पङ्कार
paṅkāraपुं · masc.In 4 kośas: 1 synonym verse, 3 as a nānārtha head word, 2 as a meaning of another word.
अकालजलकेशः स्यात्पङ्कारो जलनीलिका ।हठपर्णी च कावारं जलशूक-जलाञ्चलम् ॥ ३८ ॥
अनुष्टुप्
genderपुंmasc.
सम्मार्जन्यवगुण्ठितेऽनलचटत्कारे तथा संकरःस्त्री पुंदूषितकन्यकास्वथ भवेत्पङ्कार आरोहणे ।सेतौ शैवलवारिकुब्जकगतः संस्कार उक्तो बुधैःसंकल्पप्रतियत्नयोरनुभवेऽथो पक्षिणां पञ्जरे ॥ ५१ ॥
शार्दूलविक्रीडितम्
पङ्कारः सेतुसोपानशैवलेष्वम्बुकुब्जके ।प्रसरः प्रणये वेगे समूहेऽपि च कुत्रचित् ॥
अनुष्टुप्
पङ्कार as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप कर्दमदृश्यते च जटाजूटमात्रे स्याच्च वराटके । कर्दमस्त्वत्र पङ्कारे पङ्के च रभसोदितः ॥ ६४ ॥ Nānārthārṇavasaṃkṣepa 3.2.64
- शब्दरत्नावली कर्कटस्त्रियां वान्नाकायान्तु(?) भुजङ्ग्यां शाल्मलीफले । कर्कटः पङ्कपङ्कारकरहाटेषु(?) कथ्यते ॥ Śabdaratnāvalī 7.11.37