कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

निह्राद

nihrādaपुं · masc.

In 3 kośas: 3 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1400 · p. 53
शब्दो निनादो निर्घोषः स्वानो ध्वानः स्वरो ध्वनिः ।निह्रादो निनदो ह्रादो निस्वानो निस्वनः स्वनः ॥ १३९९ ॥रवो नादः स्वनिर्घोषः संव्याङ्भ्यो राव आरवः ।क्वणनं निक्वणः क्वाणो निक्वाणश्च क्वणो रणः ॥ १४०० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ब्रह्मप्रकाण्डः Kalpadrukośa 3.2.101 · p. 450
युगपद्यत्र वाद्यन्ते कोणाघातः स उच्यते ।शब्दो निनादो निर्घोषो निह्रादो निःस्वनः स्वनः ॥ १०१ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.57 · p. 71
ह्रादः स्वरो निःस्वनवत्कृतः स्यान्निह्रादि-मायू अपि रुत्पुनः स्त्री ।सीत्कार एष प्रमदाजनस्यदन्तक्षताद्यैरुदितः प्रदिष्टः ॥ ५७ ॥
इन्द्रवज्रा
genderपुंmasc.