कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

ध्वान

dhvānaपुं · masc.

In 17 kośas: 16 synonym verses, 9 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1400 · p. 53
शब्दो निनादो निर्घोषः स्वानो ध्वानः स्वरो ध्वनिः ।निह्रादो निनदो ह्रादो निस्वानो निस्वनः स्वनः ॥ १३९९ ॥रवो नादः स्वनिर्घोषः संव्याङ्भ्यो राव आरवः ।क्वणनं निक्वणः क्वाणो निक्वाणश्च क्वणो रणः ॥ १४०० ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह शब्दादिवर्गः Amarakośa 1.6.24
शब्दे निनादनिनदध्वनिध्वानरवस्वनाः ॥ २२ ॥स्वाननिर्घोषनिर्ह्रादनादनिस्वाननिस्वनाः ।आरवारावसंरावविरावा अथ मर्मरः ॥ २३ ॥स्वनिते वस्त्रपर्णानां भूषणानां तु शिञ्जितम् ।निक्वाणो निक्वणः क्वाणः क्वणः क्वणनमित्यपि ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.138 · p. 17
ह्रादो नादः शब्दः स्वानो ध्वानः स्वरो रवो घोषः ।अभिधानव्याहारोदीरणकथनादयस्तु तद्भेदाः ॥ १३८ ॥
गीतिः
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर चतुर्थोपदेशः Bālaprabodhikā 4.59 · p. 71
शब्दो व्योमगुणः स्वानं प्रस्वनस्वननिस्वनाः ।निर्ह्रादो रवणो नादः क्ष्वेडो ध्वानो ध्वनी रवः ।कर्णिह्रासो रसे भ्रूणा कन्धः कण्ठश्च घोषणः ॥ ५९ ॥
अनुष्टुप्
genderपुंmasc.
रवरावौ ध्वनध्वानौ समौ निक्वाणनिक्वणौ ।क्वणक्वाणौ समावुक्तौ प्रक्वाणप्रक्वणावपि ॥ ४५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ब्रह्मप्रकाण्डः Kalpadrukośa 3.2.102 · p. 450
स्वानो ध्वानः स्वरो ह्रादो निस्वानो रव इत्यपि ।नादो घोषः क्वणः क्वाणो निक्वाणो निक्वणः क्वणः ॥ १०२ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.57 · p. 467
अनातोद्येऽपि च घनः शब्दे ध्वानस्वनौ ततः ।जताह्रामिजनानां च देवनेन समं पुनः ॥ ५७ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.56 · p. 71
शब्दो निनादो निनदो नदोऽपिनादो ध्वनि-ध्वान-रवारवाः स्युः ।आराव-संराव-विराव-घोष-निर्घोष-निःस्वान-रण-स्तनाश्च ॥ ५६ ॥
इन्द्रवज्रा
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंलिङ्गसंग्रहः Paramānandīyanāmamālā 6.1.8 · p. 212
वर्षश्वेतप्लवाः शोणः पङ्कमन्थजलाशयाः ।मुरजात्मासिमासाद्रिबाणध्वानाध्वराग्नयः ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त शब्दमरीचिः Pañcatattvaprakāśa 6.2.355 · p. 25
शब्दो निनादो निनदो ध्वनिः ध्वानः स्वनो रवः ॥ ३५५ ॥
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति पण्डितवर्गः Śāradīyākhyanāmamālā 2.4.140 · p. 33
शब्दो नादो ध्वनिर्ध्वानं निर्घोषो निस्वनः स्वनः ।निर्ह्राद आरवो रावो निनादो निनदोऽपि च ॥ १४० ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2541 · p. 412
निक्वाणो निक्वणः क्वणः क्वणश्च क्वणनं पुनः ।ध्वानो घोषश्च निर्घोष आराव आरवो रवः ॥ २५४१ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 क्व (wrong syllable); pāda 4, syllable 3 व (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.400 · p. 28
निनादनिनदध्वाननिध्वानध्वनिसंरवाः ।रव आरव आरावः संरावो राव इत्यपि ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि षष्ठः काण्डः Śabdaratnākara 6.20 · p. 251
स्वनिः स्वानो ध्वनिर्ध्वानो निक्वाणो निक्वणः क्वणः ।क्वाणश्च घोष-निर्घोषौ निर्ह्रादो ह्राद इत्यपि ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शब्दाध्यायः Śabdaratnākara 1.7.223 · p. 30
शब्दध्वाननिनादनादनिनदस्वानस्वना निस्वन-ह्रादारावविरावघोषरसंरावारवाश्च ध्वनिः ।निःस्वानोऽपि रणोऽपि च प्रतिनिनादे स्यात्प्रतिश्रुत् स्त्रियांसंभोगे मणितं ध्वनिर्वसनपर्णानां स्वनो मर्मरः ॥ २२३ ॥
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश शब्दाध्यायः Vaijayantī 2.4.1 · p. 31
शब्दो व्योमगुणस्वानस्वननिस्वाननिस्वनाः ।निर्ह्रादो रवणो नादः क्ष्वेडो ध्वानो ध्वनिः कवः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.

