कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

शब्द

śabdaपुं · masc.

In 19 kośas: 31 synonym verses, 17 as a nānārtha head word, 59 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1400 · p. 53
शब्दो निनादो निर्घोषः स्वानो ध्वानः स्वरो ध्वनिः ।निह्रादो निनदो ह्रादो निस्वानो निस्वनः स्वनः ॥ १३९९ ॥रवो नादः स्वनिर्घोषः संव्याङ्भ्यो राव आरवः ।क्वणनं निक्वणः क्वाणो निक्वाणश्च क्वणो रणः ॥ १४०० ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह धीवर्गः Amarakośa 1.5.12
रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी ॥ ७ ॥गोचरा इन्द्रियार्थाश्च हृषीकं विषयीन्द्रियम् ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह शब्दादिवर्गः Amarakośa 1.6.3
अपभ्रंशोऽपशब्दः स्याच्छास्त्रे शब्दस्तु वाचकः ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.138 · p. 17
ह्रादो नादः शब्दः स्वानो ध्वानः स्वरो रवो घोषः ।अभिधानव्याहारोदीरणकथनादयस्तु तद्भेदाः ॥ १३८ ॥
गीतिः
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर चतुर्थोपदेशः Bālaprabodhikā 4.59 · p. 71
शब्दो व्योमगुणः स्वानं प्रस्वनस्वननिस्वनाः ।निर्ह्रादो रवणो नादः क्ष्वेडो ध्वानो ध्वनी रवः ।कर्णिह्रासो रसे भ्रूणा कन्धः कण्ठश्च घोषणः ॥ ५९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.156 · p. 434
शब्दस्पर्शरूपरसगन्धा भूतगणाः क्रमात् ।विषयाः स्युरमी ह्येषामिन्द्रियार्थश्च गोचरः ॥ १५६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र्श (wrong syllable)
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ब्रह्मप्रकाण्डः Kalpadrukośa 3.2.42 · p. 443
म्लेच्छो ना म्लेच्छितं क्लीबे शास्त्रे शब्दस्तु वाचकः ।वाय्वग्निभूजलाकाशा ह्रस्वा दीर्घाश्च संधिजाः ॥ ४२ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ब्रह्मप्रकाण्डः Kalpadrukośa 3.2.101 · p. 450
युगपद्यत्र वाद्यन्ते कोणाघातः स उच्यते ।शब्दो निनादो निर्घोषो निह्रादो निःस्वनः स्वनः ॥ १०१ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.56 · p. 59
वाचोयुक्तिः स्त्रियां सम्यग्गिरां गुम्फनमीरितम् ।व्याहारो लपितं वचोऽपि वचनं स्यादीरितं भाषितंस्त्री तूक्तिर्गदिताथ साऽऽगम * * सिद्धान्तराद्धान्तकौ ।शब्दस्तु श्रुतिशास्त्रसाधुरितरो म्लेच्छोऽपशब्दो भवेत्सोऽपभ्रंश उदीर्यतेऽयमभिधावृत्त्यार्थसूर्वाचकः ॥ ५६ ॥
अनुष्टुप्two metres in one verse
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.56 · p. 71
शब्दो निनादो निनदो नदोऽपिनादो ध्वनि-ध्वान-रवारवाः स्युः ।आराव-संराव-विराव-घोष-निर्घोष-निःस्वान-रण-स्तनाश्च ॥ ५६ ॥
इन्द्रवज्रा
genderपुंmasc.
