ध्वनि
dhvaniपुं · masc.In 19 kośas: 21 synonym verses, 48 as a meaning of another word.
शब्दो निनादो निर्घोषः स्वानो ध्वानः स्वरो ध्वनिः ।निह्रादो निनदो ह्रादो निस्वानो निस्वनः स्वनः ॥ १३९९ ॥रवो नादः स्वनिर्घोषः संव्याङ्भ्यो राव आरवः ।क्वणनं निक्वणः क्वाणो निक्वाणश्च क्वणो रणः ॥ १४०० ॥
अनुष्टुप्
genderपुंmasc.
शब्दे निनादनिनदध्वनिध्वानरवस्वनाः ॥ २२ ॥स्वाननिर्घोषनिर्ह्रादनादनिस्वाननिस्वनाः ।आरवारावसंरावविरावा अथ मर्मरः ॥ २३ ॥स्वनिते वस्त्रपर्णानां भूषणानां तु शिञ्जितम् ।निक्वाणो निक्वणः क्वाणः क्वणः क्वणनमित्यपि ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
शब्दो व्योमगुणः स्वानं प्रस्वनस्वननिस्वनाः ।निर्ह्रादो रवणो नादः क्ष्वेडो ध्वानो ध्वनी रवः ।कर्णिह्रासो रसे भ्रूणा कन्धः कण्ठश्च घोषणः ॥ ५९ ॥
अनुष्टुप्
genderपुंmasc.
समाविभ्यः परो रावस्तथैव च पुनः स्त्रियौ ।ध्वनिः स्वनिरपि क्लीबे फणनं चाथ रोदनम् ॥ १०३ ॥
अनुष्टुप्
genderस्त्रीfem.
अविराजिध्वनिशिशुकर्षूजायुयुजामपि ।हाहाहूहू नग्नहूनां गमत्पां दश्मनामपि ॥ ६६ ॥
अनुष्टुप्
genderपुंmasc.
तदुत्तमं ध्वनिः पुंसि भवेद्व्यङ्गे(ङ्ग्ये)तिशायिनि ।गुणीभूते मध्यममं स्याच्चित्रं स्याद्व्यङ्गवर्जितम् ॥ ११ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
शब्दो निनादो निनदो नदोऽपिनादो ध्वनि-ध्वान-रवारवाः स्युः ।आराव-संराव-विराव-घोष-निर्घोष-निःस्वान-रण-स्तनाश्च ॥ ५६ ॥
इन्द्रवज्रा
genderपुंmasc.
फेनो जनोऽप्यभिजनो ध्वनिरर्दनिश्चस्थेमोष्म-पाप्म-परिघातन-वह्नयोऽश्मा ।आत्माग्निरह्नचरमास्त्वपरादहीनाःप्लीहा च यक्ष्मसहितोऽपि च देवनोऽक्षैः ॥ १८ ॥
वसन्ततिलका
genderपुंmasc.
कण्ठसञ्ज्ञाः स्तनसञ्ज्ञाः बाहुसञ्ज्ञाश्च पुंसि भवन्ति । अयं कण्ठः । गल इत्यादिः । स्तनसञ्ज्ञाश्च । अयं स्तनः कुचः पयोधर इत्यादिः । बाहुसञ्ज्ञाश्च भुजस्तरणः धरणः चालन इत्यादिः । कण्ठसञ्ज्ञत्वाद्ग्रीवाशब्दस्यापि पुंसि प्रयोगः प्राप्नोतीत्याह । स्त्रियां भवेद्ग्रीवा । ग्रीवाशब्दस्य स्त्रीलिङ्गता भवति । इयं ग्रीवा शिरोधरा कन्धरा इत्येवमादयः । पृष्ठादयः शब्दा नपुंसके स्युः । तद्यथा । इदं पृष्ठं पार्श्वयोर्यष्टिः । इदं ललाटं भ्रुवोरुपरिस्थानम् । इदमंसः[श] स्तनयोरुपरिस्थानम् । इदमुदरं जठरः । इदं जत्रु स्कन्धसम्बन्धि । इत्येवमादयः ।ऊर्म्मिध्वन्यञ्जलयः पुंस्योष्ठकपोलगुल्फसञ्ज्ञाश्च ।घञ्चैरच्च ऋदोरप्च स्याद्बहुलमन्धकारश्च ॥ १६ ॥
metre not recognised
genderपुंmasc.
