कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

नैष्किक

naiṣkikaपुं · masc.

In 10 kośas: 11 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.723 · p. 30
भौरिकः कनकाध्यक्षो रूप्याध्यक्षस्तु नैष्किकः ॥ ७२३ ॥
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामशिलोञ्छ Abhidhānacintāmaśiloñcha · जिनदेवमुनीश्वर मर्त्यकाण्डः Abhidhānacintāmaśiloñcha 3.62 · p. 3
हेमाध्यक्षे हैरिकोऽपि टङ्कपतिस्तु नैष्किके ॥ ६२ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.7
भौरिकः कनकाध्यक्षो रूप्याध्यक्षस्तु नैष्किकः ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.14 · p. 90
स्वर्णाध्यक्षो भौरिकः स्यात् हेरिकोऽप्यथ नैष्किकः ।रौप्याध्यक्षष्टङ्कशाली टङ्कपर्यायतः पतिः ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.41 · p. 248
देशाध्यक्षो दैशिकः स्यादथ भौरिक-हैरिकौ ।स्वर्णाध्यक्षो नैष्किकस्तु रूप्याध्यक्षोऽथ कौषिकः ॥ ४१ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.72 · p. 289
निष्केण नैष्किकं क्रीतं तथा परमनैष्किकम् ।पाणिकं पादिकं च स्यात्प्रास्थिकं द्रौणिकं तथा ॥ ७२ ॥
अनुष्टुप्
genderविadj.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.255 · p. 57
भौरिकः कनकाध्यक्षे रूप्याध्यक्षे तु नैष्किकः ।स्यादन्तर्वंशिकश्चान्तःपुरे चाधिकृतः स्मृतः ॥ २५५ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1180 · p. 184
रूप्याध्यक्षस्तु स एव टङ्कपतिर्हि नैष्किकः ॥ ११८० ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.139 · p. 120
तथैव रजताध्यक्षे रूपाध्यक्षोऽपि नैष्किकः ॥
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1295 · p. 158
रूप्याध्यक्षो नैष्किकः स्यात् षण्डवर्षवरौ समौ ।अन्तःपूरे योऽधिकृतः स्यादन्तर्वेशिकश्च सः ॥ १२९५ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.21 · p. 105
रजते नैष्किको ग्रामे स्थायुको हेम्नि भौरिकः ।महानसे पौरोगवो दण्डपालोऽखिल बले ॥ २१ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.