All kośas › Nānārthārṇavasaṃkṣepa
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa
5,800 verses · 33,357 words tagged · 12,179 marked doubtful (dashed)
त्र्यक्षरकाण्डः · पुंल्लिङ्गाध्यायः (1/3)
इति त्र्यक्षरकाण्डे स्त्रीलिङ्गाध्यायः ।
अथ त्र्यक्षरकाण्डे पुंल्लिङ्गाध्यायः ।
अथ त्र्यक्षरपुंल्लिङ्गशब्दाध्यायः प्रणेष्यते ।अथ पुंस्यर्णवोऽम्भोधौ तथा षण्णवतिस्वरे ॥ १ ॥
3.2.1 · p. 10
अनुष्टुप्
छन्दोभेदेऽन्वयस्त्वन्ववायेऽनुगमने तथा ।सम्बन्धे चात्ययस्तु स्यान्मरणे दोषदण्डयोः ॥ २ ॥
3.2.2 · p. 11
अनुष्टुप्
अतिक्रमे च कृच्छ्रे च मृग्यं त्वर्थान्तरं बुधैः ।'नानात्ययानां वृक्षाणां' कामा 'नानात्यया' इति ॥ ३ ॥
3.2.3 · p. 11
अनुष्टुप्
एवमाद्यौपनिषद्प्रयोगेषु मनीषिभिः ।अनलश्चित्रके वह्नावनयस्तु विपद्यपि ॥ ४ ॥
3.2.4 · p. 11
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
व्यसनेष्वशुभे दैवेऽप्यनीतौ च चतुर्ष्वपि ।स्यादभावस्त्वसत्तायां मृत्यौ च रभसोऽपठीत् ॥ ५ ॥
3.2.5 · p. 11
अनुष्टुप्
अस्य विष्णोश्च भावेऽथो अलिन्दः प्रधणाह्वये ।गृहैकदेशे विद्वांस्तु व्याचष्टे शाकटायनः ॥ ६ ॥
3.2.6 · p. 11
अनुष्टुप्
तद्यथा भोजनस्थान इत्यथ स्यात् प्रसाधने ।अलुमोऽग्नौ नापितेऽथो अञ्जलिः करसम्पुटे ॥ ७ ॥
3.2.7 · p. 11
अनुष्टुप्
तथा कुडुंबसंज्ञे च परिमाणेऽर्दतिः पुनः ।अग्नौ च शास्त्रभेदे च याच्ञायामवधिः पुनः ॥ ८ ॥
3.2.8 · p. 11
अनुष्टुप्
विवरे सीम्नि काले चाप्यथर्वा त्वृषिभेदके ।वेदभेदे च तत्रत्यमन्त्रेष्वपि तथास्य च ॥ ९ ॥
3.2.9 · p. 11
अनुष्टुप्
अध्येतर्यङ्गिरास्तु स्यादृषिभेदे तथास्य च ।वश्येष्वङ्गिरसो भूम्नि शाकटायनदृक् पुनः ॥ १० ॥
3.2.10 · p. 11
अनुष्टुप्
बृहस्पतावङ्गिरस प्रोक्तवानथ कथ्यते ।अनेहा काल इन्द्रे चाप्यनेधास्त्वग्निवातयोः ॥ ११ ॥
3.2.11 · p. 11
अनुष्टुप्
आम्नायस्तु भवेद्वेदे सम्प्रदायान्ववाययोः ।पाठाभ्यासे चागमस्तु शास्त्रेऽप्यागमनेऽपि च ॥ १२ ॥
3.2.12 · p. 11
अनुष्टुप्
उपदेशेऽप्यथाकर्षो द्यूते च द्यूतपाशके ।आकृष्टौ शारिफलके हस्तिनोऽवयवान्तरे ॥ १३ ॥
3.2.13 · p. 12
अनुष्टुप्
स चावयव एष स्यादूर्ध्वदेश कराङ्गुलेः ।विभज्य सप्तधा तेषां भागानामादितो हि यः ॥ १४ ॥
3.2.14 · p. 12
अनुष्टुप्
द्वितीयभागस्तत्र स्यात् पार्श्व आनर्तवाक् पुनः ।नृत्तस्थाने जनपदप्रभेदे च जने युधि ॥ १५ ॥
3.2.15 · p. 12
अनुष्टुप्
