कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

निनाद

ninādaपुं · masc.

In 11 kośas: 10 synonym verses, 3 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1400 · p. 53
शब्दो निनादो निर्घोषः स्वानो ध्वानः स्वरो ध्वनिः ।निह्रादो निनदो ह्रादो निस्वानो निस्वनः स्वनः ॥ १३९९ ॥रवो नादः स्वनिर्घोषः संव्याङ्भ्यो राव आरवः ।क्वणनं निक्वणः क्वाणो निक्वाणश्च क्वणो रणः ॥ १४०० ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह शब्दादिवर्गः Amarakośa 1.6.24
शब्दे निनादनिनदध्वनिध्वानरवस्वनाः ॥ २२ ॥स्वाननिर्घोषनिर्ह्रादनादनिस्वाननिस्वनाः ।आरवारावसंरावविरावा अथ मर्मरः ॥ २३ ॥स्वनिते वस्त्रपर्णानां भूषणानां तु शिञ्जितम् ।निक्वाणो निक्वणः क्वाणः क्वणः क्वणनमित्यपि ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ब्रह्मप्रकाण्डः Kalpadrukośa 3.2.101 · p. 450
युगपद्यत्र वाद्यन्ते कोणाघातः स उच्यते ।शब्दो निनादो निर्घोषो निह्रादो निःस्वनः स्वनः ॥ १०१ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.56 · p. 71
शब्दो निनादो निनदो नदोऽपिनादो ध्वनि-ध्वान-रवारवाः स्युः ।आराव-संराव-विराव-घोष-निर्घोष-निःस्वान-रण-स्तनाश्च ॥ ५६ ॥
इन्द्रवज्रा
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त शब्दमरीचिः Pañcatattvaprakāśa 6.2.355 · p. 25
शब्दो निनादो निनदो ध्वनिः ध्वानः स्वनो रवः ॥ ३५५ ॥
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति पण्डितवर्गः Śāradīyākhyanāmamālā 2.4.140 · p. 33
शब्दो नादो ध्वनिर्ध्वानं निर्घोषो निस्वनः स्वनः ।निर्ह्राद आरवो रावो निनादो निनदोऽपि च ॥ १४० ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2540 · p. 411
शब्दः स्वरो ध्वनिर्नादो निनादो निनदो रणः ।निःस्वानो निःस्वनः स्वानः निस्वानो निस्वनो स्वनः ॥ २५४० ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.400 · p. 28
निनादनिनदध्वाननिध्वानध्वनिसंरवाः ।रव आरव आरावः संरावो राव इत्यपि ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि षष्ठः काण्डः Śabdaratnākara 6.21 · p. 251
निनादो निनदो नाद आरावो राव आरवः ।रवो विरावः संरावः, क्ष्वेडा क्ष्वेडित-क्ष्वेलिते ॥ २१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 त (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शब्दाध्यायः Śabdaratnākara 1.7.223 · p. 30
शब्दध्वाननिनादनादनिनदस्वानस्वना निस्वन-ह्रादारावविरावघोषरसंरावारवाश्च ध्वनिः ।निःस्वानोऽपि रणोऽपि च प्रतिनिनादे स्यात्प्रतिश्रुत् स्त्रियांसंभोगे मणितं ध्वनिर्वसनपर्णानां स्वनो मर्मरः ॥ २२३ ॥
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्
genderपुंmasc.

निनाद as a meaning in nānārtha verses

  • कोषकल्पतरु आतङ्क[255b]आतङ्को मुरजनिनादतापशङ्का- रुक्ष्वस्त्री रतिपतिकण्टकेऽप्युदर्कः । संपर्को निधुवनपृक्तिवाचकः स्या- दूहायां पुनरिह संशये वितर्कः ॥ ७ ॥ Koṣakalpataru 6.1.7
  • कोषकल्पतरु रशनजिह्वागतोऽथो रशनं निनादे काञ्च्यां स्त्रियां स्याद्रशनागतोऽपि । गेहाम्भसोः स्यात्सदनं मुखे तु संभाषिते स्याद्वदनं तथैव ॥ १४ ॥ Koṣakalpataru 6.21.14
  • उत्पलिनी रसनजिह्वास्वादनिनादेषु रसनं कटिमण्डने ॥ ५८ ॥ Utpalinī 58