कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Koṣakalpataru

कोषकल्पतरु Koṣakalpataru

6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)

स्वर्गकाण्डः · वारिवर्गः

इति नाट्यवर्गः ।

स्त्रियामापो वारो बहुषु सलिलं वारि सरिलंजलं पाथः पीथं दकमुदकमम्भोऽम्बु च पयः ।कबन्धं कं पाथं घृतममृतमर्णो जनहितंकृपीटं पानीयं जलदकुसुमं पावन-वने ॥ १ ॥
1.7.1 · p. 98
शिखरिणी
सम्बर-शम्बर-कीलालान्न-प्राणद-पुष्कर-नीरापांसि ।पिप्पल-वैष्प(?)-कुलीनस-नारं शरमृत[63b]मूषः(?) सर्वग-तोयम् ॥ २ ॥
1.7.2 · p. 98
metre not recognised
वार्जीवनं जीवनीयं दगर्णे(?) सर्वतोमुखम् ।गवं(?)सरः कर्बुरं च पवित्रं पूतमङ्कुरः ।कम्बलं तामरं कृत्स्नं क्षणदं स्यन्दनं मधु ।क्षरं कंत्वलिगं * * न स्त्री कोडं(?)रसं विषम् ॥ ३ ॥
1.7.3 · p. 99
अनुष्टुप्metre not read in every line
कमलं क्षीरं भुवनोस्वीस्यं(?)घनरसं कुशम् ।यादो वासो(?)वर्णसिर्ना नोडुः पुंसि स्त्रियां त्विरा ॥ ४ ॥
1.7.4 · p. 99
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 रं (wrong syllable)
तीर्थं त्वर्दवज्जलं(?)काजलं स्यात्काम्भः कोदकमित्यपि ।* * * * * * * * त्वर्थं त्रिष्वत्र देयके ।अपां विकार आप्यं स्यादापमप्सव्यमम्मयम् ॥ ५ ॥
1.7.5 · p. 99
अनुष्टुप्metre not read in every line
स्त्रियामाप्याम्मयी चापि स्यादापोविकृतौ पुनः ।आपोमयं चापसं च स्त्रियामापोमयीति दिक् ॥ ६ ॥
1.7.6 · p. 99
अनुष्टुप्
अभिवृष्टं नवं दृष्टं तद्दिव्यं स्याद्दिवश्च्युतम् ।धारं धाराप्रवृष्टं यत्कारं स्यात्करकोद्भवम् ॥ ७ ॥
1.7.7 · p. 99
अनुष्टुप्
तुषारजं तु तौषारं हैमं स्याद्धिमसंभवम् ।गाङ्गं गङ्गाप्रवाहोत्थं सामुद्रं तु समुद्रियम् ॥ ८ ॥
1.7.8 · p. 99
अनुष्टुप्
दिवा सूर्यकरैस्तप्तं रात्र्यां चन्द्रकरैर्हिमम् ।अगस्त्योदयनिर्दोषं हंसोदकमिति स्मृतम् ॥ ९ ॥
1.7.9 · p. 99
अनुष्टुप्
भौमं भूमिभवं चौण्ट्यं स्व[64a]यंशीर्णशिलाभवम् ।औद्भिदं भूमिमुद्भिद्य जातं कौपं तु कूपजम् ॥ १० ॥
1.7.10 · p. 99
अनुष्टुप्metre not read in every line
नादेयं स्यान्नदीजन्म ताडागाद्येवमुन्नयेत् ।उदकार्ह उदक्यः स्यात्तद्वानुदकलो भवेत् ॥ ११ ॥
1.7.11 · p. 99
अनुष्टुप्
भवेदुदकिलश्चाथ पयसी देशनामनि ।अतलस्पृशि रन्ध्रे स्यादगाधं चाप्यगाधकम् ॥ १२ ॥
1.7.12 · p. 99
अनुष्टुप्
भवेदस्थाघमस्थागमस्ताघं च समार्थकम् ।निम्नं गभीरं गम्भीरमुत्तानं तु ततोऽन्यथा ॥ १३ ॥
1.7.13 · p. 100
अनुष्टुप्