ऊर्मिश्च ध्वनिश्च अञ्जलिश्च ऊर्म्मिध्वन्यञ्जलयः । एते शब्दाः पुंसि भवन्ति । अयमूर्म्मिस्तरङ्गः । अयं ध्वनिः शब्दः ।अयमञ्जलिः करपुटः । ओष्ठकपोलगुल्फसञ्ज्ञाश्च । सञ्ज्ञाशब्दः प्रत्येकमभिसम्बध्यते । ओष्ठश्च कपोलश्च गुल्फश्च ओष्ठकपोलगुल्फाः । एतेषां सञ्ज्ञाः पर्यायास्ते पुंसि भवन्ति । अयमोष्ठः अधरः दन्तच्छदः । अयं कपोलः गण्ड इत्येवमादयः । अयं गुल्फः पादग्रन्थिः घुठः घूंठ इत्येवमादयः । घञ्च एरच्च ऋदोरप्च । "पदरुजवेगस्पृशो घञि"त्येवमादिना प्रकरणे घञो विहित इति । "येन विधिस्तदन्तस्ये"ति घञ्प्रत्ययान्ताः शब्दाः पुंसि भवन्ति । तद्यथा । पादः रोगः वेगः स्पर्शः पाकः त्यागः योगः प्रसादः भेदः छेदः दाहः दोषः प्रकारविकार इत्येवमादयः । "एरजि"ति । एरजीवर्णान्तादच्प्रत्ययः स्यात् । अयं जयः नयः । तथा "ऋदोरप्" । ऋवर्णान्तादुवर्णान्ताच्च धातोरप्प्रत्ययः स्यात् । तत्र ऋवर्णान्तात् । अयं करः वरः भरः शरः नरः । इत्येवमादयः । उवर्णान्तात् । अयं प्लवः पवः भवः इत्येवमादयः । घञन्तादन्धकारशब्दस्यापि नित्यं पुंस्त्वं स्यादित्याह । बहुलमन्धकारश्च । अन्धकारो बहुलं पुंलिङ्गे भवति । विभाषा भवतीत्यर्थः । इदं अन्धकारम् । अयं अन्धकारः । तथा चोक्तम् । "नेहागमोऽस्ति शलभस्य न मारुतस्य स्नेहक्षयोऽपि न भवेत्प्रथमे प्रदोषे । अव्यक्तवस्तुपुरुषप्रतिबोधितेन पारावतेन पतता कृतमन्धकारम् ।"प्राण्यङ्गमिदन्तं वस्तिकुक्षिपाणीन्विमुच्य सर्वं स्त्री ।जङ्घा शिरा स्नुषा नासिका चूडा वसा चैव ॥ १७ ॥
वसन्ततिलकाmetre not read in every line
genderपुंmasc.
एते शब्दाः नपुंसके भवन्ति । इदं भयं त्रासः । बीजमङ्कुरोत्पत्तिकारणम् । सिध्मं कुष्ठविशेषः । पदं स्थानम् । बर्हं मयूरपिच्छम् । शुक्रं रेतः । तक्रं[क्र] मथितम् । सुखं भोगः । दुःखं पीडा । शिखरं शृङ्गम् । असृक् रक्तम् । सदैवेति वचनाद्भयादीनां व्यभिचारः । अयं भयः ।पाषाणोपलशृङ्गारप्रस्थभृङ्गारमस्तकस्तबकाः ।रूपं मुक्त्वा शब्दरसस्पर्शगन्धादयश्चोक्ताः सदा पुंसि ॥ ५४ ॥
metre not recognisednearly अनुष्टुप्
genderपुंmasc.
एते शब्दाः सदा पुंसि भवन्ति । यथा पाषाणः प्रस्तरः । उपलः शिला पाषाण एव । शृङ्गारो विदग्धता । प्रस्थः परिमाणम् । भृङ्गारः सुवर्णमयः कलशः । मस्तकः शिरः । स्तबकः पुष्पोत्करः । शब्दो ध्वनिः । रसो माधुर्यादिः । स्पर्शो मृदुकर्कशादिः । गन्धो नासिकाग्राह्यः कुसुमादेः । रूपं मुक्त्वा रूपं विहाय ।रूपं नपुंसके भवति । इदं रूपं चक्षुर्ग्राह्यम् ।शेखरयूपपुरोडाशकूपसूपलवशष्पाः ।धर्ममयवासोदशादाराः पुंसि बहुत्वं चैषाम् ॥ ५५ ॥
metre not recognised
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.276 · p. 86
रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी ।गोचरा इन्द्रियार्थाश्च विशिष्यैवं विभाव्यताम् ॥ २७६ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.292 · p. 88
कल्माषशबलौ चित्रकिर्मीरौ चित्रलश्च सः ।[49] ध्वनिः स्वानो रवो नादः शब्दो निर्घोषनिःस्वनौ ॥ २९२ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.25 · p. 2