ऊर्मिश्च ध्वनिश्च अञ्जलिश्च ऊर्म्मिध्वन्यञ्जलयः । एते शब्दाः पुंसि भवन्ति । अयमूर्म्मिस्तरङ्गः । अयं ध्वनिः शब्दः ।अयमञ्जलिः करपुटः । ओष्ठकपोलगुल्फसञ्ज्ञाश्च । सञ्ज्ञाशब्दः प्रत्येकमभिसम्बध्यते । ओष्ठश्च कपोलश्च गुल्फश्च ओष्ठकपोलगुल्फाः । एतेषां सञ्ज्ञाः पर्यायास्ते पुंसि भवन्ति । अयमोष्ठः अधरः दन्तच्छदः । अयं कपोलः गण्ड इत्येवमादयः । अयं गुल्फः पादग्रन्थिः घुठः घूंठ इत्येवमादयः । घञ्च एरच्च ऋदोरप्च । "पदरुजवेगस्पृशो घञि"त्येवमादिना प्रकरणे घञो विहित इति । "येन विधिस्तदन्तस्ये"ति घञ्प्रत्ययान्ताः शब्दाः पुंसि भवन्ति । तद्यथा । पादः रोगः वेगः स्पर्शः पाकः त्यागः योगः प्रसादः भेदः छेदः दाहः दोषः प्रकारविकार इत्येवमादयः । "एरजि"ति । एरजीवर्णान्तादच्प्रत्ययः स्यात् । अयं जयः नयः । तथा "ऋदोरप्" । ऋवर्णान्तादुवर्णान्ताच्च धातोरप्प्रत्ययः स्यात् । तत्र ऋवर्णान्तात् । अयं करः वरः भरः शरः नरः । इत्येवमादयः । उवर्णान्तात् । अयं प्लवः पवः भवः इत्येवमादयः । घञन्तादन्धकारशब्दस्यापि नित्यं पुंस्त्वं स्यादित्याह । बहुलमन्धकारश्च । अन्धकारो बहुलं पुंलिङ्गे भवति । विभाषा भवतीत्यर्थः । इदं अन्धकारम् । अयं अन्धकारः । तथा चोक्तम् । "नेहागमोऽस्ति शलभस्य न मारुतस्य स्नेहक्षयोऽपि न भवेत्प्रथमे प्रदोषे । अव्यक्तवस्तुपुरुषप्रतिबोधितेन पारावतेन पतता कृतमन्धकारम् ।"प्राण्यङ्गमिदन्तं वस्तिकुक्षिपाणीन्विमुच्य सर्वं स्त्री ।जङ्घा शिरा स्नुषा नासिका चूडा वसा चैव ॥ १७ ॥
वसन्ततिलकाmetre not read in every line
ऊर्मिपुंतरङ्गपुंध्वनिपुंशब्दपुंअञ्जलिपुंकरपुटपुंओष्ठपुंअधरपुंदन्तच्छदपुंकपोलपुंगण्डपुंगुल्फपुंपादग्रन्थिपुंघुठपुंघूंठपुंपादपुंरोगपुंवेगपुंस्पर्शपुंपाकपुंत्यागपुंयोगपुंप्रसादपुंभेदपुंछेदपुंदाहपुंदोषपुंप्रकारपुंविकारपुंजयपुंनयपुंकरपुंवरपुंभरपुंशरपुंनरपुंप्लवपुंपवपुंभवपुंअन्धकारपुंक्लीवस्तिपुंकुक्षिपुंपाणिपुंजङ्घास्त्रीशिरास्त्रीस्नुषास्त्रीनासिकास्त्रीचूडास्त्रीवसास्त्री
genderपुंmasc.
कल्माषशबलौ चित्रकिर्मीरौ चित्रलश्च सः ।[49] ध्वनिः स्वानो रवो नादः शब्दो निर्घोषनिःस्वनौ ॥ २९२ ॥
अनुष्टुप्
genderपुंmasc.
बर्हध्वनिः पर्णपिच्छभिन्नार्थे नरलिङ्गगः ।वप्रेऽहिः पुंसि तद्भिन्नवाच्ये भेदोऽपि वक्ष्यते ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
शिवावयवकोटीशवंशोड्डीशवृषाः कुशः ।पुरेडाशवरासी च निर्यूहर्षी घृणिध्वनी ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
शब्दो निनादो निनदो ध्वनिः ध्वानः स्वनो रवः ॥ ३५५ ॥
genderपुंmasc.
