज्ञभूमेश्च कुत्रचित् ।प्रदेशभेदे त्रिषु तु स्यादुद्गतकरादिके ॥ २७२ ॥
4.272 · p. 70
अनुष्टुप्
उत्कटं तु भवेत् क्लीबं योगिनामासनान्तरे ।उद्भटक्षीबयोस्तु त्रिरुदीच्यं तु नपुंसकम् ॥ २७३ ॥
4.273 · p. 70
अनुष्टुप्
ह्रीबेरे त्रिः पुनरुदग्भवादौ स्यात् पुमान् पुनः ।उल्लम्बने स्यादुद्बन्धो मर्त्यजात्यन्तरे पुनः ॥ २७४ ॥
4.274 · p. 70
अनुष्टुप्
खनकात् क्षत्त्रियाजाते द्वे उत्तप्तं तु नप्यदः ।शुष्कमांसे त्रिषु पुनस्तप्ते दीप्तेऽप्यथो पुमान् ॥ २७५ ॥
4.275 · p. 70
अनुष्टुप्
उर्वारुश्चिद्भिटे स्त्री तु कर्कट्यामेतयोः पुनः ।फले क्लीबमथोद्गाता पुमान् स्यादृत्विगन्तरे ॥ २७६ ॥
4.276 · p. 70
अनुष्टुप्
उच्चैर्गातरि तु त्रि स्यादुन्नेता त्वृत्विगन्तरे ।पुमानुन्नायके तु त्रिरूहितर्यप्यथो पुमान् ॥ २७७ ॥
4.277 · p. 70
अनुष्टुप्
उदर्चिदग्नौ त्रि पुनरुद्धतार्चिष्यथो नपि ।ऊर्दरं स्यादावपने भेद्यलिङ्गं तु दुर्बले ॥ २७८ ॥
4.278 · p. 70
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दा (wrong syllable)
ऊधस्यं तु नपि क्षीरे त्रिषु तूधोभवादिके ।ऊरव्यस्तु द्वयोर्वैश्ये त्रिषु तूरुभवे भवेत् ॥ २७९ ॥
4.279 · p. 71
अनुष्टुप्
ऊरुजस्तु द्वयोर्वैश्य ऊरुजाते पुनस्त्रिषु ।ऊषणो ना कटुरसे विज्ञेयस्त्रि तु तद्वति ॥ २८० ॥
4.280 · p. 71
अनुष्टुप्
क्लीबं तु मरिचे शुण्ठावूषणाख्ये च कर्मणि ।पिप्पल्यां तूषणा स्त्री स्यादूर्णायुस्तु द्वयोः क्रिमौ ॥ २८१ ॥
4.281 · p. 71
अनुष्टुप्
मेषाख्यपशुजातौ स्यान्ना तु तल्लोमनिर्मिते ।कम्बले क्षीणभङ्गे च रभसः प्रोक्तवानमुम् ॥ २८२ ॥
4.282 · p. 71
अनुष्टुप्
वेदकीर्तितगन्धर्वभेदेऽथोर्जस्वति त्रिषु ।ऊर्जस्वत् स्त्री तु नद्यां स्यादूर्जस्वत्यथ ना भवेत् ॥ २८३ ॥
4.283 · p. 71
अनुष्टुप्
ऋषभो वृषभे कर्णरन्ध्रे नक्रस्य पुच्छके ।स्वराणामपि सप्तानां षड्जादीनां क्वचित् स्वरे ॥ २८४ ॥
4.284 · p. 71
अनुष्टुप्
एकाहक्रतुभेदे च सामभेदेषु केषुचित् ।अर्हत्तीर्थकराणां च कस्मिंश्चिन्मत्तहस्तिनि ॥ २८५ ॥
4.285 · p. 71
अनुष्टुप्
शृङ्गिसंज्ञे च भैषज्ये केचिच्छ्रेष्ठेऽपि मन्वते ।अन्ये शब्दात् परः श्रेष्ठ इत्यूचू रमसः पुनः ॥ २८६ ॥