अर्णःशब्दोऽक्षरं वर्णः श्लोकः पद्यं सुभाषितम् ।मसीधेनुर्मषीपात्रं लेखनी वर्णतूलिका ॥ २५ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त शब्दमरीचिः Pañcatattvaprakāśa 6.2.355 · p. 25
शब्दो निनादो निनदो ध्वनिः ध्वानः स्वनो रवः ॥ ३५५ ॥
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति पण्डितवर्गः Śāradīyākhyanāmamālā 2.4.140 · p. 33
शब्दो नादो ध्वनिर्ध्वानं निर्घोषो निस्वनः स्वनः ।निर्ह्राद आरवो रावो निनादो निनदोऽपि च ॥ १४० ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.46 · p. 408
स्पर्शो रसश्च गन्धश्च रूपं शब्दश्च पञ्चमः ।
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2540 · p. 411
शब्दः स्वरो ध्वनिर्नादो निनादो निनदो रणः ।निःस्वानो निःस्वनः स्वानः निस्वानो निस्वनो स्वनः ॥ २५४० ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.329 · p. 23
अविद्याऽहंमतिः स्त्री स्यादज्ञाने परिकीर्तिता ।रूपः शब्दस्तथा गन्धो रसः स्पर्शस्तु पञ्च वै ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.350 · p. 25
अपभ्रंशोऽपशब्दस्तु शास्त्रे यः स्यादसंस्कृतः ।संस्कृतः साधुशब्दश्चेत् शास्त्रे शब्द इतीरितः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.399 · p. 28
अमूनि त्रिषु सत्यानि अव्ययन्तु यथातथम् ।शब्दो निर्घोषनिर्ह्रादनिस्वानस्वाननिस्वनाः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि षष्ठः काण्डः Śabdaratnākara 6.19 · p. 251
धूम्रोऽथ कर्बुरश्चित्रः चित्रलोऽपि कल्माषवत् ।कल्मासश्च, भवेत् शब्दो निस्वानो निःस्वनः स्वनः ॥ १९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 क (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शब्दाध्यायः Śabdaratnākara 1.7.223 · p. 30
शब्दध्वाननिनादनादनिनदस्वानस्वना निस्वन-ह्रादारावविरावघोषरसंरावारवाश्च ध्वनिः ।निःस्वानोऽपि रणोऽपि च प्रतिनिनादे स्यात्प्रतिश्रुत् स्त्रियांसंभोगे मणितं ध्वनिर्वसनपर्णानां स्वनो मर्मरः ॥ २२३ ॥
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चित्ताध्यायः Śabdaratnākara 1.9.287 · p. 39
शब्दस्पर्शरसा रूपं गन्धश्च विषया अमी ।इन्द्रियार्था इन्द्रियं तु स्यादक्षं करणं च तत् ॥ २८७ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तिभेदाध्यायः Śabdaratnākara 2.7.907 · p. 114
शास्त्रे शब्दो वाचको वाचिकं स्यात्संदेशार्थः सुप्तिङन्तं पदं स्यात् ।आशीः स्त्री वाङ्मङ्गलार्थानुरागा-ज्जातः शब्दः स्यात् प्रणादः परौ तु ॥ ९०७ ॥
शालिनी
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात भूतडामरतन्त्रोक्तबीजाभिधान Tantrābhidhāna 10.11 · p. 62
शब्दश्च दीर्घकवचं ताराप्रणव इत्यपि ॥हूं॥
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव धीवर्गः Trikāṇḍaśeṣa 1.5.1 · p. 20
शब्दाभिलापौ त्वभिधाऽभिधानं वाचको ध्वनिः ।ह्रासः कुहरितश्चाऽथ मन्मनो गद्गदध्वनौ ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश शब्दाध्यायः Vaijayantī 2.4.1 · p. 31
शब्दो व्योमगुणस्वानस्वननिस्वाननिस्वनाः ।निर्ह्रादो रवणो नादः क्ष्वेडो ध्वानो ध्वनिः कवः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश गुणाध्यायः Vaijayantī 5.3.2 · p. 196