प्रसन्नमच्छं विमलं कलुषेऽनच्छमाविलम् ।पिच्छिलं स्याद्विजयिनं द्राग्भृतं तत्क्षणोद्धृतम् ॥ऋक्षरं वारिधारा स्याद्घर्घरो वारिनिःस्वनः ।देशं विनाद्भिरन्वीतमन्वीपं भेद्यलिङ्गकम् ॥पारावारः समुद्रो जलनिधिरुदधिर्वीचिमाली समीचःपारापारश्च पारीस्तिमिरपि पुरणः स्यात्सरस्वानुदन्वान् ।गङ्गानाथो नदीनोदरथि-कधि-महाकच्छ-शीतांशुताता-कूपारावारपारा भुविरविष-पयो एगप्से(?)पांपतिश्च ॥ १५ ॥
1.7.15 · p. 100
स्रग्धराmetre not read in every linenearly स्रग्धरा: pāda 2, syllable 16 ग (wrong syllable)
रत्नाकरः सिन्धु-महासरौ[64b] च तरन्त-मीरौ मकरालयश्च ।महाशय-श्रीगुरु-सागराश्च मितद्रु-दभ्रार्णव-पाथिषः स्युः ॥ १६ ॥
1.7.16 · p. 100
उपेन्द्रवज्राmetre not read in every linenearly उपेन्द्रवज्रा: pāda 1, syllable 1 र (wrong syllable)
स्रोतःपतिस्तविष-ताविष-धेन-यादः-पत्यूर्मितात-वरुणालय-मीनकोषाः ।वार्धिः कृपीटमणि-कुस्तुभकाविरावान्क्लीबेऽत्र शैलशिबिरं च महासरश्च ॥ १७ ॥
1.7.17 · p. 100
वसन्ततिलका
लवणोदः क्षीरोदो दध्युद आज्योद-मद्योदौ ।इक्षूदो मधुरोदः सप्त विभेदाः समुद्रस्य ॥ १८ ॥
1.7.18 · p. 100
metre not recognised
तरङ्ग-भङ्गौ नरि पुंसि चोर्मिर्वीचिर्लहर्युत्कलिकाम्बुवल्ली ।कल्लोल उल्लोल इमासु तुङ्गास्ववर्तकोऽम्भोभ्रम-वारिगुल्मौ ॥ १९ ॥
1.7.19 · p. 100
उपजातिः
जलरुण्डो जलावर्तस्तालूरो वोलकोऽप्यसौ ।जलस्फोटो बुद्बुदः स्यात्स्थासकौगंतु(?)इत्यपि ॥ २० ॥
1.7.20 · p. 101
अनुष्टुप्
अथ फेनायमानः स्यात्फेनमुद्वमति त्रिषु ।फेनिलः फेनलः फेनी फेनवांस्तद्युतो भवेत् ।पुमांसौ बिन्दु-पृषतौ विप्रुट् स्त्री तद्द्वयोः पृषत् ॥ २१ ॥
1.7.21 · p. 101
अनुष्टुप्
चक्रमस्त्री चक्रमन्त्ये पुटभेदो नरीरितः ।ऊर्ध्वं निःसरणेऽधस्तोऽपांभ्रमो जल[65a]निर्गमः ॥ २२ ॥
1.7.22 · p. 101
metre not recognised
जलाञ्चलं तु मन्दाकं स्रोतं स्रोतोऽपि चान्तिमे ।उत्सः स्रवः प्रस्रवणं निर्झरस्तु झरो नरि ॥ २३ ॥
1.7.23 · p. 101
अनुष्टुप्
झरा झरिर्झरी स्त्रीत्वे प्रवाहो वाहसो रयः ।ओघो धारा-वेणि-वेण्यः पूरो*वर्धनं प्लवः ॥ २४ ॥
1.7.24 · p. 101
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वे (syllables merged)
समुद्रपूरे वेला स्यात्सा मर्यादापि वारिधेः ।वेलावनं समुद्रस्य समीपस्थितकाननम् ॥ २५ ॥
1.7.25 · p. 101
अनुष्टुप्
कूलदेशस्तु मर्यादा प्रपातो रोध आदिमे ।कूलं तीरं प्रतीरं च कच्छं रोधस्तु यत्त्रिषु ॥ २६ ॥
1.7.26 · p. 101
अनुष्टुप्
पारं परमवासान्तं(?) क्लीबे स्यादवारं च स्त्रियौ(?) ।प्राक्तारं पूर्वतीरं स्यादवाक्तारं तु दक्षिणम् ॥ २७ ॥
1.7.27 · p. 101
अनुष्टुप्metre not read in every line
प्रत्यक्तारं प्रतीचीनमुदक्तारं तदुत्तरम् ।पारीणः स्यात्पारभवोऽवारीणोऽवारसंभवः ॥ २८ ॥
