All kośas › Kalpadrukośa
कल्पद्रुकोशः Kalpadrukośa
4,306 verses · 27,819 words tagged · 4,643 marked doubtful (dashed)
भूमिस्कन्धः · वैश्यादिप्रकाण्डः (4/6)
रुद्रैला त्रिपुटा पृथ्वी कल्पाप्यैन्द्री कुमारिका ।खरीका त्वजमोदापि वार्कटी हस्तिकारवी ॥ ३६१ ॥
1.7.361 · p. 172
अनुष्टुप्
गन्धपत्री गन्धदला मयूरी वह्निदीपिका ।शिखिमोदा प्रमोदाढ्या ब्रह्मकोशा च मोदिनी ॥ ३६२ ॥
1.7.362 · p. 173
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ग (wrong syllable)
फलमुख्या गन्धरता विशाला चाथ नन्दिनी ।रेणुका कपिला कान्ता महिला राजपुत्र्यपि ॥ ३६३ ॥
1.7.363 · p. 173
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ग (wrong syllable)
हरेणुकायां दुष्पुत्रा द्विजा रेणुर्हिमा धवा ।धर्मिणी कपिला नृत्ता शान्ता हैमवती ह्युमा ॥ ३६४ ॥
1.7.364 · p. 173
अनुष्टुप्
अस्त्री रक्तापहं बोलं सौरलं रक्तगन्धिकम् ।रसगन्धं महागन्धं सुरसं पिण्डिकं विषम् ॥ ३६५ ॥
1.7.365 · p. 173
अनुष्टुप्
निर्लोहं वर्वरं मुण्डं विश्वं गन्धरसं पुनः ।विश्वगन्धं व्रणारिः स्यात् स्मृत्याह्वमथ दुर्लभः ॥ ३६६ ॥
1.7.366 · p. 173
अनुष्टुप्
कर्चूरो द्राविडः काशो जटालो गन्धमूलकः ।वेधमुख्यो गन्धसारस्तवक्षीरं तु तालजम् ॥ ३६७ ॥
1.7.367 · p. 173
अनुष्टुप्
गोधूमजं पिष्टिकोत्थं पवनं तण्डुलोद्भवम् ।वनगोदुग्धजं चापि पयः क्षीरमथापि च ॥ ३६८ ॥
1.7.368 · p. 173
अनुष्टुप्
तालीसपत्रं तालीसमन्नाद्यं च शुकोदरम् ।धात्रीपत्रं चार्कवेधं करिपत्रं तमाह्वयम् ॥ ३६९ ॥
1.7.369 · p. 173
अनुष्टुप्
तालं नीलाम्बरं नीलं तुङ्गा तु वंशरोचना ।क्षीरी वांशी च शुभ्रापि वनेन्दुर्वंशशर्करा ॥ ३७० ॥
1.7.370 · p. 173
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)
मञ्जिष्ठा हरिणी रक्ता गौरी योजनवल्ल्यपि ।मङ्गला विकसा पद्मा रोहिणी कालमेषिका ॥ ३७१ ॥
1.7.371 · p. 174
अनुष्टुप्
भण्डी चित्रलता चित्रा चित्राङ्गी जननी च सा ।मण्डूकपर्णी विजया रागाढ्या रक्तयष्टिका ॥ ३७२ ॥
1.7.372 · p. 174
अनुष्टुप्
ज्वरहन्त्र्यरुणा छत्रा भण्डीरी वस्त्रभूषणा ।रागाङ्गी चाभिमण्डीरलता नागकुमार्यपि ॥ ३७३ ॥
1.7.373 · p. 174
अनुष्टुप्
सिंहली योजनी कौन्ती चोलो ना स चतुर्विधः ।लाक्षा खदिरिका रक्ता रङ्गमाता पलङ्कषा ॥ ३७४ ॥
1.7.374 · p. 174