खादीनां तु गुणाः शब्दः स्पर्शो रूपं रसः क्रमात् ।गंधश्चेतीन्द्रियार्थास्ते विषया गोचराश्च ते ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.82 · p. 64
क्रीडतिस्तु समः शब्दे क्रीडावास्योः(?) स आङ्परः ।कर्मप्रवचनीयान्यानुतः संपरितस्तथा ॥ ८२ ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.56 · p. 81
मुरति स्याद्यमयते यमयत्यपि वेष्टने ।स्तायतिः स्त्यायतिश्चोभौ समः शब्दसमूहयोः ॥समूहने संनिवेशे विसरे च प्रकीर्तितौ ।पिण्डति स्यात्पिण्डयति पिण्डते हुण्डतेऽश्नुते ॥ ५६ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 त्पि (wrong syllable)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.18 · p. 87
ध्वनति रणति रौति क्षौति कौत्यम्भते स्या-दणति वणति मञ्जत्यम्बते रम्बते च ।मणति कणति पिञ्जत्यञ्जति क्नूयते चस्तनति वनति लञ्जत्यं[ह]यत्यंहति स्यात् ॥ १८ ॥
मालिनी
doubtful
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.19 · p. 87
गजति गर्जति गञ्जति गृञ्जतिक्वणति कायति गायति नासते ।स्वरति मोजति मुञ्जति रासतेरसति तोसति रङ्घति लङ्घति ॥ १९ ॥
द्रुतविलम्बितम्
doubtful
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.20 · p. 87
द्रेकते ध्रेकते रम्भते रेभतेलम्भते लम्बते रेभति स्त्यायति ।रंहयत्यत्र रंहत्यपि [त्रंसति]त्रंसयत्यत्र [ता]दृग्भवेद्भञ्जतिः ॥ २० ॥
स्रग्विणी
doubtful
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.21 · p. 88
कवते खवते गवते घवतेङवते कुरति द्रुणति व्रणति ।धणति ध्रणति भ्रणति स्यमतिह्लसति ह्रसति ध्वनयत्यपि च ॥ २१ ॥
तोटकम्
doubtful
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.23 · p. 88
पेटति वेटत्यमतिक्नूनाति स्याद्गृणाति गायति ।मार्जयति च मर्चयति चपाटयति स्याच्च पोटयति ॥ २३ ॥
metre not recognised
doubtful
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.33 · p. 88
तुञ्जति तुञ्जयति स्या-न्मिञ्जयति तद्वच्च लोटयति ।मिञ्जति लुञ्जति लंषतिलुञ्जयति स्याच्च लञ्जयति ॥ ३३ ॥
metre not recognised
doubtful
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.24 · p. 88
ह्वयति मिमीते रसति चम[218a]शति मिशत्यत्र भञ्जयति ।पिंसति लंषयति स्या-त्पिंसयति स्याच्च कुंसयति ॥ २४ ॥
metre not recognised
doubtful
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.25 · p. 88
कुंसति दंशयति स्या-द्दंशति दंसत्यपीह दंसयति ।कुंशति कुंशयति स्या-द्घाटयति स्याद्रवीति घण्टयति ॥ २५ ॥
metre not recognised
doubtful
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.26 · p. 88
बृंहति बृंहयति चबल्हयति वणति च चीवयति ।गोपयति च पोथयति[विच्छयते स्या]त्तथात्र विच्छयति ॥ २६ ॥
metre not recognised
doubtful
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.27 · p. 89
लोचयति कोपयति चलोकयति स्यात्तथेह तर्कयति ।वर्तयति वर्धयति चरोटयति स्याच्च घोटयति ॥ २७ ॥
metre not recognised
doubtful
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.28 · p. 89