1.7.28 · p. 102
अनुष्टुप्
भवेदवारपारीणोऽवारपारभवो हि यः ।भवेदवारपारीणोऽवारपारं हि गामिनि ॥ २९ ॥
1.7.29 · p. 102
अनुष्टुप्
पारीणश्चाप्यवारीणः पारावारीण इत्यपि ।पारगस्तर्तरीकश्च पारीणाद्या विशेष्यगाः ॥ ३० ॥
1.7.30 · p. 102
अनुष्टुप्
स्यात्पारावारयोर्मध्ये पात्रं भाण्डं समार्थकम् ।नदी पा[65b]त्रे भङ्गुरे स्याद्वङ्कः पुंसि नपुंसके ।द्वीपोऽस्त्रियामन्तरीपं तटं पानीयमध्यगम् ॥ ३१ ॥
1.7.31 · p. 102
अनुष्टुप्metre not read in every line
त्रिषु द्वैप्यं यदन्वम्भोनिधिद्वीपसमुद्भवम् ।स्त्रियां द्वैप्या द्वैपमन्यदान्तरीपं तु तद्भवम् ॥ ३२ ॥
1.7.32 · p. 102
अनुष्टुप्
पुलीनोऽस्त्री तोयभवं सैकतं सिकतामयम् ।स्यात्पादचत्वरः शुद्रिवालुका शर्करोपमा ॥ ३२ ॥
1.7.32 · p. 102
अनुष्टुप्
सिकताः प्रायशो भूम्नि स्त्रियां ता यदि पादयोः ।वेधिन्यः स्युस्तदा पद्यास्तथा दृश्यपदा अपि ॥ ३३ ॥
1.7.33 · p. 102
अनुष्टुप्
शर्कराभिस्तु निर्वृत्ति शर्करा स्त्री परे त्रिषु ।शर्करीयं शार्करिकं स्तः शर्करिक-शार्करे ॥ ३४ ॥
1.7.34 · p. 102
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 शा (wrong syllable)
भवेच्छार्करकं वाथ देशे तद्वति योषितौ ।शर्करा-सिकते शर्करिलः सिकतिलस्त्रिषु ॥ ३५ ॥
1.7.35 · p. 102
अनुष्टुप्
देशे तद्वत्यदेशे तु शर्करालोऽपि शार्करः ।दूर्वाञ्चिततटी भूमिः पांशुचामर उच्यते ॥ ३६ ॥
1.7.36 · p. 102
अनुष्टुप्
पङ्काम्बुकल्कौ न स्त्रीत्वे जम्बालः कृमिवल्लभः ।निषद्वरः कर्द्दमश्च शादश्चावकि[की]लो दमः ॥ ३७ ॥
1.7.37 · p. 102
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अकालजलकेशः स्यात्पङ्कारो जलनीलिका ।हठपर्णी च कावारं जलशूक-जलाञ्चलम् ॥ ३८ ॥
1.7.38 · p. 103
अनुष्टुप्
शैवालमस्त्री शेवालं शैवलः शीवलं [66a] समम् ।जलज्वरोऽस्त्री शेपालं जलचामरमीरितम् ।परिवाहः परीवाहो जलोच्छ्वासो जलाशयः ॥ ३९ ॥
1.7.39 · p. 103
अनुष्टुप्metre not read in every line
परिधायो जलाधारो द्रहोऽगाधजलो ह्रदः ।अविदासी ह्रदः स स्याज्जलं यत्र न शुष्यति ।अन्धुः पुंस्यास्यवीनाही कारेलुश्च प्रहिर्द्रुहिः ॥ ४० ॥
1.7.40 · p. 103
अनुष्टुप्
उदपानं पुंसि वा स्याद्द्वंद्वे कूपो जलाम्बिका ।सप्रप्यान(?)स्तथापीनो भेद्यवद्वृद्धिमान्यदि ।कोट्टारश्चारघट्टश्च महाकूपोऽथ कूपकः ॥ ४१ ॥
1.7.41 · p. 103
अनुष्टुप्metre not read in every line
उत्सो विदारकश्चुण्डि-चुर्यौ विवर-चूतकौ ।अन्धकूपः खटः पुंसि स तृणादिभिरावृतः ।कूपो दैर्घवरत्रः स्यान्निर्वृत्तो दीर्घवर्ध्रय(?) ॥ ४२ ॥
1.7.42 · p. 103
अनुष्टुप्
निवृत्तो दत्तगुप्ताभ्यां दात्तो गौप्तः क्रमान्मतः ।आहावः स्यान्निपानं च पूपान्तिकजलस्थलम् ॥ ४३ ॥
