कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnāvalī

शब्दरत्नावली Śabdaratnāvalī

4,306 verses · 34,698 words tagged · 6,000 marked doubtful (dashed)

नानार्थवर्गप्रकाशः · टान्ताः

इति ञान्तवर्गः ॥

टङ्कारे च ध्वनौ टोऽपि पृथिव्यां ठासमीरिता ।
7.11.1 · p. 199
अनुष्टुप्
अट्टं भक्ते पुंसि शुष्के क्षौमेऽत्यर्थे गृहान्तरे ॥इष्ट आशंसिते पूज्ये क्रतौ ना प्रेयसि त्रिषु ।संस्कारे क्लीबलिङ्गं स्याद् व्रते च क्रतुकर्मणि ॥
7.11.2 · p. 199
अनुष्टुप्
इष्टिर्यज्ञेऽभिलाषे च संग्रहश्लोकयोः स्त्रियाम् ।कटः कट्यां द्वयोर्ना तु सूक्ष्मकाष्ठे तृणे शवे ॥
7.11.3 · p. 199
अनुष्टुप्
समये हस्तिगण्डेऽपि पिप्पल्याञ्च स्त्रियां कटी ।कटुर्ना रसमात्रेऽस्त्री रोहिणीकलिराजिषु ॥
7.11.4 · p. 199
अनुष्टुप्
कटुकार्ये सुगन्धौ च मत्सरे च खरे त्रिषु ।कष्टं कृच्छ्रे च गहने क्रुष्टं रुदितशब्दयोः ॥
7.11.5 · p. 200
अनुष्टुप्
कुटः कोटे ना स्त्रियान्तु घटे गेहेऽपि च द्वयोः ॥
7.11.6 · p. 200
कुटी स्त्रियां कुम्भदास्यां मुरायां चित्रगुच्छके ॥
7.11.7 · p. 200
कूटोऽस्त्रियां स्थिरे राशौ दम्भे च लोहमुद्गरे ।मायायां गिरिशृङ्गेऽपि सीराङ्गेऽनृतयन्त्रयोः ॥
7.11.8 · p. 200
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
कृष्टिः प्रमाणपण्डिते भवेदाकर्षणे स्त्रियाम् ।कोटिः स्त्री वहिणचापाग्रसंख्याभेदोत्कर्षकेष्वपि ॥
7.11.9 · p. 200
metre not recognised
खटः प्रहारे भेदान्धकूपटङ्ककफेषु च ।खाटिः किणे शवरथे भीषितेऽसद्ग्रहे स्त्रियाम् ॥
7.11.10 · p. 200
अनुष्टुप्
खेटोऽस्त्रीचर्मणि ग्रामकफयो घोटके त्रिषु ।गृष्टिः सकृत्सूतगव्यां बदरायामपि स्त्रियाम् ॥
7.11.11 · p. 200
अनुष्टुप्
घटः कुम्भशिरः कूटे समाधिभिदि पुंस्ययम् ।घटागोष्ठीभघटनाघटनेष्वपि च स्त्रियाम् ॥
7.11.12 · p. 200
अनुष्टुप्
घृष्टिर्ना शूकरे विष्णुक्रान्ताघर्षणयोः स्त्रियाम् ॥
7.11.13 · p. 200
घोन्टा स्त्री बदरी वृक्षगुवाकद्रुमयोरपि ।चटः पिचिण्डे चाटौ च व्रतिनामासने पुमान् ॥
7.11.14 · p. 200
अनुष्टुप्
जटामूले लग्नकचे मांस्यां प्लक्षे जटीत्यपि ।जुष्टं तत्क्लीबमुच्छिष्टे वाच्यलिङ्गन्तु सेविते ॥
7.11.15 · p. 200
अनुष्टुप्
झाटा स्त्रियान्तु कान्तारे कृष्णे व्रणादिमार्जने ।तटं क्षेत्रे क्लीबलिङ्गं तीरेऽपि च तटी त्रिषु ॥
7.11.16 · p. 200
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 व्र (wrong syllable)
त्वष्टा सूर्य प्रभेदेऽपि विश्वकर्मणि वर्द्धकौ ॥
7.11.17 · p. 200