आवर्त्तोऽम्भोभ्रमे रोमप्रभृतेर्वलिते चये ।आवर्त्तनायामावृत्तावानन्दस्तु प्रभौ नृपे ॥ १६ ॥
3.2.16 · p. 12
अनुष्टुप्
मित्रे च रभसस्त्रातर्याह्वाने रुदिते युधि ।आरावेऽन्ये दारुणे च स्यादाकल्पस्तु कल्पने ॥ १७ ॥
3.2.17 · p. 12
अनुष्टुप्
वेषेऽप्याहुरथारम्भ उद्यमेऽपि वधेऽपि च ।उपक्रमे च निर्माणेऽथालम्भः स्पर्शने वधे ॥ १८ ॥
3.2.18 · p. 12
अनुष्टुप्
आकरस्तु समूहे स्यादुत्पत्तिस्थान एव च ।स्याद्रत्नलवणादीनामाकारस्त्वात्मवैकृते ॥ १९ ॥
3.2.19 · p. 12
अनुष्टुप्
आह्वाने चाकृतौ चापि स्यादथाहार ओदने ।आनीतौ भक्षणे चाथो आरोहो दैर्ध्य उन्नतौ ॥ २० ॥
3.2.20 · p. 12
अनुष्टुप्
द्रुमाङ्गेऽप्यवरोहाख्ये हस्तिवाहे च कीर्तितः ।श्रोण्यामारोहणेऽन्ये तु वरारोहाकटिस्थले ॥ २१ ॥
3.2.21 · p. 12
अनुष्टुप्
आग्रहस्तु स्वीकरणे निर्बन्धे निग्रहेऽपि च ।आसङ्गे चाप्यथानाहो बन्धने चोदरस्य च ॥ २२ ॥
3.2.22 · p. 12
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्वी (wrong syllable)
अधोवृद्ध्यात्मके व्याधावारट्टास्तु बहुष्वपि ।नीवृद्भेदे द्वयोस्तु स्यात् तद्देशोद्भूतजन्तुषु ॥ २३ ॥
3.2.23 · p. 12
अनुष्टुप्
तद्देशोद्भवघोटे स्यादाघाटः ----- ।आघातस्ताडने घातेऽध्यापातः पतने तथा ॥ २४ ॥
3.2.24 · p. 13
अनुष्टुप्metre not read in every line
तदात्वे चाप्यापतनेऽध्याधारस्त्वालवालके ।अम्बुबन्धेऽधिकरणे वाप्यां त्वजय उक्तवान् ॥ २५ ॥
3.2.25 · p. 13
अनुष्टुप्
आराम स्यादुपवने विरामे परिकीर्तितः ।आयासस्तु प्रसन्ने स्यात् क्लेशे चायामवाक् पुनः ॥ २६ ॥
3.2.26 · p. 13
अनुष्टुप्
दैर्घ्ये रज्जुपटादीनामभितश्च विकर्षणे ।आचामस्त्वोदनस्य स्यान्निःस्रावे मासराह्वये ॥ २७ ॥
3.2.27 · p. 13
अनुष्टुप्
आचान्तौ चाप्यथावाप आलवाले तथैव च ।प्रक्षेपे न्यसने त्वन्येऽथाश्वासो विश्रमे तथा ॥ २८ ॥
3.2.28 · p. 13
अनुष्टुप्
ग्रन्थावच्छेदभेदे च काव्यादीनां प्रकीर्तितः ।आशुक्षेपेऽप्यथातङ्को रोगे सन्तापशङ्कयोः ॥ २९ ॥
3.2.29 · p. 13
अनुष्टुप्
आलेपः पुनरालिप्तावनुलेपनवस्तुनि ।आक्षेपः पुनराकृष्टौ निन्दाभर्त्सनयोरपि ॥ ३० ॥
3.2.30 · p. 13
अनुष्टुप्
वातव्याधिविशेषेऽथो परिपूर्णत्वयत्नयोः ।आभोगो वारुणच्छत्रेप्यामोदः पुनरुच्यते ॥ ३१ ॥
3.2.31 · p. 13
अनुष्टुप्
हर्षे गन्धविशेषे च स च गन्धोऽयमीदृशः ।विमर्दोत्थः परिमलो गन्धो जनमनोहरः ॥ ३२ ॥
3.2.32 · p. 13
अनुष्टुप्