नाटयति शीकयति चभृंशयति स्याच्च भृंशति स्तनति ।जोव(?)यति रङ्घयति च स्या-ल्लङ्घयति तथात्र मंहयति ॥ २८ ॥
metre not recognised
doubtful
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.29 · p. 89
मंहति लण्डयति स्या-त्ताडयति स्याच्च नालयति ।गुजति च कुणति च कलतेस्वनति त्रंसत्यमी शब्दे ॥ २९ ॥
metre not recognised
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुल्लिँङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.2.116 · p. 30
वेषः क्रियायामाकल्पे वेणुर्वंशद्रुमे नृपे ।शब्दोऽक्षरे यशोगीत्योर्वाक्ये खे श्रवणे ध्वनौ ॥ ११६ ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2015 · p. 245
शब्दः कीर्तौ ध्वनौ वाक्ये श्रवणेऽक्षरगीतयोः ।स्यादध्वदेयजामातृदेययोः शुल्कमस्त्रियाम् ॥ २०१५ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 6.1.59 · p. 218
शब्दोऽक्षरे यशोगीत्योर्वाक्ये खे श्रवणे ध्वनौ ।शंकुः पत्रसिराजाले कीलेऽस्त्रे मेढ्रसंख्ययोः ॥ ५९ ॥
अनुष्टुप्

शब्द as a meaning in nānārtha verses

  • नामलिङ्गानुशासनम् प्रत्ययप्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु । रन्ध्रे शब्देऽथानुशयो दीर्घद्वेषानुतापयोः ॥ १४८ ॥ Amarakośa 3.3.148
  • नामलिङ्गानुशासनम् तुमुलतुमुलं व्याकुले शब्दे शष्कुली कर्णपाल्यपि ॥ Amarakośa 3.3.392
  • धरणिकोश क्ष्वेडक्ष्वेडः कर्णामये शब्दे विषघोषकयोरपि । योधानां सिंहनादोऽपि क्ष्वेडा वाद्यं च वैणवम् ॥ Dharaṇikośa 12.2.9
  • धरणिकोश प्रह्लादजलदौ मुस्तकाम्भोदौ दारदौ विषहिङ्गुलौ । नलदमुशीरमांस्योः प्रह्लादो दैत्यशब्दयोः ॥ Dharaṇikośa 17.1.5
  • धरणिकोश पदपदं स्थानेऽपदेशे च लक्षे स्याद्वाक्यशब्दयोः । व्यवसाये परित्राणे पादतच्चिह्नवस्तुषु ॥ Dharaṇikośa 17.3.1
  • धरणिकोश रसनवृजिनं किल्बिषे भुग्ने वृजिनश्च शिरोरुहः । रसनं स्वदने शब्दे रसना काञ्चिजिह्वयोः ॥ Dharaṇikośa 19.2.24
  • धरणिकोश रूपरूपमाका … । ग्रन्थावृत्तौ पशौ शब्दे नाटकादिस्वभावयोः ॥ Dharaṇikośa 20.3.1
  • धरणिकोश प्रभुभूः पृथिव्यां स्थानमात्रे निभो व्याजसदृक्षयोः । प्रभुर्नित्ये प्रभुः शब्दे स्वभूर्गोविन्दवेधसोः ॥ Dharaṇikośa 23.1.1
  • कोषकल्पतरु उप-ध्माहृदयप्रीतिनिदानेच्छार्थे स्याद्रोचते तद्वत् । आशंसते तथाशास्ते नाथते च शुभैषणे ॥ इच्छति स्यात्प्रतिज्ञाने प्राकाम्ये मार्गणे परेः । स्यादात्मनेपदे गर्धयतिर्वञ्चयतिस्तथा ॥ प्रतारणेऽर्थेऽन्यत्रोभौ परस्मैप[184a]दिनौ मतौ । चतति चदत्यर्थयते नाथति वनुते च नाधतेऽर्दति च । याचति च याचते स्याद्विथते स्याद्वेथते तद्वत् । स्याद्भिक्षते च याच्ञावाचिन एते च धातवो गदिताः । जिघ्रति शिङ्घति गन्धग्रहणे धमति स्मृतं धमने । आङः स्यादुदरापूरे ध्मातिः शब्देऽप्युपात्परः । प्रादर्थिः प्रार्थनाघातप्रेरणास्वरिसंरुधि ॥ व्रतचारे प्रतेर्विघ्नेऽर्थवैरूप्ये च वै द्विष्ये । समो वनोतिरालो* तथा प्रोक्तो वशीकृतौ ॥ Koṣakalpataru 3.5.25
  • कोषकल्पतरु पूर्णपर्णः पुंसि तरौ दले तु गमने पाने सहाये तथा सौपर्णेयपतत्रके च चरमे जर्णो जरच्चन्द्रयोः । जीर्णः स्यात्तरुशीर्णयोरितरवत्पूर्णस्तु शब्दे पुमां- स्त्रय्यां पूरितकृत्स्नयोरथ भवेज्जीर्णं सुपक्वेऽपि च ॥ ९ ॥ Koṣakalpataru 6.15.9
