कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śivakoṣa

शिवकोष Śivakoṣa

587 verses · 4,629 words tagged · 786 marked doubtful (dashed)

मान्ताः · मत्रिः

उत्तमं सिन्धुजे स्त्री तु दुग्धिकायां फलत्रिके ।गोलोमे तु श्वेतदूर्वाभूतकेशीवचासु च ॥ ३३५ ॥
20.2.335 · p. 31
अनुष्टुप्
गोधूमः स्यान्नागरङ्गशूकधान्यप्रभेदयोः ।दाडिमस्तु त्रिलिङ्गं स्यादेलायां करकेऽपि च ॥ ३३६ ॥
20.2.336 · p. 31
अनुष्टुप्
विद्रुमो रत्नवृक्षेऽपि प्रवाले नवपल्लवे ।कलिद्रुमो दुरारोहे श्रीवासे च विभीतके ॥ ३३७ ॥
20.2.337 · p. 31
अनुष्टुप्
तृणद्रुमस्तु हिन्ताले लाङ्गल्यां क्रमुके तले ।खर्जूर्यां तालिकायां च खर्जूरे क्रकचच्छदे ॥ ३३८ ॥
20.2.338 · p. 31
अनुष्टुप्
महाश्यामा तु विज्ञेया शिंशिपावृद्धदारयोः ।
20.2.5 · p. 31