त्रुटिः स्त्रियां संशयेऽल्पे सूक्ष्मैलकालमानयोः ॥
7.11.18 · p. 200
त्रोटिश्चञ्च्वां कटफले कन्ठे मीनभिदि स्त्रियाम् ।दिष्टं दैवे तु काले ना दिष्टिः स्त्री हर्षमानयोः ॥
7.11.19 · p. 200
अनुष्टुप्
अथ दृष्टिर्मनीषायां दर्शने नयनेऽपि च ।घटो दिवा तुलायां ना खण्डवस्त्रे घटी स्त्रियाम् ॥
7.11.20 · p. 200
अनुष्टुप्
नटी नील्याञ्च वेश्यायां शैलूषाशीकयोः पुमान् ।पटी वस्त्रे पटश्चित्रवस्त्रे पियालभूरुहे ॥
7.11.21 · p. 200
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable)
पटुः पटोले दक्षे च नीरोगे चतुरेऽन्यवत् ।पट्टः पेषणपाषाणव्रणादिवस्त्रपोरपि ॥राजशासनभेदेऽपि पत्रे पीठे चतुष्पथे ।पटिः स्त्री पटभेदे स्याद् वागुलौ कुम्भिकाद्रुमे ॥पुष्टिः पोषणवृद्धयोः स्त्रीफटादम्भे फणेऽपि च ।वटी त्रिषु गुणे ना तु वृक्षनाथकपर्दयोः ॥
7.11.22 · p. 200
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 दि (wrong syllable)nearly अनुष्टुप्
भटः पामरभेदे स्याद् वीरे च रजनीचरे ।भृष्टिः शून्ये भर्जने च वाटिकायामपि स्त्रियाम् ॥
7.11.23 · p. 201
अनुष्टुप्
म्लिष्टस्त्रिष्वपि चाव्यक्तवाचि म्लाने चिरन्तने ।मुष्टिः पले बद्धपाणौ त्सरौ मानभिदि द्वयोः ॥
7.11.24 · p. 201
अनुष्टुप्
यष्टिर्ना ध्वजदण्डे तु भार्गीमधुकयोर्द्वयोः ।तथा हारलताभेदेऽखण्डे शस्त्रविशेषके ॥रिष्टं शुभेऽशुभे ना तु फेनिलद्रुमखङ्गयोः ।रिष्टिः खङ्गे-पुमान् स्त्री स्यादशुभे शस्त्रभिद्यपि ॥
7.11.25 · p. 201
अनुष्टुप्
लाटो देशान्तरे वस्त्रे जीणेषु भूषणादिषु ।वाटः पथि वृतिस्याने वाटी स्यात्कुटिवास्तुनोः ॥
7.11.26 · p. 201
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 षु (wrong syllable)
विटोऽद्रौ खदिरे षिङ्गे लवणे मूषिकेऽपि च ॥
7.11.27 · p. 201
त्रिषु विष्टिः कर्मकरे आजुर्वेतनयोः स्त्रियाम् ॥
7.11.28 · p. 201
व्युष्टं त्रिषूषिते कल्ये समृद्धिफलयोः स्त्रियाम् ।सटा जटाकेशरयोः शिखायां शिखरेऽपि च ॥
7.11.29 · p. 201
अनुष्टुप्
स्फुटो व्यक्ते प्रपुल्ले च व्याप्ते चापि भवेत्रिषु ।स्फुटिः पादस्फाटरोगे निर्भिन्नकर्कटीफले ॥
7.11.30 · p. 201
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्न (wrong syllable)
सृष्टन्तु निर्मिते युक्ते बहुले निश्चितेऽपि च ।सृष्टिः स्वभावे निर्माणे निर्गुणे सगुणेऽपि च ॥
7.11.31 · p. 201
अनुष्टुप्
हृष्टो रोगाञ्चिते जातहर्षे प्रतिहतेऽन्यवत् ।
7.11.32 · p. 201
अनुष्टुप्
अवटः कूपकुहकजीविगर्त्राखिलेषु च ॥
7.11.33 · p. 201