1.7.43 · p. 103
अनुष्टुप्
नेमिस्त्रिका दारुयन्त्रमथास्य मुखबन्धनम् ।नान्दीमुखो नन्दिमुखः स्यान्नान्दीपट इत्यपि ॥ ४४ ॥
1.7.44 · p. 103
अनुष्टुप्
वीनाहः स्यान्नन्दिपटो विनाहोऽप्यत्र कीर्तितः ।उद्घाटनं घटीयन्त्रं पादावर्तोऽरघट्टकः ॥ ४५ ॥
1.7.45 · p. 103
अनुष्टुप्
महत्तरो ग्रामकूपो वापी वा[66b]पिश्च दीर्घिका ।चवोलः(?) प्रतिकूपस्तु जलाष्ठीलाम्बुकूपिका ॥ ४६ ॥
1.7.46 · p. 103
अनुष्टुप्metre not read in every line
स्त्रियां पुष्करिणी तल्लो बिल्लं खातं तलोऽस्त्रियाम् ।कुण्डं देवजलाधारे न स्त्री स्याद्देवखातकः ॥ ४७ ॥
1.7.47 · p. 104
अनुष्टुप्
अखातश्च तडागोऽस्त्री तटाकः कूलमन्तिमे ।पद्माकरश्चाथ पुंसि कासारः स्यात्तुलाङ्गकः ॥ ४८ ॥
1.7.48 · p. 104
अनुष्टुप्
सरं सरश्च क्लीबे द्वे सरसी तु महत्सरः ।वेशन्त-पल्वलावस्त्री तल्लः स्वल्पसरोर्थकः ॥ ४९ ॥
1.7.49 · p. 104
अनुष्टुप्
जातौ मण्डूकसरसं नाम्नाम्बुसरसं मतम् ।परिखा खातिका खेयं खातं यत्परितः पुरम् ।पारिखेयी तु परिखा हिता भूम्यादिका त्रिषु ॥ ५० ॥
1.7.50 · p. 104
अनुष्टुप्
तोयेन सहिते शैलबिलटङ्को(?) नृषण्डयोः ।आधारोऽम्भो बन्धनं स्यात्त्वालिः पालिश्च पिण्डिलः ।पुंसि सेतुर्वरण्डः स्यात्समुद्रारुश्च संवरः ॥ ५१ ॥
1.7.51 · p. 104
अनुष्टुप्
आवालमालवालोऽस्त्री पुंसि त्वावाप उच्यते ।द्वयोः प्रणाल्यम्बुपथो घट्टः स्यात्तीर्थमस्त्रियाम् ॥ ५२ ॥
1.7.52 · p. 104
अनुष्टुप्
सिन्धुः स्त्री ह्रदिनी धुनी च तटिनी जम्बालिनी वाहिनीकर्षूर्निर्झरिणी समुद्रगृहिणी शैवालिनी वार्वहा ।स्रो[67a]तस्वत्यपगा नदी जलधिगा स्यान्निम्नगाप्यापगाकुल्या द्वीपवती सरिद्गिरिभवा धेना च कूलंकषा ॥ ५३ ॥
1.7.53 · p. 104
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्
तरङ्गिणी स्वर्णवर्णा रोधोवक्रा सरस्वती ।स्रवन्ती च तलोदा स्याद्वहा स्रोतस्तु न स्त्रियाम् ॥ ५४ ॥
1.7.54 · p. 104
अनुष्टुप्
गिरेर्नदी गिरिणदी तथा गिरिनदी मता ।क्लीबाव्ययं चोपनदं तथोपनदि च स्मृतम् ॥सप्तगोदावरं सप्तगङ्गं द्वियमुनं तथा ।देशे तून्मत्तगङ्गं स्यात्तथा लोहितगङ्गकम् ॥पारेगङ्गं तु गङ्गायाः पारे पूर्ववदीरितम् ।वहो नदो भिद्य उद्ध्यः सरस्वत्सम(प्त?)सिन्धवः ॥हिरण्यबाहुः शोणः स्यात्स्वर्णवाहोऽप्यसौ भवेत् ॥ ५५ ॥
1.7.55 · p. 105
अनुष्टुप्
शणीरः पुंसि शोणस्य मध्यस्थं पुलिनं भवेत् ।गङ्गा विष्णुपदी तथा सुरनदी सिद्धापगा स्वर्णदीस्वर्वापी सुरदीर्घिका मकरगा नद्युत्तमा जाह्नवी ।त्रिस्रोता हरशेखरा त्रिपथगा भागीरथी भीष्मसूःप्रोक्ता हैमवती कुमारजननी धर्मद्रवा स्यात्सिता ॥ ५६ ॥