शब्दो नादो ध्वनिर्ध्वानं निर्घोषो निस्वनः स्वनः ।निर्ह्राद आरवो रावो निनादो निनदोऽपि च ॥ १४० ॥
अनुष्टुप्
genderपुंmasc.
शब्दः स्वरो ध्वनिर्नादो निनादो निनदो रणः ।निःस्वानो निःस्वनः स्वानः निस्वानो निस्वनो स्वनः ॥ २५४० ॥
अनुष्टुप्
genderपुंmasc.
निनादनिनदध्वाननिध्वानध्वनिसंरवाः ।रव आरव आरावः संरावो राव इत्यपि ॥
अनुष्टुप्
genderपुंmasc.
स्वनिः स्वानो ध्वनिर्ध्वानो निक्वाणो निक्वणः क्वणः ।क्वाणश्च घोष-निर्घोषौ निर्ह्रादो ह्राद इत्यपि ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
शब्दध्वाननिनादनादनिनदस्वानस्वना निस्वन-ह्रादारावविरावघोषरसंरावारवाश्च ध्वनिः ।निःस्वानोऽपि रणोऽपि च प्रतिनिनादे स्यात्प्रतिश्रुत् स्त्रियांसंभोगे मणितं ध्वनिर्वसनपर्णानां स्वनो मर्मरः ॥ २२३ ॥
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्
genderपुंmasc.
शब्दाभिलापौ त्वभिधाऽभिधानं वाचको ध्वनिः ।ह्रासः कुहरितश्चाऽथ मन्मनो गद्गदध्वनौ ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
शब्दो व्योमगुणस्वानस्वननिस्वाननिस्वनाः ।निर्ह्रादो रवणो नादः क्ष्वेडो ध्वानो ध्वनिः कवः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
ध्वनि as a meaning in nānārtha verses
- धरणिकोश नदगदा शस्त्रविशेषं स्याद्गदो भ्राता च शार्ङ्गिणः । नदो ध्वने समुद्रे च नदी तरंगिणी स्मृता ॥ Dharaṇikośa 17.2.2
- धरणिकोश गानअन्नं भुक्ते च भक्ते च स्थानं ग्रामप्रयुक्तयोः ? । कृत्स्नमम्भसि निःशेषे गानं गीते ध्वनावपि ॥ Dharaṇikośa 19.1.3
- धरणिकोश गर्जनक्रन्दने रोदनाह्वाने मेहने मूत्रशेफसी । लङ्घनं क्रमणे ग्लानौ गर्जनं ध्वनिकोपयोः ॥ Dharaṇikośa 19.1.15
- धरणिकोश रासरासः स्याद्गोदुहां क्रीडा रासो ध्वनिरुदाहृतः । वत्सं वक्षसि वत्सस्तु शिशुके वत्सरेऽपि च ॥ Dharaṇikośa 31.2.1
- कोषकल्पतरु कण्ठपाठस्त्वधीतावथ विद्धकर्ण्यां स्त्रियां च वण्ठस्तु विवाहहीने । खर्वे च कुन्तेऽथ गले तु कण्ठो ध्वनौ समीपे मदनद्रुमे च ॥ ५४ ॥ Koṣakalpataru 6.11.54
- कोषकल्पतरु क्ष्वेडहिण्डिः स्त्रियां बालकरात्रिरक्षा- चारे भवान्यामपि भाष्यतेऽसौ । क्रोडः शनौ घोणिनि पुंस्त्वहीनो भुजान्तरे प्रावरणान्तरे तु । देशेऽपि चोडः श्रवणामये तु क्ष्वेडो ध्वनौ[276b]ना गरलेऽन्यवत्तु ॥ ६१ ॥ Koṣakalpataru 6.12.61
- कोषकल्पतरु चरणस्वर्लोके परमेष्ठिनीह वरुणो गोत्रे तु मूले पदे शाखादौ भ्रमणे स्त्रियां न चरणोऽन्त्ये रासभे च ध्वनौ । रक्षोभिद्रसयोस्तु पुंसि लवणः कान्तौ स्त्रियामन्यव- त्तद्युक्ते करणस्तु वैश्यवृषलीपुत्रे च काये कृतौ ॥ १९ ॥ Koṣakalpataru 6.15.19
