षण्ड
ṣaṇḍaपुं · masc.In 19 kośas: 38 synonym verses, 11 as a nānārtha head word, 24 as a meaning of another word.
अरण्यमटवी सत्त्रं वार्क्षं च गहनं झषः ।कान्तारं विपिनं कक्षः स्यात्षण्डं काननं वनम् ॥ १११० ॥दवो दावः प्रस्तारस्तु तृणाटव्यां झषोऽपि च ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प्र (wrong syllable)
genderक्लीneut.
genderपुंmasc.
genderपुंक्लीm. n.
genderपुंmasc.
क्षुत् क्षुधा तृट् तृषा तर्षो जमनं जेमनं भवेत् ।ऋषभो वृषभः शण्ढः शण्डः षण्डश्च दृश्यते ॥ २३९ ॥
अनुष्टुप्
genderपुंmasc.
नरः पुमांसः पुरुषा अस्त्रियां तु नपुंसकम् ।पुंसि क्लीबे पण्डषण्डषाण्डाः पाण्डः पुनः स्त्रियाम् ॥ ४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
चतुर्नवतिसंख्याकाः पुंस्त्वदोषास्तु पञ्चधा ।कुम्भीक इषको सेक्यः सुगन्धी षण्ड इत्यमी ॥ ३५२ ॥
अनुष्टुप्
genderपुंmasc.
अथ स्याद्गोपतिः शण्डः शण्ठः षण्डश्च षण्ढवत् ।महान्महोक्षश्चोक्षतरश्चाथापि स्याज्जरद्गवे ॥ ४४१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
अरण्यमस्त्री कान्तारं षण्डो वाप्यटवी स्त्रियाम् ।क्लीबे चेल्कं वनं सत्रं गहनं विपिनं तलम् ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
विसंडकं तु लविलं शृङ्गाटो वारिकुब्जकः ।अस्त्रियां शण्डषण्डौ द्वावब्जादीनां कदम्बके ॥ १५३ ॥
अनुष्टुप्
genderपुंक्लीm. n.
त्रय्यां मृणालं बिस-तन्तुले नभःक्लीबे लिशं चाथ गणेम्बुजादिनः ।षण्डश्च शण्डो गदितौ किलास्त्रियांकन्दः शिफा स्त्री करहाट-कर्दटौ ॥ १२ ॥
इन्द्रवंशा
genderपुंक्लीm. n.
अरण्यमस्त्री विपिनं कान्तारं समजं त्रसम् ।गहनं गुहिनं वार्क्षं सत्रं षण्डं च काननम् ॥ १ ॥
अनुष्टुप्
genderक्लीneut.
न स्त्री नपुंसकः क्लीबः षण्ढो ना षण्ड-षण्डकौ ।तृतीया प्रकृतिर्या स्यात्स्त्रियः प्राया दशावयः ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
षण्डस्तु गोपतिः श्रीमान् स कर्मचर ईश्वरः ।कण्ठः कण्ठविहीनः स्यात्षण्डस्तु छिन्नपुच्छकः ॥ ९२ ॥
अनुष्टुप्
genderपुंmasc.
प्रस्तारो गहनं षण्डं दवदावावपीरितौ ।सत्रं क्लीबेऽटवी स्त्री स्याद् झषः स्यात्तृणयुग्वने ॥ २० ॥
अनुष्टुप्
genderक्लीneut.
नस्योतो नस्तितस्तुल्यौ कूटो भग्नविषाणकः ।इड्वरो गोपतिः षण्डो मदकोहलगोवृषौ ॥ १६८ ॥
अनुष्टुप्
genderपुंmasc.
खण्डवारुण्डकाण्डानि मण्डषण्डाण्डदण्डकाः ।आक्रीडवारबाणौ च बाणकार्षांपणव्रणाः ॥ १३७ ॥
अनुष्टुप्
genderपुंक्लीm. n.
इड्वरश्चेट्चरः षण्ड इत्वरो ढङ्कगोपती ।वृषस्कन्धे वहश्चाथ नस्योतो नस्तितोऽपि च ॥ ४९० ॥
अनुष्टुप्
genderपुंmasc.
पद्ममूलदलादीनां समूहो षण्डमस्त्रियाम् ।पद्मपत्रे तु निःशकं बाह्यं वैधं च वर्तुलम् ॥ ८५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 श (wrong syllable)
genderपुंक्लीm. n.
संकुचितं मीलितं च निद्राणं मुद्रितं स्मृतम् ।षण्ड आराम उद्यानं विपिनं काननं वनम् ॥ १३९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 चि (wrong syllable)
genderपुंmasc.
genderक्लीneut.