1.7.56 · p. 105
अनुष्टुप्two metres in one verse
मन्दाकिनी शंतनुकामिनी च व्योमापगा सा गदितर्षिकुल्या ।[67b] शोणोदकान्तःसलिला तथैव सरस्वती धातृसुता मता सा ॥ ५७ ॥
1.7.57 · p. 105
इन्द्रवज्राtwo metres in one verse
कालिन्दी रवितनया यमुना च यमस्वसाप्यसिता ।तिसृणामासां सङ्गे त्रिवेणिरुक्ता मुनिप्रवरैः ॥ ५८ ॥
1.7.58 · p. 105
उपगीतिः
तीर्थराजः प्रयागोऽथ श्यामोऽक्षय्यो वटोऽत्रगः ।पूर्वगङ्गेन्दुजा रेवा नर्मदा मेकलाद्रिजा ॥ ५९ ॥
1.7.59 · p. 105
अनुष्टुप्
गोदा गोदावरी गोला गौतमी चाभिधीयते ।तपना तपती तापी सैत्या(षा?) स्यात्तपनात्मजा ॥ ६० ॥
1.7.60 · p. 105
अनुष्टुप्
पूर्णा पयोष्णी शिप्रा तु क्षिप्रा मालवमालिनी ।शतद्रुर्ना शुतुद्रिश्च विपाशा तु विपाट् स्त्रियाम् ।वैपाशायन्य-वैपाशौ वैपाशेयो विपाट्सुत(तः) ॥ ६१ ॥
1.7.61 · p. 105
अनुष्टुप्
करतोया सदानीरा वितस्ता स्त्री वितस्तिका ।चान्द्रभागी चान्द्रभागा चन्द्रभागा च चन्द्रिका ॥ ६२ ॥
1.7.62 · p. 106
अनुष्टुप्
सरयूः सरयुश्च स्त्री सारवं तद्भवे त्रिषु ।दाविकं देविकाजातं कावेरी त्वर्द्धजाह्नवी ॥ ६३ ॥
1.7.63 · p. 106
अनुष्टुप्
बाहुदा बाहुदी च स्यादार्जुनी सैतवाहिनी ।मौक्तिकाम्बा ताम्रपर्णी विष्णुखानिस्तु गण्डकी ॥ ६४ ॥
1.7.64 · p. 106
अनुष्टुप्
स्यात्कौशिकी [68a] मालिनी च वाशिष्ठी गोमती भवेत् ।चर्मण्वती वेत्रवती वेणिका देविका मही ॥ ६५ ॥
1.7.65 · p. 106
अनुष्टुप्metre not read in every line
भीमा कृष्णा तुङ्गभद्रा दुग्धिनी च शरावती ।इरावती कर्मनाशा प्रणीताद्याश्च निम्नगाः ॥ ६६ ॥
1.7.66 · p. 106
अनुष्टुप्
अल्पा नदी सारणी स्यात्कुल्यानीका प्रजालिका ।समौ संभेद-संवेधौ सरितोः संगमे मिथः ॥ ६७ ॥
1.7.67 · p. 106
अनुष्टुप्
आदायः संनिपातः स्यात्ताम्रपर्णीसमुद्रयोः ।जानुदघ्नी जानुमात्री स्याज्जानुद्वयसी तथा ॥ ६८ ॥
1.7.68 · p. 106
अनुष्टुप्
जान्वादिकप्रमाणायां नद्यामन्यत्र भेद्यवत् ।नाव्यं तु त्रिषु नौतार्ये नाव्या स्यात्स्त्री विकोषणे ॥ ६९ ॥
1.7.69 · p. 106
अनुष्टुप्
तरीस्तरन्ती तरणिस्तरी नौर्वेडा च मङ्गिन्यपि तारणिश्च ।न स्त्री तरण्डोऽप्युडुपश्च पादा-लिन्दी स्त्रियां पुंसि तु कोल-भेलौ ॥ ७० ॥
1.7.70 · p. 106
उपजातिः
अम्भोरथेऽसौ प्लव आलु चान्तिमेद्रोणिर्द्रुणिः काष्ठकृताम्बुवाहिनी ।स्यात्क्षेपणिः स्त्री क्षिपणिश्च मङ्गिनी-दण्डोऽथ मङ्गस्तरिमस्तकोऽस्त्रियाम् ॥ ७१ ॥
1.7.71 · p. 107
इन्द्रवंशा
पोलिन्दा मध्यदण्डाः स्युः कूपको[68b] गुणवृक्षकः ।कर्ण-नौरथ-केपाता अरित्रं कोटिपात्रकम् ॥ ७२ ॥
1.7.72 · p. 107
अनुष्टुप्metre not read in every line