- कोषकल्पतरु संनतिपुमानगस्तिर्मुनिवृक्षभेदे स्यात्संगतिः संगमबुद्धिनाम्नोः । स्त्री संनतिः स्यात्प्रणतौ ध्वनौ च दैवे च धृत्यां नियतिः स्त्रियां स्यात् ॥ ३१ ॥ Koṣakalpataru 6.16.31
- कोषकल्पतरु रसनपिण्डीतके च श्वसिते तु षण्ढे- ऽथाच्छादने स्याद्वसनं च वस्त्रे । स्वादे ध्वनौ स्याद्रसनं स्त्रियां तु रास्नाभिधानेऽथ न पुंसि काञ्च्याम् ॥ १३ ॥ Koṣakalpataru 6.21.13
- कोषकल्पतरु स्तननदुःखेऽप्यरण्ये कलिले गुहायां वदन्ति सन्तो गहनं तथैव । मेघध्वनौ स्यात् स्त[13a]ननं ध्वनौ च स्यात्कुन्थनेऽथो निधनं स्त्रियां न ॥ १६ ॥ Koṣakalpataru 6.21.16
- कोषकल्पतरु सूचनाअर्शोघ्नोऽथ करञ्जशस्त्रकभिदोः स्याद्वृश्चिकाल्यां शत- घ्नी चावृद्धबधूपुरप्रसृमरप्रेष्या त्वसिक्नी ध्वनो(?) । दृष्टौ च व्यस(ध)ने वधेऽप्यभिनये संसूचने सूचना ध्याने लेपन(?)वेदना मतिगता दुःखे तथा भावना ॥ ९९ ॥ Koṣakalpataru 6.21.99
- कोषकल्पतरु विश्वकद्रुग्राहे समुद्रारुरिहापि सेतो- र्बन्धे तथा पुंसि तिमिङ्गलेऽपि । स्याद्विश्वकद्रुर्मृगयाप्रकीर्णे शुनि ध्वनौ तादृश एव धूर्ते ॥ २६ ॥ Koṣakalpataru 6.27.26
- नानार्थार्णवसंक्षेप असुअन्धुरूधसि कूपेऽपि व्रणेऽक्षुस्त्वब्धिवप्रयोः । असुध्वनिस्तु प्रज्ञायामसवो भूम्नि जीविते ॥ १० ॥ Nānārthārṇavasaṃkṣepa 2.2.10
- नानार्थार्णवसंक्षेप गणऋषिभेदे सैन्यभेदे गुल्माख्यात् त्रिगुणे ध्वनौ । अजयस्य त्विदं ग्रन्थे दृश्यते प्रमथे चले ॥ ४२ ॥ Nānārthārṇavasaṃkṣepa 2.2.42
- नानार्थार्णवसंक्षेप रजरदो विलेखने दन्तेऽप्यथादन्तो रजध्वनिः । रजः संज्ञगुणे पांसौ स्त्रीपुष्पेऽप्यजयोऽब्रवीत् ॥ १०२ ॥ Nānārthārṇavasaṃkṣepa 2.2.102
- नानार्थार्णवसंक्षेप शब्दवेषः क्रियायामाकल्पे वेणुर्वंशद्रुमे नृपे । शब्दोऽक्षरे यशोगीत्योर्वाक्ये खे श्रवणे ध्वनौ ॥ ११६ ॥ Nānārthārṇavasaṃkṣepa 2.2.116
- नानार्थार्णवसंक्षेप क्ष्वेडलतायां स्यात् सुविख्याता राजकोशातकीति या । विषे ध्वनौ च ना यौधसिंहनादे तु सा स्त्रियाम् ॥ २८२ ॥ Nānārthārṇavasaṃkṣepa 2.5.282
- नानार्थार्णवसंक्षेप गृधुस्त्रियामथ द्वयोर्गृत्सः शुनि च ब्राह्मणेऽपि च । त्रि तु मेधाविनि गृधुध्वनिस्तु पशुषु द्वयोः ॥ ३६५ ॥ Nānārthārṇavasaṃkṣepa 2.5.365
- नानार्थार्णवसंक्षेप नादक्ली तु रन्ध्रे च शेफे च नादो ना स्तोतरि ध्वनौ । नदसम्बन्धिनि त्रिः स्यान्नाट्यं घोषाख्यलोहके ॥ ६८० ॥ Nānārthārṇavasaṃkṣepa 2.5.680
