सेतु
setuपुं · masc.In 14 kośas: 20 synonym verses, 4 as a nānārtha head word, 14 as a meaning of another word.
genderपुंmasc.
genderपुंmasc.
चक्राणि पुटभेदाः स्युः सेतुर्वरण उच्यते ।आतरस्तरपण्यं च तल्पं स्यादुडुपः प्लवः ॥ ६७१ ॥
अनुष्टुप्
genderपुंmasc.
कृषिर्वणिक्पथो दुर्गं सेतुः कुञ्जरबन्धनम् ।खन्याकरबलादानं शून्यानां च निवेशनम् ॥ १०७ ॥
अनुष्टुप्
genderपुंmasc.
शेलुः शीतफलः सेतुरुद्दालः कर्वुदारुकः ।भूतद्रुमो गन्धपुष्पः क्षुद्रश्लेष्मातकोऽपरः ॥ १४१ ॥
अनुष्टुप्
genderपुंmasc.
तोयेन सहिते शैलबिलटङ्को(?) नृषण्डयोः ।आधारोऽम्भो बन्धनं स्यात्त्वालिः पालिश्च पिण्डिलः ।पुंसि सेतुर्वरण्डः स्यात्समुद्रारुश्च संवरः ॥ ५१ ॥
अनुष्टुप्
genderपुंmasc.
अञ्जीरं मञ्जुलं च स्यात्काकोदुम्बरिकाफलम् ।वरुणो वरणो रोधस्तरुः सेतुस्तमालकः ॥ ४१ ॥
अनुष्टुप्
genderपुंmasc.
रुशब्दान्तास्तुशब्दान्तास्तु कशेरुदारुजतुवस्तुमस्तुभिस्त्यक्ता रहिताः । सग्रन्थिप्रस्था पुंसि भवेयुरित्यर्थः । यथाऽयं त्सरुः खड्गमुष्टिः । भरुर्भर्त्ता । मरुर्निर्जलो देशः । चरुर्मन्त्रतप्तपाकः । शत्रुः रिपुः । तरुर्वृक्षः । मरुर्मृगः । मेरुः पर्वत इत्यादिः । अयं केतुरुत्पातः । सेतुः बन्धः । हेतुः कारणम् । तन्तुः षट्प्रकृतिः । धातुः श्लेष्मादिः । कशेरुप्रभृतयो नपुंसके भवन्ति । इदं कशेरु भूसम्भवम् । इदं दारु काष्ठम् । जतु लाक्षा । वस्तु वाक्यप्रबन्धहेतुः । मस्तु दधिसम्भवम् । ग्रन्थिप्रस्थौ च पुंसि भवतः । अयं ग्रन्थिः गाण्ठिरिति प्रसिद्धः । प्रस्थः परिमाणम् । इसन्तानामुसन्तानां च घ्यञन्तानां च नपुंसकता स्यात् । इदं सर्पिः घृतम् । हविर्देवान्नम् । बर्हिः पवित्रमित्यादि । इदं वपुः शरीरम् । आयुः जीवितपरिमाणम् । धनुः शस्त्रमित्यादिः । ष्य[घ्य]ञ्ग्रहणेन "वर्णदृढादिभ्यः ष्य[घ्य]ञि"ति गृह्यते । न ब्राह्मणादिभ्यः । सौकुमार्य्यं शौक्ल्यं[क्यं] कार्ष्ण्यं[र्त्स्न्यं] दाक्ष्यमित्यादि ।पुंसि स्त्रियां च पाटलिगोमुष्ट्यशनिबाहुसिन्धुमणयः ।आशीर्धूःपूक्षुत्तृ[तृ]ड्गिरः स्त्रियां मुद्रुषौ च ॥ ४६ ॥
metre not recognised
त्सरुपुंभरुपुंमरुपुंचरुपुंशत्रुपुंतरुपुंमेरुपुंकेतुपुंसेतुपुंहेतुपुंतन्तुपुंधातुपुंकशेरुक्लीदारुक्लीजतुक्लीवस्तुक्लीमस्तुक्लीग्रन्थिपुंप्रस्थपुंसर्पिस्क्लीहविस्क्लीबर्हिस्क्लीवपुस्क्लीआयुस्क्लीधनुस्क्लीसौकुमार्यक्लीशौक्ल्यक्लीकार्ष्ण्यक्लीदाक्ष्यक्लीपाटलिपुंस्त्रीगोपुंस्त्रीमुष्टिपुंस्त्रीअशनिपुंस्त्रीबाहुपुंस्त्रीसिन्धुपुंस्त्रीमणिपुंस्त्रीआशिस्स्त्रीधुर्स्त्रीपुर्स्त्रीक्षुध्स्त्रीतृष्स्त्रीगिर्स्त्रीमुद्स्त्रीरुष्स्त्री
genderपुंmasc.
