All kośas › Dharaṇikośa
धरणिकोश Dharaṇikośa
1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)
लान्ताः · लार्धश्लोकः
॥ लार्धश्लोकः ॥
खलं भूस्थानबन्धेषु पामरक्रूरयोः खलः ।मलं पापे च किट्टे च वर्चस्के कृपणे मलाः ॥
27.2.1 · p. 190
अनुष्टुप्
इला गोवाग्धरित्रीषु कलत्रे चन्द्रजस्य च ।जलो जडमतिः ख्यातो जलं ह्रीवेरनीरयोः ॥
27.2.3 · p. 190
अनुष्टुप्
कलिरन्त्ययुगे युद्धे कलिः कलहशूरयोः ।शलं स्याच्छल्लकीलोम्नि [90] ब्रह्मभृङ्गगणाः शलाः ॥
27.2.4 · p. 190
अनुष्टुप्
पीलुर्मतो गजे वृक्षे क्रिमौ काण्डप्रसूनयोः ।कीलः कफोणिकाघाते स्थाणौ च ज्वलनार्चिषि ॥
27.2.5 · p. 190
अनुष्टुप्
नीलः कपीश्वरे शैले कृष्णे नीलं तु पादपे ।कूलं स्थाने प्रदीप्ते च भागे सैन्यस्य पश्चिमे ॥
27.2.6 · p. 191
अनुष्टुप्
मूलमाद्यान्तिकशिफासूक्ता मूला तु तारका ।तूलः पिचुः ब्रह्मदारु तूलं तूली सुखासनम् ॥
27.2.7 · p. 191
अनुष्टुप्
आलुः कन्दप्रभेदः स्यादालुर्गलन्तिका स्मृता ।मौलिः संयतकेशेषु चूडामुकुटयोरपि ॥
27.2.8 · p. 191
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्ग (wrong syllable)
शैलो गिरौ तु शैलं तु शैलेये तार्क्ष्यशैलके ।भेलः स्यादुडुपे भीरौ निर्बुद्धिमुनिभेदयोः ॥
27.2.9 · p. 191
अनुष्टुप्
वल्ली स्याच्छुपे शूर्मौ वल्ली व्रततिरिष्यते ।स्थाल्युखा पाटला चैव स्थालं च स्थलभेदनम् ॥
27.2.10 · p. 191
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 व (syllables merged)
हाला सुरा समुद्दिष्टा हालः स्याच्छालवाहनः ।बालः केशाज्ञडिम्भेषु ह्रीबेरेऽश्वेभपुच्छयोः ॥
27.2.11 · p. 191
अनुष्टुप्
शालः सर्जतरौ मत्स्ये शाला स्कन्धलता कुटी ।व्यालः स्याच्छ्वापदे क्रोधे भुजगे दुष्टदन्तिनि ॥
27.2.12 · p. 192
अनुष्टुप्
सालः सर्जतरौ वापि सर्गप्राकारयोरपि ।जालं गवाक्षयानाये दन्ते वृन्दे च कोरके ॥
27.2.13 · p. 192
अनुष्टुप्
मालं क्षेत्रे जने मालो माला पुष्पादिनिर्मिता ।फालं स्यात्काशिका दीर्णं वस्त्रे बली तथा कुशी ? ॥
27.2.14 · p. 192
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ब (wrong syllable)
मल्लश्च सुभटे पात्रे मल्लि च कुसुमान्तरम् ।पललं तिलचूर्णे च पललं मांसमुच्यते ॥
27.2.15 · p. 192
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 ल्लि (wrong syllable)
पटलं तिलके संघे चाक्षिरोगे छदिष्यपि ।जगलः स्यापिष्टमद्यं मेदको जगलः स्मृतः ॥
27.2.16 · p. 192
अनुष्टुप्