- नानार्थार्णवसंक्षेप बोलविश्वावसोः स्त्री वीणायां बृहती पठति त्विमाम् । अजयो वा(पि?चि) च क्लीबं पुनर्बोलमिति ध्वनिः ॥ ८७३ ॥ Nānārthārṇavasaṃkṣepa 2.5.873
- नानार्थार्णवसंक्षेप रुवथरुवथो ना ध्वनौ द्वे तु कुक्कुटे शाकटायनः । पुनरव्रूत शकुनौ रेवटं तु नपुंसकम् ॥ १५१८ ॥ Nānārthārṇavasaṃkṣepa 4.1518
- नानार्थार्णवसंक्षेप उत्कलिकाकल्लोलेऽपि तथौत्क(ण्ठे ? ण्ठ्ये) भवेदुत्कलिकाध्वनिः । उपलब्धिस्तु शेमुष्यां प्राप्तिविज्ञानयोरपि ॥ १५ ॥ Nānārthārṇavasaṃkṣepa 6.15
- नानार्थार्णवसंक्षेप कुम्भकारीकुलत्थधान्ये द्वे तु स्याद् दर्वीकरफणाभृताम् । एकत्र भेदेऽथ स्त्री स्यात् कुम्भका(रस्त्व?रीत्य)यं ध्वनिः ॥ १७९ ॥ Nānārthārṇavasaṃkṣepa 6.179
- परमानन्दीयनाममाला रुरः कामवह्निशब्देषु तीव्रे रामे नरे पवौ । राः स्वर्णधनयोर्मेघे स्थानके रुर्भये ध्वनौ ॥ ३६ ॥ Paramānandīyanāmamālā 1.36
- परमानन्दीयनाममाला कन्दलकन्दलं तु नवाङ्कूरे कपाले कलहे ध्वनौ । कलङ्कस्त्वपवादेऽङ्के कमलं जलताम्रयोः ॥ ११७ ॥ Paramānandīyanāmamālā 5.7.117
- परमानन्दीयनाममाला ग्रहणग्रहणं स्वीकृते चोपरागे यत्ने गुणे ध्वनौ । ग्रन्थिकं पिप्पलीमूले ग्रन्थिको ग्रहचारवित् ॥ १६१ ॥ Paramānandīyanāmamālā 5.9.161
- शब्दरत्नावली घघो घन्ढायां ध्वनौ घश्च किंकिन्याहननेऽपि च । Śabdaratnāvalī 7.4.1
- शब्दरत्नावली टटङ्कारे च ध्वनौ टोऽपि पृथिव्यां ठासमीरिता । Śabdaratnāvalī 7.11.1
- शब्दरत्नावली कण्ठकण्ठो ध्वनौ सन्निधाने गले मदनभूरुहे । काष्ठा दारुहरिद्रायां कालमाने प्रकर्षके ॥ Śabdaratnāvalī 7.12.3
- शब्दरत्नावली क्ष्वेडकुण्डी कमण्डलौ स्थाल्यां कुण्डो जारसुते पुमान् । क्ष्वेडो ध्वनौ विषे कर्णरोगे ज्वालाकुलेऽपि च ॥ Śabdaratnāvalī 7.13.5
- शब्दरत्नावली सन्ततिसन्ततिः प्रणतिध्वन्योः सङ्गतिर्ज्ञानसंज्ञयोः । सम्बित्तिश्चेतनायां स्याज्जनानामविवादके ॥ Śabdaratnāvalī 7.16.145
- शब्दरत्नावली स्वरस्वरो नासानिलोदात्तध्वनिषड्जादिके पुमान् । सारो मज्जास्थिरांशे च बलेऽप्यतिदृढे पुमान् ॥ विपिनन्याय्यनीरेषु क्लीबलिङ्गं वरे त्रिषु । सान्द्रं स्निग्धे मनोज्ञे च नालवाले नपुंसकम् ॥ सिप्रो निदाघनीरे ना सिप्रा स्त्री सरिदन्तरे । सूत्रन्तु सूजनाग्रन्थे व्यवस्थायाञ्च तन्तुषु ॥ Śabdaratnāvalī 7.27.48
- शब्दरत्नावली घोषकर्षो मानविशेषे स्यात्कर्षणे च पुमानयम् । कर्षूः पुंसि करीषाग्नौ स्त्रियां कुल्येष्टखातयोः ॥ काक्षी सौराष्ट्रमृद्भदे स्त्रियान्तु वरिकोषधौ । घोषमाभीरपल्ल्याञ्च ध्वनिगोपालघोषके ॥ चोक्षो दक्षे मनोज्ञे च तीक्ष्णे च शुचिगीतयोः । झषा नागवलायां स्त्री तापमीनवनेषु ना ॥ Śabdaratnāvalī 7.31.6