  • कोषकल्पतरु पदशुक्रेभदानैणमदेषु मद्ये मनोविकारेऽपि पुमान्मदः स्यात् । स्त्री क्षेत्रिवस्तुन्यथ शब्दवाक्य- व्याजोद्यमत्राणपदार्थपत्सुः ॥ १९ ॥ Koṣakalpataru 6.19.19
  • कोषकल्पतरु डिम्बबिम्बं फले स्यादपि बिम्बिकायाः । स्यान्मण्डले ऽस्त्री प्रतिबिम्बके स्या- ड्डिम्बोऽस्त्रियां विप्लवभीतिशब्दे । पञ्चाङ्गुलप्लीहसु फुप्फुसेऽथ स्तम्बोऽप्रकाण्डे द्रुतृणादिगुल्मे ॥ २७ ॥ Koṣakalpataru 6.24.27
  • कोषकल्पतरु ररः पावके रागसमीरयोः स्या- च्छब्देऽथ तीक्ष्णे परवत्प्रदिष्टः । रास्तु द्वयोः स्याद्धनहेममेघे- रुः स्याद्भये रक्षणवाचकश्च ॥ ९४ ॥ Koṣakalpataru 6.27.94
  • कोषकल्पतरु स्वरमनागभीष्टेऽथ सरोऽपि बाणे मुक्तादियष्टौ च तथाग्रभागे । दध्नोऽन्यवद्विह्वरणे [द्व]येऽथ स्वरोऽक्षु चोदात्तमुखेषु शब्दे ॥ २ ॥ Koṣakalpataru 6.27.2
  • नानार्थार्णवसंक्षेप वाच्वाग्वाण्यां गौणवृत्त्या तु शब्दे वक्त्रे च केचन । श्रीरिन्दिरायां शोभायां स्यात् संपत्तिलवङ्गयोः ॥ ६० ॥ Nānārthārṇavasaṃkṣepa 1.1.60
  • नानार्थार्णवसंक्षेप कइडीट् च त्रिषु नाथे स्त्री मेदिन्यां कस्तु ना नगे । अर्कानिलविरिञ्चात्मशब्दबुद्धिमनः स्वपिः ॥ १ ॥ Nānārthārṇavasaṃkṣepa 1.5.1
  • नानार्थार्णवसंक्षेप सत्शब्देऽपि कश्चित् सच्छब्दस्तस्य लिङ्गं विचार्यताम् । सज्जनस्त्वेनमाम्नासीन्नक्षत्रे तन्नपुंसकम् ॥ २२ ॥ Nānārthārṇavasaṃkṣepa 1.5.22
  • नानार्थार्णवसंक्षेप श्रुतिश्रुतिस्तु वेदे श्रवणक्रियायां श्रोत्र एव च । गीतिधर्मविशेषे च शब्दे चाप्यभिधायके ॥ १०९ ॥ Nānārthārṇavasaṃkṣepa 2.1.109
  • नानार्थार्णवसंक्षेप कण्ठमुहूर्ते षष्ठभागे च नाड्याः कालेऽतिसूक्ष्मके । निर्व्यापारस्थितौ चाथ कण्ठः शब्देऽन्तिके गले ॥ २० ॥ Nānārthārṇavasaṃkṣepa 2.2.20
  • नानार्थार्णवसंक्षेप काणकाणस्त्रिपु स्यादेकाक्षे मूषायां तु स्त्रियामियम् । काणा पुंसि तु शब्दे च गमने च निमीलने ॥ १९७ ॥ Nānārthārṇavasaṃkṣepa 2.5.197
  • नानार्थार्णवसंक्षेप कोणशनैश्चरेऽश्रौ लगुडे शब्दे कोणा तु नृस्त्रियोः । वाद्यवादनदण्डे द्वे महिषे क्षोमवाक् पुनः ॥ २९२ ॥ Nānārthārṇavasaṃkṣepa 2.5.292
  • नानार्थार्णवसंक्षेप गानगलने मदनाभिख्यपादपे तत्फले तु नप् । बडिशेऽप्यथ गानं क्ली गीतौ शब्देऽप्यथ स्त्रियाम् ॥ ३४५ ॥ Nānārthārṇavasaṃkṣepa 2.5.345
  • नानार्थार्णवसंक्षेप घोषमर्त्यजात्यन्तरे वैश्यघर्घरीजे द्वयोरथ । घोष आभीरपल्लौ ना शब्दे वाचि स्वरे परे ॥ ३९२ ॥ Nānārthārṇavasaṃkṣepa 2.5.392
  • नानार्थार्णवसंक्षेप नदनदो नामरदत्तेन शब्दे ख्यातः सरः स्वति । स्तोतर्यपि नदी तु स्त्री निम्नगायां नतं पुनः ॥ ६५९ ॥ Nānārthārṇavasaṃkṣepa 2.5.659
  • नानार्थार्णवसंक्षेप रसरेतस्यास्वादने हेम्नि निर्यासेऽमृतशब्दयोः । देहधातुविशेषे च शृङ्गारादौ फले जले ॥ १०७८ ॥ Nānārthārṇavasaṃkṣepa 2.5.1078
  • नानार्थार्णवसंक्षेप रणना तु शब्दे परे त्वाहुरतिशब्देऽपरे पुनः । नृशण्डमविशेषेण रण्डा तु विधवस्त्रियाम् ॥ १०८७ ॥ Nānārthārṇavasaṃkṣepa 2.5.1087
