स्वन
svanaपुं · masc.In 14 kośas: 14 synonym verses, 6 as a meaning of another word.
शब्दो निनादो निर्घोषः स्वानो ध्वानः स्वरो ध्वनिः ।निह्रादो निनदो ह्रादो निस्वानो निस्वनः स्वनः ॥ १३९९ ॥रवो नादः स्वनिर्घोषः संव्याङ्भ्यो राव आरवः ।क्वणनं निक्वणः क्वाणो निक्वाणश्च क्वणो रणः ॥ १४०० ॥
अनुष्टुप्
genderपुंmasc.
शब्दे निनादनिनदध्वनिध्वानरवस्वनाः ॥ २२ ॥स्वाननिर्घोषनिर्ह्रादनादनिस्वाननिस्वनाः ।आरवारावसंरावविरावा अथ मर्मरः ॥ २३ ॥स्वनिते वस्त्रपर्णानां भूषणानां तु शिञ्जितम् ।निक्वाणो निक्वणः क्वाणः क्वणः क्वणनमित्यपि ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
शब्दो व्योमगुणः स्वानं प्रस्वनस्वननिस्वनाः ।निर्ह्रादो रवणो नादः क्ष्वेडो ध्वानो ध्वनी रवः ।कर्णिह्रासो रसे भ्रूणा कन्धः कण्ठश्च घोषणः ॥ ५९ ॥
अनुष्टुप्
genderपुंmasc.
लिड्गीर्भाषा वाणिगाथे जिह्वा वाणी द्वयोः पुमान् ।घोषः स्वरः स्वनोऽपि स्याद्गणो धेनाऽपि कारिका ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
युगपद्यत्र वाद्यन्ते कोणाघातः स उच्यते ।शब्दो निनादो निर्घोषो निह्रादो निःस्वनः स्वनः ॥ १०१ ॥
अनुष्टुप्
genderपुंmasc.
अनातोद्येऽपि च घनः शब्दे ध्वानस्वनौ ततः ।जताह्रामिजनानां च देवनेन समं पुनः ॥ ५७ ॥
अनुष्टुप्
genderपुंmasc.
स्वरो ह्रादारवौ क्काणः स्वनः क्कणरणावपि ।संगीते तु स्वराः सप्त षड्जगान्धारनामकौ ॥ २९३ ॥
अनुष्टुप्
genderपुंmasc.
शब्दो निनादो निनदो ध्वनिः ध्वानः स्वनो रवः ॥ ३५५ ॥
genderपुंmasc.
शब्दो नादो ध्वनिर्ध्वानं निर्घोषो निस्वनः स्वनः ।निर्ह्राद आरवो रावो निनादो निनदोऽपि च ॥ १४० ॥
अनुष्टुप्
genderपुंmasc.
शब्दः स्वरो ध्वनिर्नादो निनादो निनदो रणः ।निःस्वानो निःस्वनः स्वानः निस्वानो निस्वनो स्वनः ॥ २५४० ॥
अनुष्टुप्
genderपुंmasc.
धूम्रोऽथ कर्बुरश्चित्रः चित्रलोऽपि कल्माषवत् ।कल्मासश्च, भवेत् शब्दो निस्वानो निःस्वनः स्वनः ॥ १९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 क (wrong syllable)
genderपुंmasc.
शब्दध्वाननिनादनादनिनदस्वानस्वना निस्वन-ह्रादारावविरावघोषरसंरावारवाश्च ध्वनिः ।निःस्वानोऽपि रणोऽपि च प्रतिनिनादे स्यात्प्रतिश्रुत् स्त्रियांसंभोगे मणितं ध्वनिर्वसनपर्णानां स्वनो मर्मरः ॥ २२३ ॥
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्
genderपुंmasc.
उपनायस्तूपनये भरो भारे भ्रमे भ्रमिः ।हसे हासः स्वने स्वानो व्यधो वेधे वरो वृतौ ॥ १६९६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्तू (wrong syllable)
genderपुंmasc.
नालीकरस्तु नानीकवाक् स्वनोऽशोभनस्वरः ।कुवदे कुचरः शब्दकारे रवणशब्दनौ ॥ ४८ ॥
अनुष्टुप्
genderविadj.
स्वन as a meaning in nānārtha verses
- हलायुधकोशः (अभिधानरत्नमाला) स्वरअकारादिषु वर्णेषु षड्जादिषु च सप्तसु । उदात्तादिषु विज्ञेयः प्राणिनां च स्वने स्वरः ॥ ८६३ ॥ Abhidhānaratnamālā (Halāyudha) 5.863
- कोषकल्पतरु झञ्झाझ[269b]ञ्झा तु चण्डे पवने स्वने च Koṣakalpataru 6.8.2
- शब्दरत्नावली उद्गारध्यानादूर्ध्वप्रेरणादौ स्यादुत्कारो निकारवत् । निगारोऽभ्यवहारे स्यादुद्गारो वमने स्वने ॥ Śabdaratnāvalī 6.65
- शब्दरत्नावली रणरणोऽस्त्री समरे पुंसि स्वने कणे गतावपि । वर्णो यशोगुणकुथाद्विजशुक्लादिषु स्तुतौ ॥ Śabdaratnāvalī 7.15.14
- शब्दरत्नावली डिम्बडिम्बो वारिप्लवप्लीहाफुस्फुसाण्डभयस्वने । दर्वी सर्पफणायान्तु खजाकायामपि स्त्रियाम् । पूर्वस्तु पूर्वजे पुंसि पूर्वं प्रागादपयोस्त्रिषु ॥ Śabdaratnāvalī 7.23.5
- शब्दरत्नाकर रणरतिः क्रीडाकामपत्न्योः रदो दन्तविलेखयोः । अंशुप्रग्रहयोः रश्मी रणोऽस्त्री युधि ना स्वने ॥ १९८६ ॥ Śabdaratnākara 4.1.1986