शण्डः षण्डस्तथा सण्डो गोवृषो गोपतिः पुनः ॥ २२७२ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
अथ पद्मादिसन्दोहे षण्डः शण्डोऽपि न स्त्रियाम् ।करहाटः शिफाकन्दं शिफाकन्दोऽस्य मूलके ॥
अनुष्टुप्
genderपुंक्लीm. n.
अथ षण्टो वर्षवरो द्वयमन्तर्महल्लके ।जात्या न दुष्टे कार्ये च स्त्रीस्वभावे नपुंसके ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 व (wrong syllable)
genderपुंmasc.
वातूलो वातुलो वातसमूहेऽथासहेऽपि च ।वातविकारस्याऽरण्ये षण्डं शण्डं वनं वनी ॥ १२० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 त (wrong syllable)
genderक्लीneut.
शाङ्करश्च वृषा नान्तो वृषोऽपि वृषभर्षभौ ।शण्डे षण्डोऽपीड्वरः स्यादित्वरः विद्धनासिके ॥ ३०४ ॥
अनुष्टुप्
genderपुंmasc.
चक्रवालं चक्रवाडं चक्रं च चय-संचयौ ।शण्ड-षण्डौ केदाराणां गणे कैदारकं मतम् ॥ २६ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 के (wrong syllable)
genderपुंmasc.
षण्डमस्त्री शिफाकन्दः शालूकं नालमस्त्रियाम् ।मृणालं तु त्रिषु बिसं किञ्जल्कः केसरोऽस्त्रियाम् ॥ ३६२ ॥
अनुष्टुप्
genderपुंक्लीm. n.
आर्षभ्यः षण्डतायोग्यः षण्डो गोपतिरिट्चरः ।स्कान्धिकः स्कन्धवाहः स्यात् समौ नस्योतनस्तितौ ॥ ७६१ ॥
अनुष्टुप्
genderपुंmasc.
रूप्याध्यक्षो नैष्किकः स्यात् षण्डवर्षवरौ समौ ।अन्तःपूरे योऽधिकृतः स्यादन्तर्वेशिकश्च सः ॥ १२९५ ॥
अनुष्टुप्
genderपुंmasc.
अर्घीशो भैरवः सूक्ष्मो दीर्घघोणा सरस्वती ।विलासिनी विघ्नकर्त्ता लक्ष्मणो रूपकर्षिणी ।महाविद्येश्वरी षष्ठी षण्डो भूः कान्यकुब्जकः ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
व्रतदिनमासवर्षदलवल्कलकोटरषण्डचामराः ।चन्दनपद्मधर्मकोलाहलकिसलयदेहदोहदाः ॥ १० ॥
metre not recognised
genderपुंक्लीm. n.
सौरभेयो बलीवर्दो बाडबेयश्च शाक्वरः ।षण्डस्तु गोपतिः श्रीमान् डंक इट्वर ईश्वरः ॥ ५३ ॥
अनुष्टुप्
genderपुंmasc.
यस्तु नीलवृषोत्सर्गस्स षण्डो वृषपूतनः ।उद्बंधवृषभश्चायमापिंगलक इत्यपि ॥ १२२ ॥
अनुष्टुप्
genderपुंmasc.
स्थापत्यकञ्चुक्यार्याश्च षण्डो वर्षवरः समौ ।प्रदेष्टा पञ्चजनीनो भाण्डागारिक इत्यपि ॥ २३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ज (wrong syllable)
genderपुंmasc.
जर्तिलोऽरण्यजतिलो जालकश्चूलिकस्तिलः ।कृष्णेऽस्मिंस्तिलके (षण्डे) पिञ्जपेजौ तिलात् परौ ॥ ३९ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
पूरुषो नाप्यथ क्लीबः पण्डः षण्डो नपुंसकम् ।तृतीयाप्रकृतिश्चाथ पोटा स्त्रीपुंसलक्षणा ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
पशूनां समजोऽन्येषां समाजो धीमतां सभा ।उद्भिज्जानां तु षण्डोऽस्त्री स्कन्धोऽश्वनरहस्तिनाम् ॥ ५ ॥
अनुष्टुप्
genderपुंक्लीm. n.