4.286 · p. 71
अनुष्टुप्
वराहपुच्छे च स्त्री तु नराकारस्त्रियां भवेत् ।ऋषभा शूकशिम्ब्यां च रभसेन प्रकीर्तिता ॥ २८७ ॥
4.287 · p. 71
अनुष्टुप्
क्लीबे त्वृजीकं वज्रे स्यादृषिभेदे परे नरि ।एधितं तु वने क्लीबलिङ्गमौणादिका विदुः ॥ २८८ ॥
4.288 · p. 71
अनुष्टुप्
ना स्याद्गिरिसरिद्वाहेऽथैकाङ्गो ना बुधग्रहे ।त्रिस्त्वेकावयवे काणे त्वेकाक्षो भेद्यलिङ्गकः ॥ २८९ ॥
4.289 · p. 71
अनुष्टुप्
द्वयोस्तु वायसे विद्यादेकाहं त्वेकवासरे ।क्ली पुमांस्त्वेकदिवससाध्ययज्ञेषु कीर्तितः ॥ २९० ॥
4.290 · p. 72
अनुष्टुप्
ज्योतिष्टोमादिषु पुमान् पुनर्नारङ्गपादपे ।एलकस्त्रि त्वेलितरि स्यान्मेषे त्वेडका द्वयोः ॥ २९१ ॥
4.291 · p. 72
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्वे (wrong syllable)
त्रिः कुत्सितादिबधिरे नाराचे पुनरेषणः ।नाराच्यां त्वेषणी स्त्री स्यात् कुस्तुम्बुर्यां तु सैषणा ॥ २९२ ॥
4.292 · p. 72
अनुष्टुप्
इच्छायां क्लीच्छतेर्हेतुव्यापारे नप्स्त्रियोर्यदा ।एषणं चैषणा चेति स्यादथो ए(न?त)शः पुमान् ॥ २९३ ॥
4.293 · p. 72
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
इन्द्रे चन्द्रे तथाध्वर्यौ द्वयोस्तु स्यात् तुरङ्गमे ।एधतुस्तु स्त्रियां लक्ष्भ्यां ना त्वग्नौ पुरुषेऽपि च ॥ २९४ ॥
4.294 · p. 72
अनुष्टुप्
एकहङ् ना यमे काके पुनर्द्वे त्रि तु काणके ।ए(न?त)शास्त्वश्मनि द्वे ना त्वग्नौ ब्रह्मणि होतरि ॥ २९५ ॥
4.295 · p. 72
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 ए (syllables merged)
ऐश्वरं क्ली चतुर्हस्तप्रमाणे भेद्यवत् पुनः ।सम्बन्धिनीश्वरस्य स्यादोदनस्त्वस्त्रियामयम् ॥ २९६ ॥
4.296 · p. 72
अनुष्टुप्
अन्ने क्लीबं तु मेघे स्यात् काञ्जिके तु पुमानयम् ।ओलकस्तु पुमाञ्छाके काणमारिषसंज्ञके ॥ २९७ ॥
4.297 · p. 72
अनुष्टुप्
मारिषाख्यस्य शाकस्य जातिभेदे स्त्रियां पुनः ।ओलिका धान्यभेदे स्यान्नीवाराख्येऽथ नप्यदः ॥ २९८ ॥
4.298 · p. 72
अनुष्टुप्
औजसं काञ्चनेऽथ स्यादोजःसम्बन्धिनि त्रिषु ।औरसो द्वे स्वजाते स्यात् पुत्त्रे ना सूक्ष्मजीरके ॥ २९९ ॥