कुशलं सुकृतौ क्षेमे कुशलौ शक्त[91]शिक्षितौ ।धवलः सुन्दरे श्वेते महोक्षे धवला च गौः ॥
27.2.17 · p. 192
अनुष्टुप्
शकलं वल्कले खण्डे शकलं रागवस्तु च ।…गरलं तृणपूलकः ॥
27.2.18 · p. 193
अनुष्टुप्metre not read in every line
कुवलं स्यात्कुवलयं कुवलं बदरीफलम् ।अनलो वायुदेवः स्यादनलः स्याद्विभावसुः ॥
27.2.19 · p. 193
अनुष्टुप्
अनिलो वसुभेदे स्यादनिलो मारुतेऽपि च ।विपुलो महति ख्यातो मेरौ मन्ये ? हिमाचलः ॥
27.2.20 · p. 193
अनुष्टुप्
निचुलस्तु निचोलः स्यान्निचुलो वृक्ष इत्यपि ।कुरलः पक्षिभेदः स्यात्कुरलश्चूर्णकुन्तलः ॥
27.2.21 · p. 193
अनुष्टुप्
वृषलश्चन्द्रगुप्ते स्याद्वृषलः शूद्र इष्यते ।उपलौ रत्नपाषाणावुपला शर्करापि च ॥
27.2.22 · p. 193
अनुष्टुप्
कमला श्रीर्जलं पद्मं कमलं कमलो मृगः ।नकुली शङ्खिनी ज्ञेया नकुलः पाण्डवे पशौ ॥
27.2.23 · p. 193
अनुष्टुप्
कदली मृगजातिः स्याद्रम्भापि वैजयन्तिका ।अचला वसुधायां स्यादचलौ गिरिनिश्चलौ ॥
27.2.24 · p. 194
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable)
कुन्तलः कल्पितः केशे यवे जनपदान्तरे ।शौष्कलश्चामिषाशी स्याच्छुष्कमांसपणायकः ॥
27.2.25 · p. 194
अनुष्टुप्
जङ्गलो निर्जने देशे जङ्गलं पिशितं विदुः ।कम्बलो नागभेदः स्यात्सास्नाप्रावारयोरपि ॥
27.2.26 · p. 194
अनुष्टुप्
पांशुलो हरखट्वाङ्गे पुंश्चले पांशुसंयुते ।मञ्जुलः सुन्दरे प्रोक्तो जलरङ्कपतत्रिणि ॥
27.2.27 · p. 194
अनुष्टुप्
पिञ्जलं कुशपत्रे स्याद्धरितालं च पिञ्जलम् ।फेनिलोऽरिष्टके फेनयुक्ते कोलं तु फेनिलम् ॥
27.2.28 · p. 194
अनुष्टुप्
केवलः कृत्स्न एकश्च केवलं चावधारितम् ।जम्भलो देवताभेदे जम्बीरे जम्भलः स्मृतः ॥
27.2.29 · p. 194
अनुष्टुप्
उत्पलः स्यात्कुव[82]लयं कुष्ठं चैव सुगन्धकम् ।शृङ्खलं पुंस्कटीकाञ्च्यां शृङ्खलं बन्धनं विदुः ॥
27.2.30 · p. 195
अनुष्टुप्
निष्कलं निरज्जनं स्यान्निष्कला विगतार्तवा ।पाकलं कुटमाख्यातं गजरोगश्च पाकलः ॥
27.2.31 · p. 195
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 नि (wrong syllable)
संकुलं कथितं व्याप्ते विस्पष्टार्थे वचस्यपि ।मेखला खड्गबन्धे स्यात्काञ्चिशैलनितम्बयोः ॥
27.2.32 · p. 195
अनुष्टुप्
चञ्चला विद्युदाख्याता चञ्चलौ चलकामुकौ ।इल्वला तारका काचिदिल्वलो दानवान्तरम् ॥
27.2.33 · p. 195
अनुष्टुप्
सप्तला चर्मघासा स्यात्सप्तला नवमालिका ।पिच्छिला शिंशपा मोचा पिच्छिलं विजलं स्मृतम् ॥
27.2.34 · p. 195
अनुष्टुप्
