क्वण
kvaṇaपुं · masc.In 11 kośas: 12 synonym verses, 1 as a meaning of another word.
शब्दो निनादो निर्घोषः स्वानो ध्वानः स्वरो ध्वनिः ।निह्रादो निनदो ह्रादो निस्वानो निस्वनः स्वनः ॥ १३९९ ॥रवो नादः स्वनिर्घोषः संव्याङ्भ्यो राव आरवः ।क्वणनं निक्वणः क्वाणो निक्वाणश्च क्वणो रणः ॥ १४०० ॥
अनुष्टुप्
genderपुंmasc.
शब्दे निनादनिनदध्वनिध्वानरवस्वनाः ॥ २२ ॥स्वाननिर्घोषनिर्ह्रादनादनिस्वाननिस्वनाः ।आरवारावसंरावविरावा अथ मर्मरः ॥ २३ ॥स्वनिते वस्त्रपर्णानां भूषणानां तु शिञ्जितम् ।निक्वाणो निक्वणः क्वाणः क्वणः क्वणनमित्यपि ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
रवरावौ ध्वनध्वानौ समौ निक्वाणनिक्वणौ ।क्वणक्वाणौ समावुक्तौ प्रक्वाणप्रक्वणावपि ॥ ४५ ॥
अनुष्टुप्
genderपुंmasc.
संप्रदायोऽथ विश्रम्भो विश्वासोऽथ क्षये क्षिया ।ग्रहे ग्राहो वशः कान्तौ रक्षा त्राणे रणः क्वणे ॥ ४० ॥
अनुष्टुप्
genderपुंmasc.
स्वानो ध्वानः स्वरो ह्रादो निस्वानो रव इत्यपि ।नादो घोषः क्वणः क्वाणो निक्वाणो निक्वणः क्वणः ॥ १०२ ॥
अनुष्टुप्
genderपुंmasc.
क्वणः क्वाणो निक्वणश्च निक्वाणः क्वणनं तथा ।वीणान्यवाद्यजे शब्दे प्रतिश्रुत्स्त्री प्रतिध्वनिः ।समन्ततस्तु संरावे क्लीबे सांराविणं भवेत् ।कोलाहलः कलकलोऽत्र च डिम्बमस्त्रीभेरी[47a]सहस्रशतके पटहायुते च ।अभ्याहते युगपदारव एष कोणा-घातः पुमान्विशिखपक्षरवस्त्रिसूत्कः (?) ॥ १६४ ॥
अनुष्टुप्two metres in one verse
genderपुंmasc.
स्वरो ह्रादारवौ क्काणः स्वनः क्कणरणावपि ।संगीते तु स्वराः सप्त षड्जगान्धारनामकौ ॥ २९३ ॥
अनुष्टुप्
genderपुंmasc.doubtful
वीणाशब्दः क्वणः क्वाणो निक्वाणः प्रक्वणाक्वणौ ।प्रतिशब्दः प्रतिध्वानं गीतं रागो रसारवः ॥ ३५७ ॥
अनुष्टुप्
genderपुंmasc.
निक्वाणो निक्वणः क्वणः क्वणश्च क्वणनं पुनः ।ध्वानो घोषश्च निर्घोष आराव आरवो रवः ॥ २५४१ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 क्व (wrong syllable); pāda 4, syllable 3 व (wrong syllable)
genderपुंmasc.
वीणा ध्वनौ तु क्वणनं निक्वाणो निक्वणोऽपि च ।प्रक्वाणः प्रक्वणः क्वाणः क्वणः स्यात् सुक्वणादयः ॥
अनुष्टुप्
genderपुंmasc.
स्वनिः स्वानो ध्वनिर्ध्वानो निक्वाणो निक्वणः क्वणः ।क्वाणश्च घोष-निर्घोषौ निर्ह्रादो ह्राद इत्यपि ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
निक्वाणो निक्वणः क्वाणः प्रक्वाणः प्रक्वणः क्वणः ।वीणायाः क्वणिते शब्दे तुमुलं भृशसंकुले ॥ २२८ ॥
अनुष्टुप्
genderपुंmasc.
क्वण as a meaning in nānārtha verses
- कोषकल्पतरु रणधान्यांशेऽतितनौ कणो नरि युगे त्वेष स्फुलिङ्गे लवे कृष्णाजीरकयोश्च नक्तजकृमौ च स्त्री रणस्तु क्वणे । कोणेऽस्त्री तु स संगरे नरि पुनः सत्वादिसंध्यादिक- श्वेताद्येषु वृकोदरे पचिकरे रत्यां च विद्यादिंषु । व्यायामेन्द्रियदानपोपरगते(?)धर्मे च ना स्याद्गुणो- ऽथ व्यापारमुहूर्तपर्वसु महे सूक्ष्मेऽपि काले क्षणः । ना द्यूतव्यवहारवित्तभृतिषु स्याच्छ्वेंतकानां मितौ मूल्ये चामिषशाककेऽपि च पणः कार्षापणेऽपीरितः । संख्यासैन्यविशेषयोः पशुपतेर्भृत्येषु संघे गणो घ्राते घ्राण[278b]मुदीरितं च परवत्तन्नासिकायां द्विमुक् । काणो ना करटे तथैकनयने त्रय्यां स्त्रियां त्वौषधौ बाणो ना दनुजे स्त्रियां कुसुमभित्काण्डाङ्गकाण्डेषु च ॥ ३ ॥ Koṣakalpataru 6.15.3