अनुष्टुप्
जतुरस्त्री कृमिघ्नी स्त्री द्रुमार्थादामयार्थकः ।दीप्तिः पलाशी जतुका जतूका गन्धमादिनी ॥ ३७५ ॥
1.7.375 · p. 174
अनुष्टुप्
पित्तघ्नी स्याद्द्रवरसा लक्तको मुद्रिणी च सा ।निर्भर्त्सनो जतुरसो जननी जनकार्यपि ॥ ३७६ ॥
1.7.376 · p. 174
अनुष्टुप्
चक्रवर्त्तिनी सङ्घर्षा लोध्रो रोध्रश्च शांवरः ।हेतुपुष्पः काण्डचीलस्तिलको हस्तिलोध्रकः ॥ ३७७ ॥
1.7.377 · p. 174
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 नी (wrong syllable)
तिरीटस्तिलको भिल्लतरुश्चाथ बृहद्वलः ।कटुकः पट्टिकारोध्रः पट्टी लाक्षाप्रसादनः ॥ ३७८ ॥
1.7.378 · p. 174
अनुष्टुप्
वल्कलोध्रो बृहद्वक्रः शीर्णवल्कोक्षिभेषजम् ।मालवो जीर्णबुध्नोऽपि वह्निपुष्पी तु धातकी ॥ ३७९ ॥
1.7.379 · p. 174
अनुष्टुप्
अग्निज्वाला मद्यपुष्पा कुञ्जरा मद्यवासिनी ।धाविन्यपि सुभिक्षा स्याद्बहुपुष्पा च पार्वती ॥ ३८० ॥
1.7.380 · p. 175
अनुष्टुप्
गुच्छसंघादिपुष्पान्ता कुमुदा कुञ्जराप्यथ ।स्यात्समुद्रार्थोत्तरगफलपर्याय्यथो वृकी ॥ ३८१ ॥
1.7.381 · p. 175
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्थो (wrong syllable)
श्रेयसी स्वापनी पाठा प्राचीना पापचेलिका ।अम्बष्ठा पथिका तिक्ता बृहत्तिक्ता च दीपनी ॥ ३८२ ॥
1.7.382 · p. 175
अनुष्टुप्
एकाष्ठीला विद्धकर्णी कुचेली शिशिरा वरा ।वरतिक्ता वृत्तपर्णी चूषा देवी च मालवी ॥ ३८३ ॥
1.7.383 · p. 175
अनुष्टुप्
कटुका जननी तिक्ता रोहिणी शकुलादनी ।मत्स्यपित्ता च चक्राङ्गी शतपर्वा वसादनी ॥ ३८४ ॥
1.7.384 · p. 175
अनुष्टुप्
तत्र कृष्णा काण्डरुहाप्यरिष्टा कटुरोहिणी ।आमघ्न्यरिष्टा केदारकटुः कट्वञ्जनी कटुः ॥ ३८५ ॥
1.7.385 · p. 175
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable)
अशोकरोहिणी चापि महौषध्यथ भङ्गुरा ।विरूपातिविषा श्वेतकन्दा विश्वा महौषधी ॥ ३८६ ॥
1.7.386 · p. 175
अनुष्टुप्
विषरूपा श्यामकन्दा शृङ्गी श्वेतवचारुणा ।उपात्प्रप्रत्योर्विषाथ सुगन्धिर्ग्रन्थिला हिमा ॥ ३८७ ॥
1.7.387 · p. 175
अनुष्टुप्
कुरुविन्दी भद्रमुस्ता वाराही क्रोडवल्लभा ।गुन्द्रा कसेरुर्भद्रापि मेधाह्वा स्यात् द्वयोरपि ॥ ३८८ ॥
1.7.388 · p. 175
अनुष्टुप्
गाङ्गेया वनजा राजकसेरुः कच्छजापि सा ।अन्या नागरमुस्ता स्यात्सैव प्रोक्ता घनार्थका ॥ ३८९ ॥
1.7.389 · p. 176