अनुष्टुप्
अरिष्टः फेनिले कङ्के काके लवणनिम्बयोः ।अरिष्टमशुभे तक्रे सत्यसूतीगृहे शुभे ॥
7.11.34 · p. 201
अनुष्टुप्
आदिष्टं क्लीबमाज्ञप्तोच्छिष्टयोर्देशिते त्रिषु ।उत्कटो विषमे तीव्रे गाटमत्ते मदेऽपि च ॥
7.11.35 · p. 201
अनुष्टुप्
उन्मुटो भास्करे कूर्मकार्पाटो जनुकाष्ठिनोः(?) ।कर्कटो राशिभेदे च पक्षिभेदे कुलीरके ॥
7.11.36 · p. 201
अनुष्टुप्
स्त्रियां वान्नाकायान्तु(?) भुजङ्ग्यां शाल्मलीफले ।कर्कटः पङ्कपङ्कारकरहाटेषु(?) कथ्यते ॥
7.11.37 · p. 201
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 न्ना (syllables merged)
करटो दर्दरूटे स्याद् गजगण्डे च वायसे ।एकादशाहादिश्राद्धे कुसुम्भे निन्दय जीविते ॥
7.11.38 · p. 201
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कीकटो भूम्नि देशे ना निम्बेऽपि कृपणे त्रिषु ।कुरुन्टी स्त्री दारुपुत्र्यां झिण्ट्यम्लानभिदोः पुमान् ॥
7.11.39 · p. 201
अनुष्टुप्
कुक्कुट्यसत्यचर्मायां ताम्रचूडे पुमानपि ॥
7.11.40 · p. 202
निषादे शूद्रपुत्रे च तृणोल्कायाञ्च कुक्कुभे ।कुनटी स्त्री तु नैपाल्यां तथा गनःशिलासु च ।कृपीटं जठरे नीरे विपिनेन्धनयोरपि ॥
7.11.41 · p. 202
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ग (wrong syllable)
केशटो भातरि हरौ स्यादजौकणयोरपि ।चर्पटः पर्पटे क्षारे चपेटे विपुलेऽपि च ॥
7.11.42 · p. 202
अनुष्टुप्
चक्राटो धूर्तदीनारविषवैद्यखलेषु च ।चिपिटो विस्तृते खाद्यभेदे ना त्रिषु पिष्टिते ।चिरिन्टी स्यात्तरुण्यान्तु स्ववासिन्यामपि स्त्रियाम् ॥
7.11.43 · p. 202
अनुष्टुप्
त्रिकूटं सिन्धुलवणे पुमांस्तु पर्वतान्तरे ।त्रिपुटा स्त्री तु सूक्ष्मैला त्रितृतामम्बिकासु च ॥
7.11.44 · p. 202
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्तु (wrong syllable)
तीरे सतिलके पुंसि हस्तभेदे च तालके ।त्रोहाटो व्याधिधाताभिद् (?) वैडालव्रतिकेषु च ॥
7.11.45 · p. 202
अनुष्टुप्
धाराटश्चातके मेघे तुरङ्गे मत्तहस्तिनि ।निर्दटो वाच्यलिङ्गः स्यात्परापवादशालिनि ॥
7.11.46 · p. 202
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)
दयाशून्ये च तीव्रे च मत्ते च निष्प्रयोजने ।निष्कुटः पुंसि केदारे गृहीय्यानकपाटयोः ॥
7.11.47 · p. 202
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
पर्कटी प्लक्षवृक्षे स्यात्पूगादेर्नूतने फले ।परीष्टिः परिचर्यायां प्राकाम्येऽन्वेषणेऽपि च ॥
7.11.48 · p. 202
अनुष्टुप्
पर्पटः पिष्टगेदे स्त्रीपुंसि स्याद्भेषजान्तरे ।पात्रटो वाच्यलिङ्गः स्यात्कृशे कर्पटके पुमान् ॥