4.299 · p. 72
अनुष्टुप्
उरःसम्बन्धिनि त्रिः स्यादौरभ्रस्तु पुमानयम् ।कम्बले मेषरोमोत्थे मेषसम्बन्धिनि त्रिषु ॥ ३०० ॥
4.300 · p. 72
अनुष्टुप्
कल्याणं तूत्सवे क्लीबं मङ्गलेऽक्षयरुक्मयोः ।हलायुधः स्वर्णपत्रे पठत्यनतिसूक्ष्महक् ॥ ३०१ ॥
4.301 · p. 72
अनुष्टुप्
श्रुतौ च स्त्री तु कल्याणी -------- ।शुभयुक्ते शाश्चतस्तु वदत्य--मात्रके ॥ ३०२ ॥
4.302 · p. 73
metre not recognised
एतयोरर्थयोः स्त्रीत्वे यह वृत्तिस्तदा द्वयम् ।कल्याणा चापि कल्याणीत्यथ पुंसि चिरन्तने ॥ ३०३ ॥
4.303 · p. 73
अनुष्टुप्
क्वचिदाङ्गिरसे मत्ये कलापस्तु पुमानयम् ।काञ्चीतूणीसमूहेषु भूषणे बर्हिबर्हके ॥ ३०४ ॥
4.304 · p. 73
अनुष्टुप्
कलापी तु स्त्रियामेषा कणिशेऽन्यस्तु कश्चन ।ब्रूते कणिशपूलेऽथ कनकः पुंसि चम्पके ॥ ३०५ ॥
4.305 · p. 73
अनुष्टुप्
नागकेसरधुर्धूरकिंशुकेषु बृहस्पतौ ।क्लीबं तु काञ्चनेऽत्रोक्तवृक्षाणां फलपुष्पयोः ॥ ३०६ ॥
4.306 · p. 73
अनुष्टुप्
कपिलस्त्वृषिभेदेऽग्नौ ना कडाराख्यवर्णके ।तुरुष्काख्ये च निर्यासे बभ्रुवर्णे ककुद्मति ॥ ३०७ ॥
4.307 · p. 73
अनुष्टुप्
कडारवर्णयुक्ते तु त्रि स्त्री तु कपिला द्रुमे ।शिंशपासंज्ञके बभ्रुवर्णायां सुरभावपि ॥ ३०८ ॥
4.308 · p. 73
अनुष्टुप्
ब्रह्मरीतिसमाख्ये च लोहभेदे जलोकसाम् ।जातिभेदे द्वादशानां तम्योक्तं लक्षणं यथा ॥ ३०९ ॥
4.309 · p. 73
अनुष्टुप्
मनःशिला---- -------- ।पृष्ठे स्निग्धा मुद्गवर्णेत्य------- ॥ ३१० ॥
4.310 · p. 73
metre not recognised
करिण्यां विद्युति तथा हरेण्याख्ये च भेषजे ।द्वयोस्तु शुनि ना तु स्यात् कपिशः श्यावसंज्ञके ॥ ३११ ॥
4.311 · p. 73
अनुष्टुप्
वर्णे तद्वति तु त्रिः क्ली मध्वासव इति श्रुते ।मद्यभेदेऽथ कलशः कुम्भे लिङ्गद्वयान्वितः ॥ ३१२ ॥
4.312 · p. 73
अनुष्टुप्
स्थाल्यां तु दधिमन्थन्यां कलशी स्त्रीति केचन ।द्रोणाख्यपरिमाणे तु पुमानथ करीरवाक् ॥ ३१३ ॥
4.313 · p. 73
अनुष्टुप्
वशाङ्कुरे घटे चापि कुकराख्ये च पादपे ।करीरी तु स्त्रियां हस्तिदन्तमूलेऽथ भेद्यवत् ॥ ३१४ ॥
4.314 · p. 74
अनुष्टुप्