  • नानार्थार्णवसंक्षेप रामरामो दाशरथौ विष्णौ रतौ परशुरामके । बलभद्रे ध्वजे शब्दे मौलौ लक्ष्मणि वर्णयोः ॥ १०९७ ॥ Nānārthārṇavasaṃkṣepa 2.5.1097
  • नानार्थार्णवसंक्षेप रूपभूमौ तु रुह्वरी स्त्री स्यादथ रूपं नपुंसकम् । स्वभावाकृतिसौन्दर्यवपुष्पु श्लोकशब्दयोः ॥ १११६ ॥ Nānārthārṇavasaṃkṣepa 2.5.1116
  • नानार्थार्णवसंक्षेप लक्ष्यलक्ष्यं शरव्ये क्ली शब्दे सिद्धे लक्षणतस्तथा । द्रष्टव्ये त्वङ्कनीये च त्रिषु लग्नस्तु न स्त्रियाम् ॥ ११३० ॥ Nānārthārṇavasaṃkṣepa 2.5.1130
  • नानार्थार्णवसंक्षेप वाश्रवाश्रस्तु पुरुषे शब्दे सङ्घाते च पुमानथ । वाश्रा धेनौ स्त्रियां वातः पुनर्वायौ नरि त्रि तु ॥ १२२७ ॥ Nānārthārṇavasaṃkṣepa 2.5.1227
  • नानार्थार्णवसंक्षेप वाणवातेर्धातोः क्रियायां च कटे त्वप्यजयोऽब्रवीत् । वाणस्तु पुंसि वीणायां शब्दे चाथ नपुंसकम् ॥ १२२९ ॥ Nānārthārṇavasaṃkṣepa 2.5.1229
  • नानार्थार्णवसंक्षेप वेटवेटी स्त्री नावि वेटस्तु ना शब्दे वेष्टवाक् तु ना । श्रीवेष्टसंज्ञे निर्यासे वेष्टने तु नरस्त्रियोः ॥ १२९६ ॥ Nānārthārṇavasaṃkṣepa 2.5.1296
  • नानार्थार्णवसंक्षेप काकलीकाकली तु कले सूक्ष्मे शब्दे स्त्री काकलं पुनः । ग्रीवाया उन्नते देशे क्ली कण्ठमणिसंज्ञके ॥ ४५५ ॥ Nānārthārṇavasaṃkṣepa 4.455
  • परमानन्दीयनाममाला टटो भूमिवायुशब्देषु शरीरास्थनि टं पुनः । गवि ठः सुस्तने रुद्रे चन्द्रमण्डलशून्ययोः ॥ २० ॥ Paramānandīyanāmamālā 1.20
  • परमानन्दीयनाममाला डडः शब्दभर्गयोर्ध्याने ढो ढक्काध्वविशेषयोः । णस्तु निःश्रेयसे स्पष्टे निष्कलेऽपि समर्थितः ॥ २१ ॥ Paramānandīyanāmamālā 1.21
  • परमानन्दीयनाममाला ररः कामवह्निशब्देषु तीव्रे रामे नरे पवौ । राः स्वर्णधनयोर्मेघे स्थानके रुर्भये ध्वनौ ॥ ३६ ॥ Paramānandīyanāmamālā 1.36
  • परमानन्दीयनाममाला प्लवभेकचण्डालयोः प्लक्षे वारिवायसशब्दयोः । पुष्पं याने कुबेरस्य कुसुमे स्त्रीरजस्यपि ॥ २८६ ॥ Paramānandīyanāmamālā 5.19.286
  • शब्दरत्नावली मुखभवेत् प्रेङ्खा हयगतौ समनाटहयोरपि (?) । मुखमाद्यप्रधानास्यशब्दनाटकसन्धिषु ॥ Śabdaratnāvalī 7.2.3
  • शब्दरत्नावली क्रुष्टकटुकार्ये सुगन्धौ च मत्सरे च खरे त्रिषु । कष्टं कृच्छ्रे च गहने क्रुष्टं रुदितशब्दयोः ॥ Śabdaratnāvalī 7.11.5
  • शब्दरत्नावली ताडजडो मूकहिमग्रस्तमूर्खेषु शिखिषु स्त्रियाम् । ताडी पत्रद्रुमे ना तु ताडने मुष्टिशब्दयोः ॥ Śabdaratnāvalī 7.13.15
  • शब्दरत्नावली पूर्णवोले ना पूरिते वाच्यलिङ्गः पुंभूम्नि चामुषु । पूर्णः समग्रे शब्दे ना प्यायिते चाभिधेयवत् ॥ Śabdaratnāvalī 7.15.10
  • शब्दरत्नावली कीर्तिकान्तिः शोभेच्छयोः स्त्री तु क्रतुर्यज्ञे मुनौ पुमान् । कान्ता प्रियङ्गौ नार्यां स्त्री प्रिये ना शोभने त्रिषु ॥ लोहं च चन्द्रसूर्ययोः पर्यायान्तशिलासु ना । क्षितिः क्षये निवासे च पृथिवी कालभेदयोः ॥ कीर्तिः प्रसादे यशसि शब्दे दीप्तौ च योषिति । कुन्तो गर्वधुकायां स्यात्पुमान् प्रासायुधेऽपि च ॥ Śabdaratnāvalī 7.16.8
  • शब्दरत्नावली पदनिन्दा स्थियान्तु कुत्सायामपवादे च दुष्कृतौ । पदं वाक्ये व्यवसाये शब्दप्रदेशयोरपि ॥ पादे च पादचिह्णो च स्थाने त्राणे च वस्तुनि । अङ्के च श्लोकपादे च क्लीबं स्यात्किरणे पुमान् ॥ Śabdaratnāvalī 7.18.3