संघातेऽपि ग्रामो भूतेन्द्रियशब्दविषयकरणानाम् ।षण्डश्च पादपानां स्कन्धः करिनरतुरङ्गाणाम् ॥ ८११ ॥
आर्या
meaningsपादपसङ्घात
चण्डी तु हिंस्राम्बिकयोश्च चण्डास्याच्छङ्खपुष्प्यां गणहासके च ।स्याद्गोपतौ नाम्बुरुहादिसंघेषडे च षण्डो विपिने च नस्त्री ॥ ७४ ॥
उपजातिः
इत्यन्येषां मतं सोऽयं मूर्धन्योष्मादिरीरितः ।एष वर्षवरे नीलवृषोत्सर्गे च कीर्तितः ॥ १२३ ॥
अनुष्टुप्
doubtful
शण्डः परार्धसंज्ञायाः सङ्ख्याया द्विगुणात्मनि ।सङ्ख्यायां वैजयन्ती तु तत्सङ्ख्येयेषु वस्तुषु ॥ ७०८ ॥
अनुष्टुप्
doubtful
अस्त्री वृक्षसमूहे स्यात् पद्मादीनामितीतरे ।शाश्वतस्तु गवां पत्यौ पुंस्याह ष्ट्यूमवाक् पुनः ॥ १४३८ ॥
अनुष्टुप्
meaningsवृक्षसमूह
doubtful
सदो य…?…?…न्द्वयस्य यः ।पश्चाद्देशस्तत्र शण्डो गोष्ठ्यां तु स्त्रीनपुंसकम् ॥ १४८० ॥
metre not recognised
meaningsगोष्ठी
doubtful
षण्ड as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् क्लीबक्लीबं नपुंसके षण्डे वाच्यलिङ्गमविक्रमे । Amarakośa 3.3.408
- धरणिकोश गोपतिगोपतिः शंकरे षण्डे भास्करे पार्थिवेऽपि च । निर्ऋतिश्चापि दिक्पाले अलक्ष्म्यां निरुपद्रवे ॥ Dharaṇikośa 15.2.48
- कोषकल्पतरु गोपतिचापे स्यात्तृणताथ गोपतिरपि क्ष्मापे च शण्डे शिवे सूर्ये[296b]श्रीपतिरच्युते स्मरहरेऽथो शिल्पिभेदे नरि । जीवेऽथ स्थपतिश्च यष्टरि भवेत् सूते तथा सौविदे । कालेन्द्वोरमतिः स्मरे तु रमतिः कान्तेऽपि काले दिवि ॥ २९ ॥ Koṣakalpataru 6.16.29
- नानार्थार्णवसंक्षेप विश्परमात्मनि नाथ स्त्री विज्ज्ञाने ज्ञातरि त्रिषु । ना रौहिणेये विट् तु स्त्रीशण्डयोर्गूढवाचि(नि?नी) ॥ १८ ॥ Nānārthārṇavasaṃkṣepa 1.5.18
- नानार्थार्णवसंक्षेप कर्षदम्भे पापाशये पापे स्याद्विष्ठौषधपिष्टयोः । किट्टेऽप्यथ पलोन्मानचतुर्भागे नृशण्डयोः ॥ १४१ ॥ Nānārthārṇavasaṃkṣepa 2.5.141
- नानार्थार्णवसंक्षेप कटलवणे त्वब्धिजे क्लीबे वाक्पतिस्तु नृशण्डयोः । अविशेषेण पठति श्रोण्यां तु स्यात् कटी स्त्रियाम् ॥ १५८ ॥ Nānārthārṇavasaṃkṣepa 2.5.158
- नानार्थार्णवसंक्षेप दृढबलवत्यप्यथ श्लेष्मसंज्ञे चर्मविकारके । नृशण्डयोरथो दृश्या स्त्री सेवायामथ त्रिषु ॥ ६१३ ॥ Nānārthārṇavasaṃkṣepa 2.5.613
- नानार्थार्णवसंक्षेप नेतृनीतिक्रियाकर्तरि च प्रभौ चाथ नृशण्डयोः । पद्मं सरोरुहे क्लीबं सङ्ख्याभेदे तथेन्द्रिये ॥ ७०१ ॥ Nānārthārṇavasaṃkṣepa 2.5.701
- नानार्थार्णवसंक्षेप फुल्लआश्चर्ये स्याद्विकसितेऽप्यथो विशरणे नपि । निष्पत्तौ चाथ शण्डे स्यात् पुंसि चत्यपरे विदुः ॥ ८३२ ॥ Nānārthārṇavasaṃkṣepa 2.5.832