रसाल इक्षौ वृक्षे च रसालीं पालकीं ? विदुः ।अरालः कुटिले प्रोक्तो रसः सर्जस्य च स्मृतः ॥
27.2.35 · p. 196
अनुष्टुप्
करालो दन्तुरे तुङ्गे भीषणे तैलधूणके ।प्रवालो वल्लकीदण्डे विद्रुमे नवपल्लवे ॥
27.2.36 · p. 196
अनुष्टुप्
शृगालो जम्बुके प्रोक्तो निःसत्त्वे दानवान्तरे ।कुलालः कुम्भकारः स्यात्कुलालः कुक्कुभो मतः ॥
27.2.37 · p. 196
अनुष्टुप्
श्रीफलो वृक्षभेदे स्याच्छ्रीफली नीलिका स्मृता ।मातुलः स्यापितृश्याले धूस्तूरे मातुलो मतः ॥
27.2.38 · p. 196
अनुष्टुप्
विशालं बृहदाख्यातं विशालोज्जयिनी पुरी ।कपालं मस्तकाद्यस्थि घटादिशकलोदरे ॥
27.2.39 · p. 196
अनुष्टुप्
पातालं नागलोके स्यात्पातालं वाडवानले ।शार्दूलो द्वीपिनि श्रेष्ठे पशुपक्षविशेषयोः ॥
27.2.40 · p. 196
अनुष्टुप्
वातुलो वातसंघाते वातुलो मारुतासहे ।कुकूलः स्यात्तुषाग्नौ च शङ्कुकीर्णे बि[93]ले तथा ॥
27.2.41 · p. 196
अनुष्टुप्
दुकूलं कथितं क्षौमे दूकूलं शुक्लवाससि ।पटोलावौषधीवस्त्रभेदौ ज्योत्स्नी पटोल्यपि ॥
27.2.42 · p. 197
अनुष्टुप्
उत्फुल्लं करणे स्त्रीणामुत्ताले च विकस्वरे ।पञ्चाली पुत्रिकागीत्योः पञ्चालो जनदेशयोः ॥
27.2.43 · p. 197
अनुष्टुप्
यवफलः स्मृतो वेणौ कुटजेऽपि प्रयुज्यते ।मदकलस्तु मत्तेभे मदेनाव्यक्तवागपि ॥
27.2.44 · p. 197
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 फ (wrong syllable); pāda 3, syllable 3 क (wrong syllable)
परिमलो विमर्दे स्यात्सौगन्धे च मनोहरे ।हस्तिमल्लौ विजानीयादैरावतविनायकौ ॥
27.2.45 · p. 197
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 म (wrong syllable)
महाकालश्च कथितः किंपाके प्रमथे शिवे ।लोकालोके चक्रवालश्चक्रवालं तु मण्डलम् ॥
27.2.46 · p. 197
अनुष्टुप्
उदूखलः कण्डन्यर्थे उदूखलं तु गुग्गुलौ ।महानीलो भृङ्गराजे मणिनागविशेषयोः ॥
27.2.47 · p. 197
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ख (wrong syllable)
गण्डशैलो ललाटे स्यात्प्रस्तरे च गिरिच्युते ।खतमालः स्मृतो धूमे खतमालो बलाहकः ॥
27.2.48 · p. 198
अनुष्टुप्
हलाहलो विषे प्रोक्तो हयलालाह्वयेऽप्यसौ ।… अक्षमालाप्यरुन्धती ॥
27.2.49 · p. 198
अनुष्टुप्metre not read in every line
मणिमाला तु हारेषु दन्तक्षतान्तरेष्वपि ।कृताञ्जलिरौषधौ स्याद्विहिता येन चाञ्जलिः ॥
27.2.50 · p. 198
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 क्ष (wrong syllable); pāda 3, syllable 4 लि (wrong syllable)