काष्ठकुद्दालकोऽभ्रिः स्त्री बारुण्डो स्त्री च सेचनम् ।सेकपात्रमथावाप आतरोऽनुतरं तथा ॥ ७३ ॥
1.7.73 · p. 107
अनुष्टुप्
तरपण्यं तारकस्तु कर्णधारश्च नाविकः ।* * * * * * * * वोहित्थं वहनं तथा ।तस्मिन्प्रवहणं तर्त्तरीकमप्यन्तिमे मतम् ।पोतवाहः पोतवहो नियामश्च नियामकः ॥ ७५ ॥
1.7.75 · p. 107
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पो (wrong syllable)
अर्धनावं त्वर्धनावी नावार्धे न नृलिङ्गके ।द्विनावं च त्रिनावं च पञ्चनावं समाहृतौ ॥ ७६ ॥
1.7.76 · p. 107
अनुष्टुप्
त्रिष्वतीतनु यन्नावमतिक्रान्तं भवेदिह ।द्विनावरूप्यो यो द्वाभ्यां नौभ्यामभ्यागतो भवेत् ॥ ७७ ॥
1.7.77 · p. 107
अनुष्टुप्
नावा तरन्नाविकः स्यान्नाविका स्त्री च तादृशी ।बाहुका घटिकश्चैवंमता गौपुच्छिकादयः ॥ ७८ ॥
1.7.78 · p. 107
अनुष्टुप्
स्त्री गौपुच्छिक्यौडुपिकी तथा माङ्गिनिकीति च ।तरिषस्तु तरीता स्यात्तरकश्च तरश्च सः ।पञ्चनौः पञ्चभिर्नौभिः क्रीतः क्लीबे तु पञ्चनु ॥ ७९ ॥
1.7.79 · p. 107
अनुष्टुप्
कैवर्तो जालिकश्छोटी धीवरो दाश-दाशकौ ।न पुंसि जाली त्वानायः [69a] शणसूत्रं पवित्रकम् ।संकोचोऽस्त्री मत्स्यबन्धः कुवेणी मत्स्यतूलिका ।मत्स्याधानी मत्स्यपात्री तथा मत्स्यकरण्डिका ॥ ८१ ॥
1.7.81 · p. 108
अनुष्टुप्metre not read in every line
बडिशं बलिशं क्लीबेऽथाल्पेऽस्मिन्बडिशी स्त्रियाम् ।पलावः पञ्जरः खेटो मात्स्यिको मैनिकस्त्रिषु ॥ ८२ ॥
1.7.82 · p. 108
अनुष्टुप्
मत्स्यो मच्छो झषो मीनोऽण्डज आम्भसिकस्तिमिः ॥ ८० ॥
1.7.80 · p. 108
विसारः शकली शल्की पृथुरोमाप्सुजेल्वलौ ।वैसारिणः संघचारी कण्टकी स्वकुल*[क्ष]यः ॥ ८१ ॥
1.7.81 · p. 108
अनुष्टुप्
स्थिरजिह्वश्चानिमिष आत्माश्यप्सुचरस्तथा ।स्याद्दण्डपालः शकुलः गडकः शकुलार्भकः ॥ ८३ ॥
1.7.83 · p. 108
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्चा (wrong syllable)
रोहितो मत्स्यराजः स्यान्मद्गुरो राजशृङ्गकः ।शृङ्गी तस्य प्रियोऽथ स्यात्पाठीनश्चित्रलोचनः ॥ ८४ ॥
1.7.84 · p. 108
अनुष्टुप्
सहस्रदण्डो बादालस्तथा रूप्योदरः स्मृतः ।उलूपी पुंसि शिशुकः प्रोष्ट(ष्ठ?)स्तु शफरो द्वयोः ॥ ८५ ॥
1.7.85 · p. 108
अनुष्टुप्
स्याच्छ्वेतकोलकश्चाथ नडमीनश्चिलीचिमः ।चिलीचिमीर्बृहन्मीनोऽम्भोधिजस्तिमिरित्यपि ॥ ८६ ॥
1.7.86 · p. 108
अनुष्टुप्
तिमिंगिलस्त[69b]द्गिलः स्यात्तिमिंगिलगिलस्तथा ।राघवः स्यान्महामीनो राजी राजीव इत्यपि ॥ ८७ ॥
1.7.87 · p. 108
अनुष्टुप्metre not read in every line
शालः शालो महामत्स्या नन्द्यावर्तादयः परे ।क्षुद्राण्डमत्स्यवृन्दं तु पोताधानं जलाण्डकम् ॥ ८८ ॥
1.7.88 · p. 109
अनुष्टुप्