श्वेतपुष्पः श्वेतफलस्तमालो मारुतापहः ।शीधुवृक्षः श्वेतवृक्षः सेतुरश्मरिकारिपुः ॥ १३२ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 श्वे (wrong syllable)
genderपुंmasc.
सूरः सूर्ये गभस्तौ च स्वेदस्तु स्वेदवारिणि ।स्वेदनायां तथा स्वित्तिक्रियायामथ सेतुवाक् ॥ १३४ ॥
अनुष्टुप्
genderपुंmasc.
यत्राशिताः पुरा गावः क्षेत्रं वप्रस्तथोच्यते ।केदारः सेतुपाल्यालिसंवराः सारणिः स्तथा ॥ २५२ ॥
अनुष्टुप्
genderपुंmasc.
आलिश्चाली तथा पालिः पाली सेतुश्च संवरः ॥ १६४५ ॥
अनुष्टुप्
genderपुंmasc.
भूतपूर्वन्तु गोस्थानं गौष्ठीनं तत् प्रकीर्तितम् ।पर्यन्तभूमिः शैलादेर्भवत् परिसरो मतः ।आलिः स्त्रियां पुमान् सेतुस्तथा पिण्डिलसञ्चरौ ॥
अनुष्टुप्
genderपुंmasc.
वरुणस्तिक्तशाकः स्यादश्मरीघ्नः कुमारकः ।वरणः सेतुकः सेतु वराणः शिखिमण्डनः ॥
अनुष्टुप्
genderपुंmasc.
वरणे सिततरुवरुणौ सेतुकुमारौ च तिक्तशाकश्च ।अभया पूतना पथ्या हरीतक्यमृता शिवा ॥ ४६३ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
सेतुर्दुर्गं वनादानं खनिक्षेत्रं वणिक्पथः ।गजबन्धः कृषिः शून्यदेशानां च निवेशनम् ॥ १२७४ ॥
अनुष्टुप्
genderपुंmasc.
क्रिमिशैलस्तु वल्मीकः शक्रमूर्धाऽथ सञ्चरः ।धरणः पिण्डलः सेतुः पन्थास्तु क्षुल्लमो वहः ॥ १८ ॥
अनुष्टुप्
genderपुंmasc.
हेमपुष्पोऽप्यथांकोले निचोलोंऽकोढशोधनौ ।रसाले वरणः सेतुस्तिक्तशाकोऽश्मरीरिपुः ॥ ४१ ॥
अनुष्टुप्
genderपुंmasc.