स एव योऽतिनिर्हारी स स्यादालोकवाक् पुनः ।उद्द्योते दर्शनेऽपि स्यादिति प्राहुर्मनीषिणः ॥ ३३ ॥
3.2.33 · p. 13
अनुष्टुप्
आयोगोऽव्यापृतौ गन्धमाल्याधुपहृतौ तथा ।आजीवस्तु क्षपणके जीविकायां च कीर्तितः ॥ ३४ ॥
3.2.34 · p. 13
अनुष्टुप्
आपीडः शेखरे जातिच्छन्दोभेदेऽप्यथासवः ।पूगवृक्षे तथा मद्यसन्धाने यस्य चापरम् ॥ ३५ ॥
3.2.35 · p. 14
अनुष्टुप्
नाम स्यादासुतिरिति तत्र मद्यान्तरे तथा ।अपक्वेक्षुरसैः सिद्धे स्यादाबन्धन्तु बन्धने ॥ ३६ ॥
3.2.36 · p. 14
अनुष्टुप्
योक्त्रे च स्यादथारक्षो हस्तिनः कम्भयोरथ ।प्रदेशे नगरादीनां चोरादिपरिहारके ॥ ३७ ॥
3.2.37 · p. 14
अनुष्टुप्
आत्मभूर्मन्मथे विष्णौ विरिञ्चे चाप्यथोत्सवः ।उत्सेकामर्षयोरिच्छाप्रसरे च महे तथा ॥ ३८ ॥
3.2.38 · p. 14
अनुष्टुप्
रभसस्तूत्सुके स्माह तदेतदसमञ्जसम् ।उत्सेधो मकुटच्छत्रध्वजेषूष्णीषकाययोः ॥ ३९ ॥
3.2.39 · p. 14
अनुष्टुप्
प्रसोमदेववर्गस्य चतुर्थे साम्नि चोन्नतौ ।उत्सङ्गः पुनरङ्के स्याद् गजस्यावयवान्तरे ॥ ४० ॥
3.2.40 · p. 14
अनुष्टुप्
गजस्य पूर्वपादस्य पिण्डिकान्तं नखात् परम् ।विभज्य सप्तधा तत्र क्रमाद्भागश्चतुर्थकः ॥ ४१ ॥
3.2.41 · p. 14
अनुष्टुप्
अधः प्रारभ्य जानीयात् तच्चाप्यवयवान्तरम् ।अग्न्याधाने च रभसोऽथोत्सर्गस्त्यागदानयोः ॥ ४२ ॥
3.2.42 · p. 14
अनुष्टुप्
सामान्यवाक्येऽथोद्घातः कुटुङ्गे समुपक्रमे ।स्यात् पादस्खलने चापि स्यादुद्धननकर्मणि ॥ ४३ ॥
3.2.43 · p. 14
अनुष्टुप्
गजस्य कर्णमूलाच्च चूलिकासंज्ञकात् परे ।प्रदेशे मानभेदे च प्राणायामस्य कालतः ॥ ४४ ॥
3.2.44 · p. 14
अनुष्टुप्
तस्य लक्षणमप्युक्तं योगविद्भिः पुरातनैः ।चोटिका त्रि परामृश्य जानु स्फोटक्रियाथ ताः ॥ ४५ ॥
3.2.45 · p. 14
अनुष्टुप्
षड्त्रिंशन्मन्द उद्घातो द्विगुणत्रिगुणौ पुनः ।उत्पातस्तूदितः सद्भिरुपप्लव इति श्रुतेः ॥ ४६ ॥
3.2.46 · p. 14
अनुष्टुप्
अजन्ये स्याच्चोत्पतन उच्छ्वासः पुनरुच्यते ।ग्रन्थावच्छेदभेदे स्यात् कचिदुच्छ्वसनेऽपि च ॥ ४७ ॥
3.2.47 · p. 15
अनुष्टुप्
उत्त्रासस्तु भये सप्तदशारदरत्नेरत्निके ।यूपस्य मूलादारभ्य द्वितीयेऽथ विवाहके ॥ ४८ ॥
3.2.48 · p. 15
अनुष्टुप्metre not read in every line
उद्वाह ऊर्ध्ववहने पुत्रेऽप्युद्धावाक् पुनः ।ऋणे चावृद्विके किञ्च भवेदुद्धरणेऽपि च ॥ ४९ ॥
3.2.49 · p. 15
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
