कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पारावती

pārāvatīस्त्री · fem.

In 6 kośas: 2 synonym verses, 4 as a nānārtha head word.

कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.431 · p. 180
रासस्तु गोदुहां क्रीडा गीतिः पारावती स्त्रियाम् ।गोपगोपालगोसंख्यगोधुगाभीरवल्लवाः ॥ ४३१ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.49 · p. 156
सुगन्धामलक ह्येते (?) भवेत्पारावती पुनः ।ज्योत्स्ना मुक्ताफलं राजामलकी लवली च सा ॥ ४९ ॥
अनुष्टुप्
genderस्त्रीfem.
धरणिकोश Dharaṇikośa · धरणिदास तार्धश्लोकः Dharaṇikośa 15.2.64 · p. 77
पारावती तु गोपानां गीते पारावतः खगः ।समुद्रान्ता तु कार्पासी पृक्का चापि दुरालभा ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र तच Śivakoṣa 12.3.206 · p. 19
पारावती श्यामले ना जम्भीले कपितिन्दुके ।अथ पीतरक्त उदितो बाल्हीके पद्मके कुसुम्भे च ॥ २०६ ॥
metre not recognised
शब्दरत्नावली Śabdaratnāvalī · मथुरेश तान्ताः Śabdaratnāvalī 7.16.171 · p. 225
पारावती नदीगोपगीत्योश्च लवलीफले ।पारावतः कलरवे पुमान् मर्कटतिन्दुके ॥पुष्पदन्तो भवेद्विद्याधरे दिग्वारणान्तरे ।भगवान् त्रिषु पूज्ये स्याद् गौर्यां स्त्री तु जिने पुमान् ॥स्त्रियां भोगवती गङ्गा सर्पपुर्योरहौ पुमान् ।रङ्गमाता च कुट्टन्यां रोगवृक्षभिदोः(?) स्त्रियाम् ॥लक्ष्मीपतिर्नरपतौ वासुदेवे भवेत्पुमान् ।व्यतिपातो योगभेदे महोत्पातापमानयोः ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.166 · p. 148
प्रतिपत्तिश्चित्प्रवृत्तिः प्राप्तिः प्रागल्भ्यगौरवे ।पारावती गोपगीतिलवलीफलयोरपि ॥ १६६ ॥
अनुष्टुप्