क्रूरं जलचरं सत्त्वं यादोऽन्त्ये मालवः पुमान् ।यादोज्वरस्त्विन्द्रमदः शुण्डा तु जलहस्तिनी ॥कुम्भी कुम्भीर आलास्यो नक्रः स्याज्जलशूकरः ।महामुखो गोमुखश्च शङ्खास्यस्तालुजिह्वकः ॥ ८८ ॥
1.7.88 · p. 109
अनुष्टुप्
शिशुमारो जलकपिः पलाङ्गश्चासिपुच्छकः ।महावसोष्णवीर्यौ च स्यादुद्रोऽम्बुबिडालकः ॥ ९० ॥
1.7.90 · p. 109
अनुष्टुप्
जलप्लवोऽम्बुनकुलो नीराखुश्च वसी पुमान् ।अवहारो नक्रराजो ग्राहो जलविराटकः ॥ ९१ ॥
1.7.91 · p. 109
अनुष्टुप्
जलाटकस्तन्तुनागो नाग-तन्तुणकावपि ।पञ्चग्राहर्ष्य-मकर-यादोभेदास्तु भूरिशः ॥ ९२ ॥
1.7.92 · p. 109
अनुष्टुप्
कर्कटो जलबिल्वः स्यात्पिङ्गचक्षुर्द्विधागतिः ।तिर्यग्यानः कुलीरश्च कुरुचिल्लोऽपि शेगवः ॥ ९३ ॥
1.7.93 · p. 109
अनुष्टुप्
षोडशाङ्घ्रिश्चाथ कूर्मः क्रोड[70a]पादश्चतुर्गतिः ।पञ्चाङ्गगुप्तो दौलेयो गुह्यः पारीरणस्तथा ॥ ९४ ॥
1.7.94 · p. 109
अनुष्टुप्metre not read in every line
कमको(ठो?)ऽस्त्री कच्छपः स्याद्धालाङ्गो नरि जीवयः (?) ।दुलिर्दुली कच्छपी च कर्कटी माघमा भवेत् ॥ ९५ ॥
1.7.95 · p. 109
अनुष्टुप्
गण्डूपदः किंचुलको गर्गः कुसूर्महीलता ।गण्डूपदी शिली चाथ निहाका गोधिकापि च ॥ ९६ ॥
1.7.96 · p. 109
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 कु (wrong syllable)
लत्तिकापि स्त्रियां नित्यं प्रायो भूम्नि जलौकसः ।जलायुका जलौका च जलुका च जलाटनी ॥ ९७ ॥
1.7.97 · p. 110
अनुष्टुप्
रक्तपाम्भःसर्पिणी स्याज्जलूकाव्रणवेधिनी ।मुक्तास्फोटोऽब्धिमण्डूकी शुक्तिरब्जोऽम्बुपोदरः ॥ ९८ ॥
1.7.98 · p. 110
अनुष्टुप्
त्रिरेखः षोडशावर्तः शङ्ख-कम्बू तु ना(नृ?)स्त्रियौ ।दक्षिणावर्त्तशङ्खोऽस्त्री तस्मिन्वार्द्दरमन्तिमे ॥ ९९ ॥
1.7.99 · p. 110
अनुष्टुप्
क्षुद्रशङ्खः शङ्खनको नरि स्यात्क्षुल्लकोऽप्यसौ ।शम्बूका शम्बुका द्वंद्वे जलडिम्बश्च वण्ठरः ॥ १०० ॥
1.7.100 · p. 110
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श (wrong syllable)
जलशुक्तिर्घोङ्घपङ्कमण्डकौ श्वेतकस्तु ना ।कपर्दश्च हिरण्यः स्यात्पणास्थिक-वराटकौ ॥ १ ॥
1.7.1 · p. 110
अनुष्टुप्
वराटिका वटी [70b] सोऽल्पः काकिणी ताश्च विंशतिः ।दुर्नामा दीर्घकोशी स्यात्पङ्कशुक्तिः सितालिका ।चिकिटः स्यान्महाशल्क इम्बिका जलवृश्चिकः ॥ २ ॥
1.7.2 · p. 110
अनुष्टुप्metre not read in every line
वर्षाभूः पुंसि मण्डूको हरिर्भेकः प्लवंगमः ।प्लव-शालूर-सालूराजिह्व-प्लवग-दर्दुराः ॥ २ ॥
1.7.2 · p. 110
अनुष्टुप्
व्यङ्गको नर्दकश्चाथ वर्षाभूः प्लवगी प्लवी ।वर्षाभ्वी वाथ मण्डूकापत्ये माण्डूकिरीरितः ॥ ४ ॥
1.7.4 · p. 110
अनुष्टुप्