उद्दालस्तु भवेद्वृक्षे श्लेष्मातक इति श्रुतेः ।उन्नते मुकुलाकारे मत्स्यग्रहनसाधने ॥ ५० ॥
3.2.50 · p. 15
अनुष्टुप्
दाशानां स्यादथोद्गीतः साम्नि स्यात् पञ्चधा कृते ।द्वितीयभक्तौ विद्वांस्तु व्याचष्टे शाकटायनः ॥ ५१ ॥
3.2.51 · p. 15
अनुष्टुप्
सामगाने शुनामूर्ध्वमुखानां च विरावके ।उदर्को भाविकालस्थफलेऽन्तावयवेऽपि च ॥ ५२ ॥
3.2.52 · p. 15
अनुष्टुप्
रभसस्त्वाह मदनकण्टके शब्दवित्तमः ।उदयस्तूदयाद्रौ स्याद् धनोत्पत्तौ तथोद्गमे ॥ ५३ ॥
3.2.53 · p. 15
अनुष्टुप्
उन्नतो चाह रभस उपरिस्थेऽप्यधीयते ।उच्चयो वस्त्रनीव्यां स्याद्धस्तादाने च चोर्यत ॥ ५४ ॥
3.2.54 · p. 15
अनुष्टुप्
अधःस्थितम्य पुष्पादेरूर्ध्वमुच्चिक्यिरे यथा ।उपायः पर्वभेदे स्यात् पूर्वस्मिन् सामपर्वणाम् ॥ ५५ ॥
3.2.55 · p. 15
अनुष्टुप्
निधनात् कर्मणा सिद्धेर्लघुमार्गणसाधने ।राज्ञां च सामदानादौ विशेषाच्चोपसर्पणे ॥ ५६ ॥
3.2.56 · p. 15
अनुष्टुप्
उषवस्तु रवौ दाहेऽप्युपधिः पुनरुच्यते ।उपधानक्रियायां च रथस्यावयवान्तरे ॥ ५७ ॥
3.2.57 · p. 15
अनुष्टुप्
औपधेयसमाख्ये च व्याजे चोपाधिवाक् पुनः ।कुटुम्बव्यापृते धर्मचिन्तायां च यदप्यदः ॥ ५८ ॥
3.2.58 · p. 15
अनुष्टुप्
कार्यान्वयव्यवच्छेत्तृ तत्राथोदयनोऽपठीत् ।साधनाव्यापकत्वे स्यात् समव्याप्तिकता तु या ॥ ५९ ॥
3.2.59 · p. 16
अनुष्टुप्
साध्येनायमुपाधिः स्यादित्येवमथ ऋक्षरः ।कण्टके च जलस्थानेऽप्यृत्विज्यपि तथापरे ॥ ६० ॥
3.2.60 · p. 16
अनुष्टुप्
पठन्ति तोयवारायामित्येधितुपदं पुनः ।अग्नौ समुद्रे शैले च ककुभस्त्वर्जुनद्रुमे ॥ ६१ ॥
3.2.61 · p. 16
अनुष्टुप्
वीणाप्रसेवके गेयभेदे च कलमः पुनः ।लेखन्यामङ्कुरे शालिप्रभेदे तस्करेऽपि च ॥ ६२ ॥
3.2.62 · p. 16
अनुष्टुप्
कल्लोलस्तु महत्यूर्मौ शत्रौ च रभसोदितः ।कपर्दस्तु जटाजूटे देवदेवस्य शूलिनः ॥ ६३ ॥
3.2.63 · p. 16
अनुष्टुप्
दृश्यते च जटाजूटमात्रे स्याच्च वराटके ।कर्दमस्त्वत्र पङ्कारे पङ्के च रभसोदितः ॥ ६४ ॥
3.2.64 · p. 16
अनुष्टुप्
कलङ्कस्त्वपवादे च चिह्ने च कलहः पुनः ।युद्धे द्वन्द्वे च करभः पुनः कीर्तित आतपे ॥ ६५ ॥
3.2.65 · p. 16
अनुष्टुप्
तथोक्तो धान्यपवने कटहः पुनरुच्यते ।पर्जन्ये कर्णवति कालायसविनिर्मिते ॥ ६६ ॥
3.2.66 · p. 16
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
पत्रे तिले करूशास्तु नीवृद्भेदे हि भूमनि ।स्यात्तु क्षत्त्रियभेदेऽसौ सर्वैश्च वचनैर्युते ॥ ६८ ॥
