रास
rāsaपुं · masc.In 7 kośas: 5 synonym verses, 4 as a nānārtha head word, 2 as a meaning of another word.
रासस्तु गोदुहां क्रीडा गीतिः पारावती स्त्रियाम् ।गोपगोपालगोसंख्यगोधुगाभीरवल्लवाः ॥ ४३१ ॥
अनुष्टुप्
genderपुंmasc.
अडुतालस्ततो रास एकताली क्रमादिमे ।जयन्तः शेखरोत्साहौ तद्वन्मधुरनिर्मलौ ॥ २९ ॥
अनुष्टुप्
genderपुंmasc.
देवनं कूर्द्दनं खेला खेलो विहृतिरित्यपि ।क्रीडा च ललनं चाथ तस्यां प्रहरणं यदा ॥दण्डा हि(दि?)स्यात्तदा दाण्डा मौष्टा याष्टैवमुन्नयेत् ।आवीनकं तर्णकानां स्थालीषु क्रीडनं मतम् ॥रासो रासे रसो गो(?)धुग्जनस्य क्रीडनं मतम् ।विप्रलम्भो विसंवादोऽभ्युपपत्तिरनुग्रहः ॥ १९४ ॥
अनुष्टुप्
genderपुंmasc.
हवो हूतौ तथा गीर्णिर्गिरौ गुरणमुद्यमे ।क्षिपा क्षेपे नयो नाये रसे रासः स्नवः स्रवे ॥ १६९७ ॥
अनुष्टुप्
genderपुंmasc.
ताण्डवोऽस्त्री नृत्तलास्यनटनाक्षजनर्तनम् ।नटितिर्नाटकी रासो नृत्तं बाह्यं स्वकल्पितम् ॥ ७३ ॥
अनुष्टुप्
genderपुंmasc.
भाषाशृङ्खलके रासः क्रीडायामपि गोदुहाम् ।रहो रते च गुह्ये च रभसो हर्षवेगयोः ॥ ४५० ॥
अनुष्टुप्
रास as a meaning in nānārtha verses
- कोषकल्पतरु रासेरसखर्जूरे च कसेर्वां भवति तथा कोशकारैश्च । रासेरसस्तु रासे रससिद्धौ स्याद्बलौ तद्वत् ॥ १८ ॥ Koṣakalpataru 6.31.18
- शब्दरत्नावली रसरासे रसस्तु शृङ्गारे गोष्ठामुत्सवरासयोः । राजहंसो नृपश्रेष्ठे कादम्बकलहंसयोः ॥ Śabdaratnāvalī 7.32.52