तत्राष्टवर्ग आरंभः कृषिः सेतुर्वणिक्पथः ।खनिस्थानं वनच्छेदो दुर्गं शून्यनिवेशनम् ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
आवालमालवालं स्यात्सेतौ वारणसंवरौ ।उदधिः सागरोऽपारो जलराशिरपांपतिः ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
वरणाख्यद्रुमे वारिबन्धेऽप्यायतने तथा ।स्नेहुः पित्ते तथा रोगविशेषे सन्निपातगे ॥ १३५ ॥
अनुष्टुप्
doubtful
सेतु as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् वरणसेतौ च वरणो वेणी नदीभेदे कचोच्चये । Amarakośa 3.3.112
- धरणिकोश आलिलीला विलासक्रिययोर्हेलावज्ञाविलासयोः । आलिः सेतुः सखी पङ्क्तिः पल्ली ग्रामकुटी तथा ॥ Dharaṇikośa 27.1.4
- कोषकल्पतरु वरणजीर्णे वाच्यसमं पुराणमयुगे स्यात्पञ्चलक्ष्मण्यपि ग्रन्थे भोगिकनायके क्षुरिणि ना ग्रामाधिपे ग्रामणीः । श्रेष्ठे च त्रितये स्त्रियां तु गदिता नील्यां च वारस्त्रियां ग्राम्यायां च घृणौ तु[284a] पुंसि किरणो विक्षेपणे त्वन्तिमे । द्रुमभित्सेतुशालेषु वरणो नान्तिमे वृतौ । गुणिन्यृजौ च प्रगुणो रवणः शब्दने खरे ॥ ४८ ॥ Koṣakalpataru 6.15.48
- कोषकल्पतरु पङ्कारसम्मार्जन्यवगुण्ठितेऽनलचटत्कारे तथा संकरः स्त्री पुंदूषितकन्यकास्वथ भवेत्पङ्कार आरोहणे । सेतौ शैवलवारिकुब्जकगतः संस्कार उक्तो बुधैः संकल्पप्रतियत्नयोरनुभवेऽथो पक्षिणां पञ्जरे ॥ ५१ ॥ Koṣakalpataru 6.27.51
- कोषकल्पतरु आलिपत्राञ्जनेऽलिस्तु युगे द्विरेफे मद्ये स्त्रियां पुंसि तु वृश्चिके स्यात् । आलिस्तु पङ्क्तावपि सेतुसख्योः कलिः पुमान्स्यात्कलहे च युद्धे ॥ ८७ ॥ Koṣakalpataru 6.28.87
- नानार्थार्णवसंक्षेप आलिआलिमर्थत्रये विद्यात् सेतौ सख्यां तथैव च । आवलावप्यथालूः स्याद् योनिव्याधौ वनस्पतौ ॥ ९ ॥ Nānārthārṇavasaṃkṣepa 2.1.9
- नानार्थार्णवसंक्षेप पालिसेतौ कर्णलतायां च प्रदेशे च त्सरुच्छदे । जातश्मश्रुस्त्रियां क्षेत्रे वप्रेऽथ प्राप्तिवागियम् ॥ ६८ ॥ Nānārthārṇavasaṃkṣepa 2.1.68
- नानार्थार्णवसंक्षेप वारणविकारे वरणाख्यस्य तरोर्वरणयोगिनि । ना तु सेतौ स्त्रीनपोस्तु वारणा स्यान्निवारणे ॥ १६५५ ॥ Nānārthārṇavasaṃkṣepa 4.1655
- परमानन्दीयनाममाला पालिपत्राणां निचये योग्ये पत्री बाणे खगे रथे । श्येने पालिः स्मृता सेतौ कर्णपाल्यां स्थितौ ततौ ॥ २८९ ॥ Paramānandīyanāmamālā 5.19.289
- शब्दरत्नावली पङ्कारपङ्कारः सेतुसोपानशैवलेष्वम्बुकुब्जके । प्रसरः प्रणये वेगे समूहेऽपि च कुत्रचित् ॥ Śabdaratnāvalī 7.27.85
- शब्दरत्नावली आलिअलिः सुरायां भ्रमरे काककोकिलयोरपि ॥ आलिः सख्यां सेतुपंक्त्योः सन्ततौ विशदाशये । आलुर्गलन्तिकायां स्त्री क्लीबं पेचकमूलयोः ॥ Śabdaratnāvalī 7.28.2
- शब्दरत्नाकर वारणवरणो भूरुहे वप्रे वर्तकोऽश्वखुरे खगे । वारणः सेतुगजयोर्वञ्चकौ धूर्तजम्बुकौ ॥ २१६० ॥ Śabdaratnākara 4.1.2160
- त्रिकाण्डशेष आलिआलिः सेतुः सखी यज्वा शौण्डिकश्चाऽसुतीवलः । आभीलं भीषणे कृच्छ्रे इला भूवाग्बुधाङ्गनाः ॥ ३८२ ॥ Trikāṇḍaśeṣa 3.3.382
- वैजयन्ती आलिआलिः सेतौ सखीपङ्क्त्योराशा दिगतितृष्णयोः । आजिः समेऽपि भूभागे गोनाडीभूद्युवाक्ष्विडा ॥ ३ ॥ Vaijayantī 6.2.3