- शब्दरत्नाकर घोषघनं कांस्यादिके वाद्ये लयसाम्ये भृशार्थके । घोष आभीरपल्ल्यां स्याज्जालिन्यां च ध्वनौ विषे ॥ १९१५ ॥ Śabdaratnākara 4.1.1915
- शब्दरत्नाकर शब्दशब्दः कीर्तौ ध्वनौ वाक्ये श्रवणेऽक्षरगीतयोः । स्यादध्वदेयजामातृदेययोः शुल्कमस्त्रियाम् ॥ २०१५ ॥ Śabdaratnākara 4.1.2015
- शब्दार्णव रसशृङ्गारादौ जले वीर्ये सुवर्णे विषशुक्रयोः । तिक्तादावमृते चैव निर्यासे पारदे ध्वनौ ॥ Śabdārṇava 254
- तन्त्राभिधान घमरीचिर्वरुणो मेधा कालरूपी च दाम्भिकः । लम्बोदरा ज्वालमूलं नन्देशो हननं ध्वनिः ॥ ६७ ॥ Tantrābhidhāna 2.21.67
- तन्त्राभिधान टट-ष्टङ्कारः कपाली च सोमजा खेचरो ध्वनिः । मुकुन्दो विनदा पृथ्वी वैष्णवी वारुणी नवः ॥ ८९ ॥ Tantrābhidhāna 2.28.89
- तन्त्राभिधान डडः स्मृतिर्दारुको नन्दिरूपिणी योगिनी प्रियः । ----------------------------------- कौमारी शङ्करस्त्रासस्त्रिवक्त्रो(क्रो) नदको ध्वनिः ॥ ९५ ॥ Tantrābhidhāna 2.30.95
- तन्त्राभिधान ढदक्षपादाङ्गुलेर्मूलं सिद्धिदण्डो विनायकः । प्रहासस्त्रिभवा ऋद्धिर्निर्गुणो निधनं ध्वनिः ॥ ९८ ॥ Tantrābhidhāna 2.31.98
- तन्त्राभिधान टटङ्कारे टः पृथिव्यां टा टो ध्वनौ च प्रकीर्त्तितः । ठो महेश्वर आख्यातः शून्ये च ठः प्रकीर्त्तितः ॥ १६ ॥ Tantrābhidhāna 3.16
- तन्त्राभिधान डबृहद्ध्वनौ च ठः प्रोक्तस्तथा चन्द्रस्य मण्डले । ड-कारः शङ्करः प्रोक्तस्त्रासध्वन्योः प्रकीर्त्तितः ॥ १७ ॥ Tantrābhidhāna 3.17
- तन्त्राभिधान ढ----------------------------------- ढ-कारः कीर्त्तिता ढक्का निर्गुणे च ध्वनावपि । ण-कारः कीर्त्तितो ज्ञाने निर्णयेऽपि प्रकीर्त्तितः ॥ १८ ॥ Tantrābhidhāna 3.18
- त्रिकाण्डशेष रसनगतौ च यानं योनिस्तूत्पत्तिस्थाने भगेऽपि च । रसनन्तु ध्वनौ स्वादे रसज्ञारास्नयोः स्त्रियाम् ॥ २५५ ॥ Trikāṇḍaśeṣa 3.3.255
- त्रिकाण्डशेष टङ्कारनदप्रभेदे वाद्ये च झर्झरोऽथ गुणध्वनौ । प्रसिद्धावपि टङ्कारस्तारोऽत्युच्चस्वरे त्रिषु ॥ ३५२ ॥ Trikāṇḍaśeṣa 3.3.352
- वैजयन्ती शब्दशब्दोऽक्षरे यशोगीत्योर्वाक्ये खे श्रवणे ध्वनौ । शंकुः पत्रसिराजाले कीलेऽस्त्रे मेढ्रसंख्ययोः ॥ ५९ ॥ Vaijayantī 6.1.59
- वैजयन्ती रणराजते भूषणे रूप्यं रजते हेम्नि चाहते । त्रिषु प्रशस्तरूपेऽथ रणोऽस्त्री युधि ना ध्वनौ ॥ ६८ ॥ Vaijayantī 6.5.68
- वैजयन्ती रुवथरुचको भूषणे दन्ते रुवथः कुक्कुटे ध्वनौ । वञ्चथः कोकिले काले वर्तकोऽश्वखुरे खगे ॥ ६४ ॥ Vaijayantī 7.1.64