3.2.68 · p. 16
अनुष्टुप्
वैद्यस्तु तण्डुलकणे कश्चिद्ब्रूते तु सज्जनः ।कुसूले रभसस्त्वाह कदरः खदिरे सिते ॥ ६९ ॥
3.2.69 · p. 16
अनुष्टुप्
रोगक्रकचयोश्चाथ कटभेदे कटोलवाक् ।तथा वादित्रभेदे च कर्कारस्तु महीरुहे ॥ ७० ॥
3.2.70 · p. 17
अनुष्टुप्
नवनीतेन मिश्रे च तक्रे नवविलोलिते ।क्षवथुस्तु क्षुते कासे कारुजः पुनरुच्यते ॥ ७१ ॥
3.2.71 · p. 17
अनुष्टुप्
नाकौ च कलभे चापि जानीयात् पण्डितो जनः ।किरणस्त्वश्वरश्मौ च रश्मौ च कथितो बुधैः ॥ ७२ ॥
3.2.72 · p. 17
अनुष्टुप्
किंशारुस्तु शरे धान्यशूके च स्यात् तु कीचकः ।वातोद्भूतस्वनद्वेणौ दैत्यभेदे च यः किल ॥ ७३ ॥
3.2.73 · p. 17
अनुष्टुप्
स्यालो विराटराजस्य तत्र स्यात् कुडुबः पुनः ।परिमाणे पक्षिनीडे कुबेरस्तु द्रुमान्तरे ॥ ७४ ॥
3.2.74 · p. 17
अनुष्टुप्
नान्दीवृक्षाह्वये राजराजे च क्षुरकः पुनः ।कोकिलाक्षाह्वयस्तम्बे तिलकाख्ये च पादपे ॥ ७५ ॥
3.2.75 · p. 17
अनुष्टुप्
कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु ।केनारः कुम्भिनरके शिरःकापालसन्धिषु ॥ ७६ ॥
3.2.76 · p. 17
अनुष्टुप्
इत्येव रभसेनोक्तमुत्तरार्धं च तद्वचः ।कोट्टारो नरके कूपे पुष्करिण्याश्च पाटके ॥ ७७ ॥
3.2.77 · p. 17
अनुष्टुप्
खजकस्त्वपि मन्थाने घृते चाप्यथ खर्बरः ।भिक्षापात्रे कपाले च करे चाप्यथ खण्डिकः ॥ ७८ ॥
3.2.78 · p. 17
अनुष्टुप्
हरेणुसंज्ञधान्ये च कलायाख्ये च धान्यके ।गमथस्तु पथि ज्ञेयो जलधाने च कीर्तितः ॥ ७९ ॥
3.2.79 · p. 18
अनुष्टुप्
गालवस्त्वृषिभेदे च लोध्रे च गिरिणः पुनः ।आचार्ये जलदे ग्रामे रभसस्त्वाह गुण्डकः ॥ ८० ॥
3.2.80 · p. 18
अनुष्टुप्
कलोक्तौ मलिने धूलौ स्नेहपात्र इतीदृशम् ।गोधूमस्तूदितो नागरङ्गधान्यप्रभेदयोः ॥ ८१ ॥
3.2.81 · p. 18
अनुष्टुप्
गोपीथो गोनिपाने च तीर्थे कालान्तरेऽपि च ।गोकीलो मुसले सीरे गोविन्दस्त्वपि शार्ङ्गिणि ॥ ८२ ॥
3.2.82 · p. 18
अनुष्टुप्
गवामधिकृते चाथ गोसर्जः सर्जने गवाम् ।प्रभाते गोरसन्तु स्यात् कालशेये च दध्नि च ॥ ८३ ॥
3.2.83 · p. 18
अनुष्टुप्
गोपतिस्तु रवौ शण्डे शिवे च रभसः पुनः ।नमे वन्दिनि गोरङ्कुरित्याह घुटिकः पुनः ॥ ८४ ॥
3.2.84 · p. 18
अनुष्टुप्
गुल्फे गजतुरङ्गादेः पश्चाचरणबन्धके ।शङ्कावथ स्याज्जम्बीरो जम्भलाह्वयपादपे ॥ ८५ ॥
3.2.85 · p. 18
अनुष्टुप्
तथा मरुवकाख्ये च स्तम्बेऽथ स्याज्जरूढवाक् ।अग्नौ संवत्सरे मासे शरीरेऽप्यथ जर्तिलः ॥ ८६ ॥