करिणः प्रेरयितरि करकस्तु पुमानयम् ।कमण्डलौ च कर्कर्यां शण्डे त्वप्याह कश्चन ॥ ३१५ ॥
4.315 · p. 74
अनुष्टुप्
करङ्के तु पुमानाम्रे दाडिमेऽप्येतयोस्तु नप् ।फले स्त्रीपुंसयोस्तु स्यात् करका जलदोपले ॥ ३१६ ॥
4.316 · p. 74
अनुष्टुप्
द्वयोस्तु पक्षिभेदे स्यादित्याह रभसः कविः ।कटकस्त्वस्त्रियां शैलनितम्बे वलयेऽपि च ॥ ३१७ ॥
4.317 · p. 74
अनुष्टुप्
सैन्ये च राजधान्यां चामरदत्तस्तु पुंस्यमुम् ।हस्तमुष्टावभाषिष्ट स्त्रियां तु कटिका कृते ॥ ३१८ ॥
4.318 · p. 74
अनुष्टुप्
सूत्रस्यूतशलाकाभिरायुधस्य निवारणे ।परिमण्डलसंस्थानद्रव्येऽथो कण्टकोऽस्त्रियाम् ॥ ३१९ ॥
4.319 · p. 74
अनुष्टुप्
वृक्षस्यावयवे सूचिसदृशे क्षुद्रविद्विषि ।रोमाञ्चे वेणुवृक्षे च कण्टका तु स्त्रियामियम् ॥ ३२० ॥
4.320 · p. 74
अनुष्टुप्
कण्टकास्ये कीटभेदे ह्यनुवाकस्तु कण्टिका ।कर्कटो द्वे कुलीरे स्यात् कङ्कसंज्ञे च पक्षिणि ॥ ३२१ ॥
4.321 · p. 74
अनुष्टुप्
ना तु राशौ चतुर्थे स्यात् क्वचिच्चावयवान्तरे ।आरोह्यायास्तुलायाः स्यात् कर्कशस्तु त्रिषु स्मृतः ॥ ३२२ ॥
4.322 · p. 74
अनुष्टुप्
कठिने प्रखरस्पर्शे निर्दये साहसप्रिये ।ना तु खड्गे तथान्ये च काम्पिल्याख्यमहीरुहे ॥ ३२३ ॥
4.323 · p. 74
अनुष्टुप्
पटोलसंज्ञवल्ल्यां च स्यादिक्षौ चाथ कर्कशी ।स्त्रियां स्याद्बदरीभेदे नरकोलीति विश्रुते ॥ ३२४ ॥
4.324 · p. 74
अनुष्टुप्
कर्करस्तु पुमानस्थ्नि पाषाणे दर्पणेऽपि च ।दृढे तु भेद्यलिङ्गः स्यादित्याहुरथ कर्करी ॥ ३२५ ॥
4.325 · p. 74
अनुष्टुप्
स्त्रियां स्यात् करकेऽथ क्ली कङ्कणं करभूषणे ।तथा भूषणमात्रे च सूत्रे त्वजय उक्तवान् ॥ ३२६ ॥
4.326 · p. 75
अनुष्टुप्
कङ्कणी तु स्त्रियां क्षुद्रघण्टायामथ कङ्कतः ।केशमार्जनकद्रव्ये त्रयी द्वे काकजातिषु ॥ ३२७ ॥
4.327 · p. 75
अनुष्टुप्
चतसृष्वेकजातौ स्यात् कमलं तु नपुंसकम् ।पद्मे रक्ताम्बुजे तोये स्थौणेये छुरिकादिनः ॥ ३२८ ॥
4.328 · p. 75
अनुष्टुप्
हेमाद्यैश्चित्रिते चर्मण्यथ स्त्री कमला श्रियाम् ।मृगे तु द्वे कश्मलं तु क्लीबं मोहपुरीषयोः ॥ ३२९ ॥
4.329 · p. 75
अनुष्टुप्
मलीमसे तु त्रिः क्ली तु कललं चर्मकोशके ।अस्थन्यप्यथ न स्त्री स्याद् रेतसो गर्भता यतः ॥ ३३० ॥