माण्डूकेयश्च माण्डूको मण्डूकापत्यमङ्गना ।माण्डूकायन्युच्यते सा स्थलजास्तु नरादयः ॥ ५ ॥
1.7.5 · p. 110
अनुष्टुप्
ते जले जलपूर्वाः स्युर्मत्स्याः सम्मूर्छनोद्भवाः ॥ ६ ॥
1.7.6 · p. 110
पुटकिनी नलिनी च मृणालिनीभवति पङ्कजिनी वसुपर्णिका ।बिसवती बिसनाभिरिमाः स्त्रियःकुमुदिनी कथिता च कुमुद्वती ॥ ७ ॥
1.7.7 · p. 111
द्रुतविलम्बितम्
राजीवं कमलं नलं शतदलं पङ्केरुहं पङ्कजंपाथोजं सरसीरुहं सरसिजं नालीकमम्भोरुहम् ।अम्भोजन्म कुशेशयं च जलजं कंजं करुट् पुष्करंश्रीपर्णं च सहस्रपत्रम[71a]रविन्दाह्वं कचारं तथा ॥ ८ ॥
1.7.8 · p. 111
शार्दूलविक्रीडितम्metre not read in every line
स्त्री नोत्पलं तामरसं च सारसंबिसप्रसूनं सरसीरुहं च ।प्रोक्तं तु पद्मं नलिनं च न स्त्रियांश्रीवासमत्राम्बुजमस्त्रियां च ॥ ९ ॥
1.7.9 · p. 111
upajati mixed
स्त्री नोत्पलं कुवलयं कुवलं कुवं चश्वेतं तु कैरवमिदं [कुमुदं] कुमुच्च ।स्याद्गन्धकान्तमपि गर्दभ-गन्धसोमेइन्दीवरं त्वसितमुत्पलमामनन्ति ॥ १० ॥
1.7.10 · p. 111
वसन्ततिलका
सौगन्धिक-कह्लारे हल्लकमपि रक्तसंध्यकं तुल्यम् ।स्त्री कर्णिका न तु पुमान्नाजा(न्नब्ज?)नालं सरोजस्य ॥ ११ ॥
1.7.11 · p. 111
आर्या
त्रय्यां मृणालं बिस-तन्तुले नभःक्लीबे लिशं चाथ गणेम्बुजादिनः ।षण्डश्च शण्डो गदितौ किलास्त्रियांकन्दः शिफा स्त्री करहाट-कर्दटौ ॥ १२ ॥
1.7.12 · p. 112
इन्द्रवंशा
अट्टो(?)निशाहसोऽप्यत्र शालूकं तूत्पलादिनः ।निर्वृत्तादौ कौमुदिकं तथा कुमुदिकं त्रिषु ।सूक्ष्मकन्दः कन्दलः स्यात्त्रिलिङ्ग्यां समुदीरितः ॥
1.7.113 · p. 112
अनुष्टुप्metre not read in every line
वराटको बीजकोशः कर्णिका केसरः पुनः ।न स्त्री केशर-किञ्जल्कौ दलं संवर्तिका नवम् ।पद्माक्षं पद्मबीजं स्यात्का[71b]लोड्यं(?) पद्मकर्कटी ।जलालुकं पद्ममूलं शृङ्गाटं जलकण्टकः ॥ १३ ॥
1.7.13 · p. 112
अनुष्टुप्metre not read in every line
पद्मचारिण्यतिचरा पद्मा पद्मावती च सा ।;l(2450}चारटी गन्धमूला च लक्ष्मीः श्रेष्ठा सुपुष्कला ॥ १३ ॥
1.7.13 · p. 112
अनुष्टुप्Latin letters: l
त्रिकस्त्रिकोणस्त्रिकटो वारिपर्णी तु कुम्भिका ।वृकधूमो ढण्ठणश्च हठः पानीयपादपः ॥वारासनं वाःसदनं पर्णसिर्जलमन्दिरम् ।समुद्रगृहमित्याहुर्जलयन्त्रनिकेतनम् ॥ १४ ॥
1.7.14 · p. 112
अनुष्टुप्
;l(2455}धारायन्त्रं प्रणालीभिर्यत्र वारि प्रणीयते ।करपत्रं जलक्रीडा व्यात्युक्षी करपत्रिका ॥ १५ ॥
1.7.15 · p. 112
अनुष्टुप्metre not read in every lineLatin letters: l
इत्थं परात्म-स्वर्व्योम-काल-धी-नाट्य-वारिभिः ।वर्षैः सप्तभिराम्नातः स्वःकाण्डः साङ्ग आदिमः ॥ १६ ॥
1.7.16 · p. 112
अनुष्टुप्