- नानार्थार्णवसंक्षेप व्रजवया स्त्री तरुशाखायां ना तु गत्यशनादिषु । व्रजस्तु नान्ये षण्डेऽपि गोष्ठे मार्गसमूहयोः ॥ ११७६ ॥ Nānārthārṇavasaṃkṣepa 2.5.1176
- नानार्थार्णवसंक्षेप हस्तिन्तद्वति स्त्री तु दिङ्नद्योरङ्गुलौ चाथ तत् तृणे । शण्डमेके नरे त्वन्ये हस्ती द्वे च मतङ्गजे ॥ १५८६ ॥ Nānārthārṇavasaṃkṣepa 2.5.1586
- नानार्थार्णवसंक्षेप गोपतिगोपतिस्तु रवौ शण्डे शिवे च रभसः पुनः । नमे वन्दिनि गोरङ्कुरित्याह घुटिकः पुनः ॥ ८४ ॥ Nānārthārṇavasaṃkṣepa 3.2.84
- नानार्थार्णवसंक्षेप अक्षरपरमाणौ ब्रह्माणि च प्रणवे तु नृशण्डयोः । त्रिस्त्वक्षरितरि स्याच्चाविद्यमानक्षरे तथा ॥ ७ ॥ Nānārthārṇavasaṃkṣepa 4.7
- नानार्थार्णवसंक्षेप ककुद्मत्ककुद्मान् वृषभे पुंसि षण्डसंज्ञे च गोपतौ । ककुद्मती तु श्रोण्यां स्त्री कण्टको तु पुमानयम् ॥ ४२७ ॥ Nānārthārṇavasaṃkṣepa 4.427
- नानार्थार्णवसंक्षेप ककुदिन्ककुदी तु पुमान् षण्डसंज्ञके गोपतौ त्रि तु । ककुदेन समायुक्ते काञ्चनं तु नपुंसकम् ॥ ४३१ ॥ Nānārthārṇavasaṃkṣepa 4.431
- परमानन्दीयनाममाला ?सूर्ये षण्डेऽथ गोदन्तो दंशिते हरितालके । गोस्तनी च लतावृत्तिर्हारहूरा?पि कथ्यते ॥ १६४ ॥ Paramānandīyanāmamālā 5.9.164
- शब्दरत्नावली पण्डनीडं कुलाये स्थानेऽस्त्री पण्डः षण्डे मतौ स्त्रियाम् । पाण्डुर्ना नृपतौ रोगनागभेदसितेषु च ॥ Śabdaratnāvalī 7.13.18
- शब्दरत्नावली गोपतिगर्म्मुत् धमनहेम्नोः स्त्री गीष्पतिर्गुरुसूरिणोः । गोपतिर्नृपतौ सूर्ये षण्डे स्मरहरे पुमान् ॥ Śabdaratnāvalī 7.16.100
- शब्दरत्नाकर पद्मपद्मोऽस्त्री पङ्कजे ना तु निधौ व्यूहेऽहिपुंगवे । स्त्री श्रियामौषधे षण्डः संख्यायां गजबिन्दुषु ॥ १९५५ ॥ Śabdaratnākara 4.1.1955
- शब्दरत्नाकर कबन्धकबन्धोऽस्त्र्यपमूर्ध्न्यङ्गे षण्डेंऽभस्याशरे पुमान् । कादम्बः सायके हंसे कदम्बः शरभूरुहोः ॥ २०६९ ॥ Śabdaratnākara 4.1.2069
- शब्दरत्नाकर संगरषण्डे शमीफलेऽथ स्यात् सारसं सरसीरुहे । जलपक्षिविशेषे ना सरःसंबन्धिनि त्रिषु ॥ २१८५ ॥ Śabdaratnākara 4.1.2185
- त्रिकाण्डशेष पण्डपिण्डः सान्द्रे गृहांशेऽङ्गे पण्डः षण्डे मत स्त्रियाम् । स्तम्बे शस्ते प्रकाण्डोऽस्त्री वरण्डो वदनामये ॥ ११४ ॥ Trikāṇḍaśeṣa 3.3.114
- त्रिकाण्डशेष गोपतिगतिर्यात्रादशोपायाः शण्डः सूर्यश्च गोपतिः । गृही सत्री गृहपतिर्गीतं शब्दितगानयोः ॥ १५५ ॥ Trikāṇḍaśeṣa 3.3.155
- त्रिकाण्डशेष धवलदुकूलं श्लक्ष्णवस्त्रेऽपि चार्द्धे पत्रे छदे दलम् । धवला गवि ना शण्डे शुक्लसुन्दरयोस्त्रिषु ॥ ३९७ ॥ Trikāṇḍaśeṣa 3.3.397