4.330 · p. 75
अनुष्टुप्
स्यादवस्थान्तरे सिंहवैजयन्त्यौ तु पेठतुः ।उल्बेऽथ ताम्रकलशे किट्टे लोहमलेऽपि च ॥ ३३१ ॥
4.331 · p. 75
अनुष्टुप्
कलिलं तु नपि ज्ञेयं समूहे कायपापयोः ।गाम्भीर्ये सङ्गतेऽप्यात्माधिष्ठिते शुक्रशोणिते ॥ ३३२ ॥
4.332 · p. 75
अनुष्टुप्
गहने तु त्रिषु ज्ञेयं कलुषं तु नपि ह्यघे ।सूक्ष्मैलायां तु कलुषी स्त्री त्रिषु त्वाविलद्रवे ॥ ३३३ ॥
4.333 · p. 75
अनुष्टुप्
महिषे तु द्वयोर्ना तु कृष्णे वर्णेऽन्यकीर्तितः ।तद्युक्ते भेद्यवदथो कल्माषः कृष्णपाण्डरे ॥ ३३४ ॥
4.334 · p. 75
अनुष्टुप्
ना मिश्रवर्णेऽन्ये त्याहुश्चित्रवर्णेऽथ भेद्यवत् ।वर्णयोरेतयोरेकवर्णयुक्ते नपि त्वदः ॥ ३३५ ॥
4.335 · p. 75
अनुष्टुप्
आरण्यके सामभेदे 'कया नश्चित्र' इत्यृचि ।सर्पसामाह्वये गीते कलिङ्गस्तु नृपान्तरे ॥ ३३६ ॥
4.336 · p. 75
अनुष्टुप्
नापत्येषु बहुष्वस्य भूम्नि चैषां च नीवृति ।द्वे तु धूम्याटसंज्ञे स्यात् पक्षिभेदेऽथ नप्स्त्रियोः ॥ ३३७ ॥
4.337 · p. 75
अनुष्टुप्
कलिङ्गा कुटजाख्यस्य फले वृक्षस्य यत् पुनः ।दृश्यतेऽजयकोशेऽत्र कलिङ्गाप्येत्युपस्थिते ॥ ३३८ ॥
4.338 · p. 76
अनुष्टुप्
तिक्तकेशर इत्येव तच्चिन्त्यः कदली पुनः ।स्त्रियां स्यात् करिणां केतौ चर्मयोनौ मृगान्तरे ॥ ३३९ ॥
4.339 · p. 76
अनुष्टुप्
तस्य लक्षणमप्युक्तं मृगज्ञैः पूर्वसूरिभिः ।कदली तु बिले शेते मृदुरूक्षोच्चकर्बुरैः ॥ ३४० ॥
4.340 · p. 76
अनुष्टुप्
नीलाग्रै रोमभिर्युक्ता सा विंशत्यङ्गुलायता ।इत्येव नृस्त्रियोस्नु स्यात् कदलः कदलीति च ॥ ३४१ ॥
4.341 · p. 76
अनुष्टुप्
रम्भायां स्यात् त्रिलिङ्ग्यां तु कन्दली नवपल्लवे ।झाटभेदे कच्छरूढेऽजिनयोनिमृगान्तरे ॥ ३४२ ॥
4.342 · p. 76
अनुष्टुप्
तस्य लक्षणमप्युक्तं मृगज्ञैः पूर्वसूरिभिः ।कन्दली तु श्यामवर्णा हस्तायामा महोदरी ॥ ३४३ ॥
4.343 · p. 76
अनुष्टुप्
इत्येव रभसस्त्वाह त कलापोपरागयोः ।स्त्रियां तु क्षणिका ज्ञेया विद्युति क्षणवत्तु यत् ॥ ३४४ ॥
4.344 · p. 76
अनुष्टुप्
तत्र त्रिः क्षणमात्रावस्थायिवस्तुनि चाथ स ।राजन्ये क्षत्त्रियोः द्वे स्यात् तत्र योनियुते यदा ॥ ३४५ ॥
