कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

शैवल

śaivalaक्ली · neut.

In 18 kośas: 18 synonym verses, 4 as a nānārtha head word, 17 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.1167 · p. 45
उत्पलानां तु शालूकं नील्यां शैवालशेवले ।शेवालं शैवलं शेपालं जलाच्छूकनीलिके ॥ ११६७ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वारिवर्गः Amarakośa 1.10.38
जलनीली तु शेवालं शैवलोऽथ कुमुद्वती ॥ ३८ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध पातालकाण्डम् Abhidhānaratnamālā (Halāyudha) 3.683 · p. 78
कुमुद्वती कुमुदिनी बुधैः कैरविणी स्मृता ।शेवालं शैवलं प्रोक्तं जलशूकं च नीलिका ॥ ६८३ ॥
अनुष्टुप्
genderक्लीneut.
शेवालमपि शेपालं शेवलं शीवलं तथा ।शैवालं शैवलं चेति षट् समार्थाः प्रकीर्तिताः ॥ ६५ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.151 · p. 360
शेवालश्चापि शेपालः शीपालः शैवलोऽस्त्रियाम् ।शैवलं शीवलं तुल्यं वारिचामरमित्यपि ॥ १५१ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वारिवर्गः Koṣakalpataru 1.7.39 · p. 103
शैवालमस्त्री शेवालं शैवलः शीवलं [66a] समम् ।जलज्वरोऽस्त्री शेपालं जलचामरमीरितम् ।परिवाहः परीवाहो जलोच्छ्वासो जलाशयः ॥ ३९ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नपुंसकाधिकारः Koṣakalpataru 4.3.12 · p. 108
शीवल-शीतल-शैवल-बालंनिर्मल-संकुल-पिञ्जल-मालम् ।दायुफलं सकुतूहल-फालंवार्दलपाकल-भास्मनतूलम् ॥ १२ ॥
दोधकम्
genderक्लीneut.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र लताकाण्डः Nighaṇṭuśeṣa 3.335 · p. 181
वारिपर्ण्यां तु पानीया पृष्ठगा कुम्भिका हटः ।जलशूके जलनीली नीली शैवालशैवले ॥ ३३५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
genderक्लीneut.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त जलभानुः Pañcatattvaprakāśa 3.297 · p. 21
शालूरः पद्मिनीकन्दो मृणालं विसदोरकम् ।किञ्जल्कः केसरोऽज्वांशु नैरं शेवालशैवले ॥ २९७ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.2105 · p. 348
शेवालं जलशूकञ्च शेषालं जलनीलिका ।शेफालं जलनीली च शेवलं शैवलं तथा ॥ २१०५ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.129 · p. 45
शेवलं शैवलश्चापि तथा सलिलकुन्तलम् ॥
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.250 · p. 238
शेवालं शैवलं शैवालं शेपालं च शीवलम् ।शेवलं पाटलसाला वाशुराशु च व्रीहिवत् ॥ २५० ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पातालाध्यायः Śabdaratnākara 1.10.364 · p. 48
मृणालिनीबिसिन्यौ तु कमलिन्यां कुमुद्वती ।कुमुदिन्यां स्त्रियां नीली शेवालं शैवलः पुमान् ॥ ३६४ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तशेषाध्यायः Śabdaratnākara 3.8.1783 · p. 216
नदराजः सिन्धुराजो यादोनाथ इरा जलम् ।विषं च कर्षूः कुल्यायां जलशूकस्तु शैवलम् ॥ १७८३ ॥
अनुष्टुप्
genderक्लीneut.
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 80 · p. 535
शेवलं शैवलो न स्त्री शैवलो जलनीलिका ॥ ८० ॥
genderपुंक्लीm. n.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव वारिवर्गः Trikāṇḍaśeṣa 1.9.29 · p. 29
शैवलो हठपर्णी स्त्री कावारं वारिचामरम् ।पद्मे कवारं पङ्केजं बिसनाभिस्तु पद्मिनी ॥ २९ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव लिङ्गादिसंग्रहः Trikāṇḍaśeṣa 4.4 · p. 269
फेणाभिजनकलापनिकाया हारोच्चारोपलकल्लोलाः ।फालचषालकीलनलतण्डुलशैवलखलविभवप्रसवाश्च ॥ ४ ॥
metre not recognised
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश जलाध्यायः Vaijayantī 4.2.49 · p. 158
शैवलो जलशूरः स्यादवका जलनील्यपि ।शैवालञ्चाथ शेवालं चूर्णाभं लोहितं जले ॥ ४९ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास लपादः Dharaṇikośa 27.1.9 · p. 189
शैवलं पद्मकाष्ठे च कमलं चातकेऽपि च ।अञ्जलिः कुडवेऽपि स्याच्छ्रद्धालुर्दोहदिन्यपि ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ लान्ताः Koṣakalpataru 6.28.35 · p. 349
शैलेयशैवालगतं तु शीवलंस्याच्छैवलं पद्मककाष्ठवाचकम् ।जलाञ्चले ना मलयोद्भवे पुनःस्याच्छीतलं शैलजवाचकं तथा ॥ ३५ ॥
upajati 12
doubtful
शिवकोष Śivakoṣa · शिवदत्तमिश्र लत्रिः Śivakoṣa 23.2.477 · p. 43
शीवलं स्याच्च शीवाले शैलेये च नपुंसकम् ।शैवलः पुंसि शैवाले क्लीबं स्यात्पद्मकाष्टके ॥ ४७७ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश लान्ताः Śabdaratnāvalī 7.28.99 · p. 283
शैवलं पद्मकाष्ठे स्याच्छैवाले तु भवेत्पुमान् ।शौष्कलः स्याच्छुष्कमांसे पणके पिशिताशिनि ॥
अनुष्टुप्

शैवल as a meaning in nānārtha verses