कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

ह्राद

hrādaपुं · masc.

In 11 kośas: 12 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1400 · p. 53
शब्दो निनादो निर्घोषः स्वानो ध्वानः स्वरो ध्वनिः ।निह्रादो निनदो ह्रादो निस्वानो निस्वनः स्वनः ॥ १३९९ ॥रवो नादः स्वनिर्घोषः संव्याङ्भ्यो राव आरवः ।क्वणनं निक्वणः क्वाणो निक्वाणश्च क्वणो रणः ॥ १४०० ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.138 · p. 17
ह्रादो नादः शब्दः स्वानो ध्वानः स्वरो रवो घोषः ।अभिधानव्याहारोदीरणकथनादयस्तु तद्भेदाः ॥ १३८ ॥
गीतिः
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर षष्ठोपदेशः Bālaprabodhikā 6.103 · p. 75
शम्भुरस्तु मदो हर्षः प्रमोदो मोदसम्मदौ ।आनन्दो नन्दथुर्ह्रादस्तृप्तिर्हृष्टिमुदिष्टयः ॥ १०३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव पातालादिप्रकाण्डः Kalpadrukośa 1.15.15 · p. 362
कयाधूरस्य पत्नी स्यात्प्रह्लादाद्याः सुताश्च ते ।कायाधवश्च प्रह्लादो ह्रादः संह्रादसंज्ञकः ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ब्रह्मप्रकाण्डः Kalpadrukośa 3.2.102 · p. 450
स्वानो ध्वानः स्वरो ह्रादो निस्वानो रव इत्यपि ।नादो घोषः क्वणः क्वाणो निक्वाणो निक्वणः क्वणः ॥ १०२ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.57 · p. 71
ह्रादः स्वरो निःस्वनवत्कृतः स्यान्निह्रादि-मायू अपि रुत्पुनः स्त्री ।सीत्कार एष प्रमदाजनस्यदन्तक्षताद्यैरुदितः प्रदिष्टः ॥ ५७ ॥
इन्द्रवज्रा
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.293 · p. 88
स्वरो ह्रादारवौ क्काणः स्वनः क्कणरणावपि ।संगीते तु स्वराः सप्त षड्जगान्धारनामकौ ॥ २९३ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त शब्दमरीचिः Pañcatattvaprakāśa 6.2.356 · p. 25
निःस्वानो निस्वनो नादो ह्रादनिर्घोषरावकाः[कः] ।मर्मरो वस्त्रपर्णोत्थः सिञ्जितं भूषणारवः ॥ ३५६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2542 · p. 412
विरावश्चापि संरावो ह्रादो रावस्तथा स्वनिः ।निर्ह्रादश्चेति त्रिंशन्नामानि शब्दबोधने ॥ २५४२ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि षष्ठः काण्डः Śabdaratnākara 6.20 · p. 251
स्वनिः स्वानो ध्वनिर्ध्वानो निक्वाणो निक्वणः क्वणः ।क्वाणश्च घोष-निर्घोषौ निर्ह्रादो ह्राद इत्यपि ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शब्दाध्यायः Śabdaratnākara 1.7.223 · p. 30
शब्दध्वाननिनादनादनिनदस्वानस्वना निस्वन-ह्रादारावविरावघोषरसंरावारवाश्च ध्वनिः ।निःस्वानोऽपि रणोऽपि च प्रतिनिनादे स्यात्प्रतिश्रुत् स्त्रियांसंभोगे मणितं ध्वनिर्वसनपर्णानां स्वनो मर्मरः ॥ २२३ ॥
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश शब्दाध्यायः Vaijayantī 2.4.2 · p. 31
कणिर्ह्रादो रसो ध्रूणा घोषो गुंजनमुंजने ।गंजनं मशनं कानं गानं कोरणरेदभणे ॥ २ ॥
अनुष्टुप्
genderपुंmasc.