4.345 · p. 76
अनुष्टुप्
अर्थे वृत्तिस्तदा द्वे स्तः क्षत्त्रिया क्षत्त्रियाण्यपि ।पुंयोगात् तु स्त्रियां वृत्तौ क्षत्त्रियीत्यथ न स्त्रियाम् ॥ ३४६ ॥
4.346 · p. 76
अनुष्टुप्
कषायस्तुवराभिख्यरसे क्वाथरसे तथा ।निर्यासे सौरभे च स्यादनुरागाङ्गरागयोः ॥ ३४७ ॥
4.347 · p. 76
अनुष्टुप्
रागद्रव्ये रक्तवर्णे रक्तपीतद्वयात्मके ।मिश्रवर्णे तथा क्रोधलोभादौ भेद्यवत् पुनः ॥ ३४८ ॥
4.348 · p. 76
अनुष्टुप्
रक्तवर्णयुते रक्तपीतवर्णद्वयान्विते ।सुरभौ तुवराख्येन रसेन च समन्विते ॥ ३४९ ॥
4.349 · p. 76
अनुष्टुप्
कपालोऽस्त्री क्वचित स्त्री च कपालीति शिरोस्थनि ।घटादिशकले केचित् पुनः शकलमात्रके ॥ ३५० ॥
4.350 · p. 77
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कटाहो ना कर्णवति विशाले लोहभाजने ।द्वीपभेदे च महिषे पुनर्द्वे अथ भेद्यवत् ॥ ३५१ ॥
4.351 · p. 77
अनुष्टुप्
करालो दन्तुरे तुङ्गे विशाले विकृतेऽपि च ।कडारवर्णयुक्ते च कराली तु स्त्रियामियम् ॥ ३५२ ॥
4.352 · p. 77
अनुष्टुप्
अग्निजिह्वाविशेषे च दंष्ट्राभेदे च भोगिनः ।पार्वत्यामपि ना तु स्यात् कालमाले गुणे तथा ॥ ३५३ ॥
4.353 · p. 77
अनुष्टुप्
कडार इति विख्याते चर्मकोशे तु नप्यदः ।अविश्वास्योऽत्र रभसो वाक्यमेतदधीतवान् ॥ ३५४ ॥
4.354 · p. 77
अनुष्टुप्
कलहस्तु पुमान् खड्गकोशे भण्डन एव च ।क्लीबं युद्धे च रागे चेत्येव चैतदसाम्प्रतम् ॥ ३५५ ॥
4.355 · p. 77
अनुष्टुप्
कडारं तु जले क्लीबं रूक्षताशूलयोस्तु ना ।तथा कपिलवर्णे च तद्युक्ते त्वभिधेयवत् ॥ ३५६ ॥
4.356 · p. 77
अनुष्टुप्
विषमीभूतदशने निःसारेऽपि द्वयोः पुनः ।आचष्टे रभसो दासे शब्दवेद्यथ नप्यदः ॥ ३५७ ॥
4.357 · p. 77
अनुष्टुप्
कण्डारं रक्तपद्मे स्याद् वर्णभेदे तु पुंस्ययम् ।सितकाचरमिश्रे स्यात् त्रिस्तु तद्वति कः पुनः ॥ ३५८ ॥
4.358 · p. 77
अनुष्टुप्
काचरो वर्णभेदोऽयं कृष्णधूमलमिश्रके ।पुंन्नपुंसकयोस्तु स्यात् सन्नाहे कवचं तथा ॥ ३५९ ॥
4.359 · p. 77
अनुष्टुप्
रभसस्त्वाह पटहे नान्दीवृक्षे च पुंस्यमुम् ।कर्मारस्तु पुमान् वेणावयस्कारे द्वयोरथ ॥ ३६० ॥
4.360 · p. 77
अनुष्टुप्