7.11.49 · p. 202
अनुष्टुप्
पिच्चटं सीसके रङ्गे पुमांस्तु नेत्ररोगके ।वर्वटी व्रीहिभेदे स्यात्पण्यजीविस्त्रियामपि ॥वेकटो मत्स्यभेदे स्यात्तरुणे च विदूषके ।भावाटः कामुके साधुविशेषे भावके नटे ॥
7.11.50 · p. 202
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्तु (wrong syllable)
मर्कटो लूतिके कीशे स्त्रियां शिखिकरञ्जयोः ।मोचाट स्यान्मलयजे रम्भास्थिकृष्णाजीरके ॥मोरटं स्यादिक्षुमूले तथाङ्कोठप्रसूनके ।सप्तरात्रात्परक्षीरे भूर्विकायाञ्च मोरटा ॥
7.11.51 · p. 202
अनुष्टुप्metre not read in every line
वर्णाटो गायने चित्रकरे स्त्रीकृतजीवने ।विकटः स्यात्कराले तु विशालेऽपि च वाच्यवत् ॥
7.11.52 · p. 202
अनुष्टुप्
शैलाटः स्याच्छुक्लकाचे देवे सिंहकिरातयोः ।
7.11.53 · p. 202
अनुष्टुप्
उच्चिङ्गटस्तृणगडमीने कोपनपूरुषे ॥
7.11.54 · p. 203
अनुष्टुप्
करहाटः पद्मशिफाकन्दे च मदने द्रुमे ।कार्यपुटस्तु कृपणे उन्मत्तेऽनर्थकारिणि ॥
7.11.55 · p. 203
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 प (wrong syllable); pāda 3, syllable 3 पु (wrong syllable)
कामकूटस्तुर्वेश्यानां प्रियेषु विभ्रमेषु च ।कुटन्नटः शोनके ना क्लीबे कैवर्त्तिमुस्तके ॥
7.11.56 · p. 203
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 ट (syllables merged)
कुन्टकीटस्तु पतितब्राह्मणतनयेऽपि च ।चार्वाकवचनाभिज्ञदासीकामुकयोरपि ॥
7.11.57 · p. 203
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 ह्म (wrong syllable)
खड्गारीटस्तु चर्मणि धाराव्रतादिधारिणोः ।नारकीटः स्वदत्ताशाघातके चाश्मकीटके ॥
7.11.58 · p. 203
अनुष्टुप्metre not read in every line
पुरपुष्टः कोकिले स्यात् स्त्रियां वारस्त्रियामपि ।प्रतिकृष्टन्तु गर्ह्ये स्याद् द्विष्णवल्या च कर्षिते ॥
7.11.59 · p. 203
अनुष्टुप्
प्रतिमृष्टः प्रेषिते ना खण्डिते वाच्यलिङ्गकः ।वर्कराटः कटाक्षे ना तरुणादित्यतेजसि ॥
7.11.60 · p. 203
अनुष्टुप्
कान्तास्तनयुगोत्सङ्ग कान्तार्पित नखखते ।शिपिविष्टः स्मरहरे खलतौ दुष्टचर्मणि ॥
7.11.61 · p. 203
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 ख (wrong syllable)
अथ श्रुतिकटः प्राञ्चल्लोहाहिपापशोधने ।
7.11.62 · p. 203
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 हि (wrong syllable)
स्यात्पुंसि दशनोच्छिष्टः निश्वासाधरचुम्बयोः ॥
7.11.63 · p. 203
अनुष्टुप्metre not read in every line