ध्वान as a meaning in nānārtha verses

  • धरणिकोश वासितवासिता स्त्री करिणी स्याद्वासितं सुरभीकृतम् । ख्याते ध्वाने ज्ञानमात्रे वासितं वस्त्रवेष्टितम् ॥ Dharaṇikośa 15.3.18
  • धरणिकोश आक्रन्दआक्रन्दः क्रन्दने ध्वाने नाथे च दारुणे रणे । पार्ष्णिग्राहात्परो राजा आक्रन्दः समुदाहृतः ॥ Dharaṇikośa 17.3.8
  • कोषकल्पतरु वासितसूतायां तु भवेत्स्त्रियां च विकृतेऽन्याभं विजातं कृते खण्डे रुग्भिदि वालुकासु सिकता देशेऽस्त्रियां शार्करे । ध्वाने चाङ्गविलेपनेऽथ परवत्त्वामोदिते वासितं स्त्रीभ्योः स्त्री पिशितं पुनश्च पलले मांस्यां स्त्रियां सम्मतम् ॥ २८ ॥ Koṣakalpataru 6.16.28
  • कोषकल्पतरु घोषध्वाने च धामार्गवके च घोषो- ऽप्याभीरपल्ल्यामपि कांस्यके च ॥ ४१ ॥ Koṣakalpataru 6.30.41
  • नानार्थार्णवसंक्षेप स्तननसदनं तु गृहे तोये सीदत्यर्थे च कीर्तितम् । स्तननं स्तनिते ध्वाने स्तरणं छादने वधे ॥ ८२ ॥ Nānārthārṇavasaṃkṣepa 3.3.82
  • शब्दरत्नावली डडस्त्रासे शङ्करेध्वाने दस्युवृन्दे खलेऽपि च । Śabdaratnāvalī 7.13.1
  • शब्दरत्नावली क्रन्दनक्रन्दनं रोदने ध्वानयुद्धसंरावयोरपि । कल्पनं कर्तने क्लिप्तौ कल्पना हस्तिसज्जने ॥ Śabdaratnāvalī 7.20.41
  • शब्दरत्नावली विश्वकद्रुवातपुत्रो महाधूर्त्ते भीमसेने हनूमति । विश्वम्भरो हरौ शक्ते पृथिव्यामपि च स्त्रियाम् ॥ विश्वकद्रुः खले ध्वाने खेटकुक्कुरयोरपि । विभावरी तु वक्रस्त्री कुट्टानी यामिनीषु च ॥ विवादवस्त्रमुण्ड्याञ्च मौखर्यनिरतस्त्रियाम् । शतपुत्रो मयूरे स्याद्धार्वाघाटे तु सारसे ॥ Śabdaratnāvalī 7.27.144
  • वैजयन्ती क्रन्दनकटीरं कन्दरे कट्यां कलत्रं श्रोणिभार्ययोः । क्रन्दनं रुदिते ध्वाने कार्मुकं शस्त्रचापयोः ॥ ६ ॥ Vaijayantī 7.3.6