3.2.86 · p. 18
अनुष्टुप्
ऋषिभेदे तथैव स्यादरण्यजतिलेऽपि च ।जसुरिस्त्वरणौ पत्रे वह्नौ चाथ जटायुवाक् ॥ ८७ ॥
3.2.87 · p. 18
अनुष्टुप्
रामायणप्रसिद्धे स्याद् गृध्रराजेऽपि गुग्गुलौ ।जनिमा मातापितरावुत्पत्तिस्तनयोऽपि च ॥ ८८ ॥
3.2.88 · p. 18
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ता (wrong syllable)
जागृविस्त्वग्निनृपयोर्जामाता त्वात्मजापतौ ।तथा श्वेततिले चापि सूर्यावर्ते च कश्चन ॥ ८९ ॥
3.2.89 · p. 18
अनुष्टुप्
जीमूतस्तु गिरौ मेघे देवताडाख्ययवल्लिषु ।अथोत्तरार्धं रभसः पपाठ बहुवित्तमः ॥ ९० ॥
3.2.90 · p. 19
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
तमालो वरुणे खड्गे तापिञ्छे तिलकेऽपि च ।तपनस्तु रवौ चन्द्रे घर्मेऽपि च पशावपि ॥ ९१ ॥
3.2.91 · p. 19
अनुष्टुप्
त्र्यङ्गगः शिक्यभेदे च विधौ जन्यां च कीर्तितः ।तन्यतुस्तु रवावुक्तौ गिरौ च परिकीर्तितः ॥ ९२ ॥
3.2.92 · p. 19
अनुष्टुप्
तमोनुत् त्वग्निचन्द्रार्केष्वथ तापिञ्छ इत्ययम् ।सिंहेनोक्तस्तमालद्रौ काकतुण्ड्यां तु यादवः ॥ ९३ ॥
3.2.93 · p. 19
अनुष्टुप्
त्रिवर्गो धर्मकामार्थत्रयेऽप्योषे फलत्रिके ।स्थितिवृद्धिक्षये राज्ञां त्रयाणां वर्ग एव च ॥ ९४ ॥
3.2.94 · p. 19
अनुष्टुप्
त्रिककुत् तु त्रिकूटाख्यपर्वतेऽपि च शार्ङ्गिणि ।त्रिधामा वासुदेवेऽग्नौ दलवस्तु दलान्तरे ॥ ९५ ॥
3.2.95 · p. 19
अनुष्टुप्
धनञ्जयस्तु विदले प्राह प्रहरणेऽप्यथ ।कुलालचक्रे वहने दण्डारः स्थिरयन्त्रके ॥ ९६ ॥
3.2.96 · p. 19
अनुष्टुप्
दरथो विवरे भीत्यां दिक्षु चापि प्रसारणे ।दमुनास्तु रवौ वह्वावुत्तरार्धं तु राभसम् ॥ ९७ ॥
3.2.97 · p. 19
अनुष्टुप्
स्यान्मयूरशिखायां च यवान्यामपि दीव्यकः ।द्रुघणस्तु विरिञ्चे च मुद्गलेऽप्यथ देवलः ॥ ९८ ॥
3.2.98 · p. 19
अनुष्टुप्
ऋषिभेदे तथा देवाजीवे चाप्यथ देवयुः ।धार्मिके याजके होमे दैत्यारिर्विष्णुदेवयोः ॥ ९९ ॥
3.2.99 · p. 19
अनुष्टुप्
नरेन्द्रस्तु नृपे मन्त्रवादिन्याह तु यादवः ।विषवैद्येऽथ नभस ऋतौ व्योम्नि सरित्पतौ ॥ १०० ॥
3.2.100 · p. 19
अनुष्टुप्
नर्मठस्तु भवेत् षिद्गे चूचुके नमसः पुनः ।वने प्रणामे नमुचिः पुनर्दैत्यान्तरे स्मरे ॥ १०१ ॥
3.2.101 · p. 20
अनुष्टुप्
नदनुस्तु मृधे मेघे नाथातस्तु प्रजापतौ ।आहारे चाथ निगमो नगरे च वणिक्पथे ॥ १०२ ॥
3.2.102 · p. 20
अनुष्टुप्
