कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

निक्वण

nikvaṇaपुं · masc.

In 11 kośas: 11 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1400 · p. 53
शब्दो निनादो निर्घोषः स्वानो ध्वानः स्वरो ध्वनिः ।निह्रादो निनदो ह्रादो निस्वानो निस्वनः स्वनः ॥ १३९९ ॥रवो नादः स्वनिर्घोषः संव्याङ्भ्यो राव आरवः ।क्वणनं निक्वणः क्वाणो निक्वाणश्च क्वणो रणः ॥ १४०० ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह शब्दादिवर्गः Amarakośa 1.6.24
शब्दे निनादनिनदध्वनिध्वानरवस्वनाः ॥ २२ ॥स्वाननिर्घोषनिर्ह्रादनादनिस्वाननिस्वनाः ।आरवारावसंरावविरावा अथ मर्मरः ॥ २३ ॥स्वनिते वस्त्रपर्णानां भूषणानां तु शिञ्जितम् ।निक्वाणो निक्वणः क्वाणः क्वणः क्वणनमित्यपि ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर चतुर्थोपदेशः Bālaprabodhikā 4.68 · p. 72
गुन्दिदो मर्दलध्वाने बाणे हिटुकडक्कपाः ।भेरीनादे तु भाङ्कारः क्वणतः क्वणनं कणः ।पृक्वाणो निक्वणः क्वाणः वीणायाः क्वणिते मतः ॥ ६८ ॥
अनुष्टुप्
genderपुंmasc.
रवरावौ ध्वनध्वानौ समौ निक्वाणनिक्वणौ ।क्वणक्वाणौ समावुक्तौ प्रक्वाणप्रक्वणावपि ॥ ४५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ब्रह्मप्रकाण्डः Kalpadrukośa 3.2.102 · p. 450
स्वानो ध्वानः स्वरो ह्रादो निस्वानो रव इत्यपि ।नादो घोषः क्वणः क्वाणो निक्वाणो निक्वणः क्वणः ॥ १०२ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.164 · p. 73
क्वणः क्वाणो निक्वणश्च निक्वाणः क्वणनं तथा ।वीणान्यवाद्यजे शब्दे प्रतिश्रुत्स्त्री प्रतिध्वनिः ।समन्ततस्तु संरावे क्लीबे सांराविणं भवेत् ।कोलाहलः कलकलोऽत्र च डिम्बमस्त्रीभेरी[47a]सहस्रशतके पटहायुते च ।अभ्याहते युगपदारव एष कोणा-घातः पुमान्विशिखपक्षरवस्त्रिसूत्कः (?) ॥ १६४ ॥
अनुष्टुप्two metres in one verse
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2541 · p. 412
निक्वाणो निक्वणः क्वणः क्वणश्च क्वणनं पुनः ।ध्वानो घोषश्च निर्घोष आराव आरवो रवः ॥ २५४१ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 क्व (wrong syllable); pāda 4, syllable 3 व (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.403 · p. 29
वीणा ध्वनौ तु क्वणनं निक्वाणो निक्वणोऽपि च ।प्रक्वाणः प्रक्वणः क्वाणः क्वणः स्यात् सुक्वणादयः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि षष्ठः काण्डः Śabdaratnākara 6.20 · p. 251
स्वनिः स्वानो ध्वनिर्ध्वानो निक्वाणो निक्वणः क्वणः ।क्वाणश्च घोष-निर्घोषौ निर्ह्रादो ह्राद इत्यपि ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शब्दाध्यायः Śabdaratnākara 1.7.228 · p. 31
निक्वाणो निक्वणः क्वाणः प्रक्वाणः प्रक्वणः क्वणः ।वीणायाः क्वणिते शब्दे तुमुलं भृशसंकुले ॥ २२८ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश शब्दाध्यायः Vaijayantī 2.4.11 · p. 31
वाणं हुडुक्कहिक्कायां भेरीनादे तु टट्टरः ।क्वणनं क्वणितं क्वाणो निक्वाणो निक्वणः कणः ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.