  • शब्दरत्नावली रसनमार्जनो लोध्रवृक्षे स्यात्क्लीबं मार्ष्टौ तु मार्जनम् । मानिनी तु स्त्रियां फल्यां मानी मानवति त्रिषु ॥ मैथुनं सङ्गते क्लीबं सुरते च नपुंसकम् । यमनो ना यमे क्लीबं बन्धे चोपरतावपि ॥ यवनो जातिभिद्देशभिदोर्वेगाश्वयोरपि । यवन्योषधिभेदे स्त्री वेगिनि त्वभिधेयवत् ॥ यापनं स्यान्निरसने कालक्षेपे च वर्त्तने । युवा श्रेष्ठे च तरुणे निसर्गबलसंयुते ॥ योजनं स्याच्चतुष्क्रोश्यां योगमाने परात्मनि । रसनं स्वादने शब्दे स्याद्रास्नाजिह्वयोः स्त्रियाम् ॥ Śabdaratnāvalī 7.20.68
  • शब्दरत्नावली रुरः कामवह्नौ च रुः शब्दे रा धने पुमान् । री गतौ स्त्री च रा दाने काञ्चनेऽपि च कुत्रचित् । श्रीः शोभा भारती वेशरचना भूतिवृद्धिषु । विधात्रिवर्गसम्पत्तिलक्ष्मीषु सरलद्रुमे ॥ Śabdaratnāvalī 7.27.1
  • शब्दरत्नाकर कण्ठकण्ठः शब्दे गले कुम्भो घटद्विपशिरोंऽशयोः । कूटोऽस्त्री पुञ्जमायाद्रिशृङ्गायोघनवेश्मसु ॥ १८८८ ॥ Śabdaratnākara 4.1.1888
  • शब्दरत्नाकर गुणगुणो मौर्व्यामप्रधाने नाम्नि सत्त्वादिशौर्ययोः । शब्दार्थवृत्तिमाल्येषु तन्तुरश्मीन्द्रियेषु च ॥ १९०७ ॥ Śabdaratnākara 4.1.1907
  • शब्दरत्नाकर रसरसो रागे विषे वीर्ये शृङ्गारादौ पराक्रमे । तक्तादौ पारदे शब्दे रेतस्यास्वादनेऽमृते ॥ १९८५ ॥ Śabdaratnākara 4.1.1985
  • शब्दरत्नाकर रसनआस्वादने च शब्दे च रवणः शब्दनोष्ट्रयोः । राजीवं पङ्कजे ना तु मीनभेदे मृगान्तरे ॥ २१५४ ॥ Śabdaratnākara 4.1.2154
  • तन्त्राभिधान रु----------------------------------- याने यातरि यस्त्यागे कथितः शब्दवेदिभिः । रः स्यात् कामेऽनिले वह्नौ शब्दे रुः परिकीर्त्तितः ॥ २९ ॥ Tantrābhidhāna 3.29
  • त्रिकाण्डशेष पददेशे जने जनपदौ निषादौ श्वपचस्वरौ । वाक्ये शब्दे प्रदेशेऽपि पदं पापस्तु न द्वयोः ॥ २०७ ॥ Trikāṇḍaśeṣa 3.3.207
  • त्रिकाण्डशेष रूपग्रन्थावृत्तौ पशौ शब्दे स्वभावे नाटकादिषु । रूपमाकारसौन्दर्यनामकेष्वपि दृश्यते ॥ २७८ ॥ Trikāṇḍaśeṣa 3.3.278
  • त्रिकाण्डशेष घोषपापे च कलुषं घोषः शब्दाभीरनिवासयोः । शुचौ दक्षे च चोक्षः स्यात्तर्षो लिप्सापिपासयोः ॥ ४३८ ॥ Trikāṇḍaśeṣa 3.3.438
  • वैजयन्ती कण्ठकण्ठो गलेऽन्तिके शब्दे कपयोऽर्केभवानराः । गुडभस्मरसाः क्षाराः क्षोदो रजसि पेषणे ॥ १३ ॥ Vaijayantī 6.1.13
  • वैजयन्ती कोणउत्पातेंऽके ध्वजे केतुः क्लेदौषधिशशांकयोः । कोणाः शब्दाश्रिलगुडाः कल्पो न्याये सुरद्रुमे ॥ १६ ॥ Vaijayantī 6.1.16
  • वैजयन्ती रसरसो रागे विषे वीर्ये तिक्तादौ पारदे द्रवे । रेतस्यास्वादने हेम्नि निर्यासेऽमृतशब्दयोः ॥ ४९ ॥ Vaijayantī 6.1.49
  • वैजयन्ती पदपदं स्थाने शरे त्राणे पादांके पादचिह्नयोः । शब्देंऽशुवस्तुवाक्येषु व्यवसायापदेशयोः ॥ १८ ॥ Vaijayantī 6.3.18
  • वैजयन्ती रूपरूपं शब्दे पशौ श्लोके ग्रन्थावृत्तौ मितादिषु । सौन्दर्ये च स्वभावे च शरद्रेण्वार्तवे रजः ॥ २८ ॥ Vaijayantī 6.3.28
  • वैजयन्ती प्रत्ययप्रत्ययस्तु ख्यातिरन्ध्रविश्वासाधीनहेतुषु । विज्ञाने शपथे शब्दे प्रस्तरोऽश्मा मणिः कुशः ॥ ५१ ॥ Vaijayantī 7.1.51