वेदे च निश्चये मार्गे पदानामर्थशासके ।ग्रन्थभेदेऽथ रभसो वणिज्यपि कटेऽपि च ॥ १०३ ॥
3.2.103 · p. 20
अनुष्टुप्
निवापस्तु भवेदुप्तौ पितॄणामपि तर्पणे ।निपातः स्यादधःपाते चादिप्रभृतिषु स्मृतः ॥ १०४ ॥
3.2.104 · p. 20
अनुष्टुप्
निघातस्त्वनुदात्ताख्यस्वरे निहननेऽपि च ।निकायस्तु शरव्ये स्यात् समूहेऽपि सधर्मणाम् ॥ १०५ ॥
3.2.105 · p. 20
अनुष्टुप्
गृहे बहूनामेकत्रकरणे परमात्मनि ।निष्कुटस्तु गृहारामे कवाटे च प्रकीर्तितः ॥ १०६ ॥
3.2.106 · p. 20
अनुष्टुप्
सहस्राशुतुरङ्गे तु निर्नरस्तुषपावके ।निकारस्तु तिरस्कारे धान्यस्योत्क्षेपणेऽपि च ॥ १०७ ॥
3.2.107 · p. 20
अनुष्टुप्
नितम्बस्तु वधूकट्याः पश्चाद्भागे परे पुनः ।श्रोणिमात्रेऽद्रिकटके निर्यूहस्त्वपि शेखरे ॥ १०८ ॥
3.2.108 · p. 20
अनुष्टुप्
द्वारे क्वाथे च निर्यासे नागदन्त्याख्यशङ्कुषु ।निष्क्रमो बुद्धिसामर्थ्ये निर्गतौ दुष्कुले तथा ॥ १०९ ॥
3.2.109 · p. 20
अनुष्टुप्
निर्वेश उपभोगे स्याद् वेतने मूर्च्छनेऽपि च ।स्यान्निषङ्गस्तु तूणीरे सङ्गेऽप्यथ निसर्गवाक् ॥ ११० ॥
3.2.110 · p. 20
अनुष्टुप्
स्वभावे सर्जने न्यासे निर्गमेऽप्यजयोऽपठीत् ।निष्पावः शिम्बिसंज्ञे स्याद् धान्ये ब्रूते तु यादवः ॥ १११ ॥
3.2.111 · p. 20
अनुष्टुप्
श्वेतशिम्बौ च निष्पूतिक्रियायां रभसः पुनः ।कडङ्गरे तथा प्राह पबने निर्विकल्पके ॥ ११२ ॥
3.2.112 · p. 21
अनुष्टुप्
निःस्रावणक्रियायां तु निःस्रावी भक्तमण्डके ।निवेशस्तु विवाहे स्याच्छिबिरे च निवेशने ॥ ११३ ॥
3.2.113 · p. 21
अनुष्टुप्
निवेशने च रचना स्थितिर्निषदने तथा ।निमेषोऽष्टादशांशे स्यात् काष्ठायाश्च निमीलने ॥ ११४ ॥
3.2.114 · p. 21
अनुष्टुप्
निक्षेपस्तु निधाने स्यात् तथोपनिधिसंज्ञके ।द्रव्यभेदे परवशस्थापितेऽथ निषेधवाक् ॥ ११५ ॥
3.2.115 · p. 21
अनुष्टुप्
प्रसोमदेववर्गस्य पञ्चमे साम्नि कीर्तिता ।प्रतिषधे निरोधस्तु रोधे संक्षयनाशयोः ॥ ११६ ॥
3.2.116 · p. 21
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ष (wrong syllable)
निचोलः प्रच्छदपटे कञ्चुके निलयः पुनः ।गृहे निलयने चाथ नियमः स्यान्नियन्त्रणे ॥ ११७ ॥
3.2.117 · p. 21
अनुष्टुप्
आज्ञायां च प्रतिज्ञायां व्रतनिश्चययोरपि ।निवहस्तु समूह स्याद् वायुस्कन्धान्तरेऽपि च ॥ ११८ ॥
3.2.118 · p. 21
अनुष्टुप्
निह्नवस्त्वपलापे स्याद् विश्वासे निकृतावपि ।यादवस्तु सुविश्वासे नमस्कारेऽपि साञ्जलौ ॥ ११९ ॥
3.2.119 · p. 21
अनुष्टुप्