निस्वन
nisvanaपुं · masc.In 12 kośas: 10 synonym verses, 3 as a meaning of another word.
शब्दो निनादो निर्घोषः स्वानो ध्वानः स्वरो ध्वनिः ।निह्रादो निनदो ह्रादो निस्वानो निस्वनः स्वनः ॥ १३९९ ॥रवो नादः स्वनिर्घोषः संव्याङ्भ्यो राव आरवः ।क्वणनं निक्वणः क्वाणो निक्वाणश्च क्वणो रणः ॥ १४०० ॥
अनुष्टुप्
genderपुंmasc.
शब्दे निनादनिनदध्वनिध्वानरवस्वनाः ॥ २२ ॥स्वाननिर्घोषनिर्ह्रादनादनिस्वाननिस्वनाः ।आरवारावसंरावविरावा अथ मर्मरः ॥ २३ ॥स्वनिते वस्त्रपर्णानां भूषणानां तु शिञ्जितम् ।निक्वाणो निक्वणः क्वाणः क्वणः क्वणनमित्यपि ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
शब्दो व्योमगुणः स्वानं प्रस्वनस्वननिस्वनाः ।निर्ह्रादो रवणो नादः क्ष्वेडो ध्वानो ध्वनी रवः ।कर्णिह्रासो रसे भ्रूणा कन्धः कण्ठश्च घोषणः ॥ ५९ ॥
अनुष्टुप्
genderपुंmasc.
उदन्तक उदन्तः स्यात् खनखानावुभौ समौ ।निस्वाननिस्वनावेवं भवेदाराव आरवः ॥ ४४ ॥
अनुष्टुप्
genderपुंmasc.
निःस्वानो निस्वनो नादो ह्रादनिर्घोषरावकाः[कः] ।मर्मरो वस्त्रपर्णोत्थः सिञ्जितं भूषणारवः ॥ ३५६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
शब्दो नादो ध्वनिर्ध्वानं निर्घोषो निस्वनः स्वनः ।निर्ह्राद आरवो रावो निनादो निनदोऽपि च ॥ १४० ॥
अनुष्टुप्
genderपुंmasc.
शब्दः स्वरो ध्वनिर्नादो निनादो निनदो रणः ।निःस्वानो निःस्वनः स्वानः निस्वानो निस्वनो स्वनः ॥ २५४० ॥
अनुष्टुप्
genderपुंmasc.
अमूनि त्रिषु सत्यानि अव्ययन्तु यथातथम् ।शब्दो निर्घोषनिर्ह्रादनिस्वानस्वाननिस्वनाः ॥
अनुष्टुप्
genderपुंmasc.
शब्दध्वाननिनादनादनिनदस्वानस्वना निस्वन-ह्रादारावविरावघोषरसंरावारवाश्च ध्वनिः ।निःस्वानोऽपि रणोऽपि च प्रतिनिनादे स्यात्प्रतिश्रुत् स्त्रियांसंभोगे मणितं ध्वनिर्वसनपर्णानां स्वनो मर्मरः ॥ २२३ ॥
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्
genderपुंmasc.
शब्दो व्योमगुणस्वानस्वननिस्वाननिस्वनाः ।निर्ह्रादो रवणो नादः क्ष्वेडो ध्वानो ध्वनिः कवः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
निस्वन as a meaning in nānārtha verses
- धरणिकोश वाजध्वजः शेफसि चिह्ने च पताकायां च शौण्डिके । वाजं पाथे मुनौ वाजो वाजो निस्वनपक्षयोः ॥ Dharaṇikośa 7.2.2
- कोषकल्पतरु वाजवाजो मुनौ निस्वनपक्षयोर्ना जवे मखान्ने तु घृते च षण्ढे । व्याजोऽपदेशे शठकर्मणि स्या- त्पाणौ सुबाहौ च भुजो द्विलिङ्गः ॥ २४ ॥ Koṣakalpataru 6.7.24
- शब्दरत्नावली वाजबहुत्वे पुंसि लाजाः स्युर्व्याजोऽपदेशशाठ्ययोः । ब्रजो गोष्ठे पथिच्छन्दे वाजः पक्षे च निस्वने । मुनौ पुमान् जले क्लीबं यज्ञे चैव घृतान्नयोः ॥ Śabdaratnāvalī 7.8.16