अनुष्टुप्
नगरोत्था च चक्राङ्गा पिण्डमुस्ता कलापिनी ।नादेयी शिशिरापि स्याच्चूडाला वासकेसरा ॥ ३९० ॥
1.7.390 · p. 176
अनुष्टुप्
ध्वाङ्क्ष्युच्चटा कचरुहा मधुकं तु मधुस्रवा ।मधुवल्ली मधूकं षण् यष्ट्याह्वं यष्टिकामधु ॥ ३९१ ॥
1.7.391 · p. 176
अनुष्टुप्
अथान्यत् क्लितनीयं स्यात् क्लीतनं मधुवल्ल्यपि ।शोषापहा मधुरसा सातिसौम्या मधूल्यपि ॥ ३९२ ॥
1.7.392 · p. 176
अनुष्टुप्
भार्गी गर्दभवल्ली स्यात् फञ्जिकाङ्गारवल्लरी ।सुरूपा भ्रमरेष्टापि शक्रमाताथ मूलके ॥ ३९३ ॥
1.7.393 · p. 176
अनुष्टुप्
वीरं पुष्करमूलं स्यात् पौष्करं पद्मपत्रकम् ।सारिपक्षं ब्रह्मतीर्थं शृङ्गी तु वनमूर्द्धजा ॥ ३९४ ॥
1.7.394 · p. 176
अनुष्टुप्
कुलीरशृङ्गी चक्राङ्गी घोषा चण्डा कलिङ्गका ।महाघोषा चेन्दुखण्डा कर्कराह्वा लताङ्ग्यपि ॥ ३९५ ॥
1.7.395 · p. 176
अनुष्टुप्
निकुम्भी तु श्योनघण्टा नागस्फोता च रेचनी ।भद्रारूक्षा पवित्रा स्यादनुकूला विशोधनी ॥ ३९६ ॥
1.7.396 · p. 176
अनुष्टुप्
एरण्डफलपत्रापि विशल्या तरुणीत्यपि ।उदुम्बरदला कुम्भी साथ केशरुहापरा ॥ ३९७ ॥
1.7.397 · p. 176
अनुष्टुप्
भिषग्भद्रावर्त्तका च भद्रा दन्ती जयावहा ।क्षराङ्गी सारकस्त्वस्त्री जयपालोऽपि रेचकः ॥ ३९८ ॥
1.7.398 · p. 177
अनुष्टुप्
दन्तीबीजं मलद्रावि तिन्तिडीफलमित्यपि ।कुम्भी घण्टाभवं बीजमथ मालविका त्रिवृत् ॥ ३९९ ॥
1.7.399 · p. 177
अनुष्टुप्
श्यामार्द्धचन्द्रा विदला कालिङ्गी कालमेष्यपि ।मसूरा सुषणी काली त्रिवेला स्यादथापरा ॥ ४०० ॥
1.7.400 · p. 177
अनुष्टुप्
कालिन्दी त्रिपुटा काकनासिका ताम्रपुष्प्यपि ।अमृताथ त्वचं भृङ्गं वल्कं वल्कलमित्यपि ॥ ४०१ ॥
1.7.401 · p. 177
अनुष्टुप्
कलशं सिंहलं वन्यं वराङ्गी मुखशोधनम् ।बहुगन्धं च सुरसमुत्कटं रामवल्लभम् ॥ ४०२ ॥
1.7.402 · p. 177
अनुष्टुप्
तदेवोक्तं विज्जलं स्याल्लटवर्णं नवप्रियम् ।गन्धवल्कं तापसं तु सुरगन्धं च गोपनम् ॥ ४०३ ॥
1.7.403 · p. 177
अनुष्टुप्
सुकुमारं च पत्राह्वमंशुकाह्वं च पत्रकम् ।तमालपत्रमथ च किञ्जल्कं कनकाह्वयम् ॥ ४०४ ॥
1.7.404 · p. 177
अनुष्टुप्
चाम्पेयं नागपर्यायकेसरे नागनामकम् ।स्यान्निर्विषात्यपविषा विषहन्त्री विषादिनी ॥ ४०५ ॥
1.7.405 · p. 177
अनुष्टुप्
महौषधं विषं चोग्रं वत्सनाभः पुमानयम् ।नागपर्यायकश्चाथ षड्ग्रन्थाम्लनिशा वधूः ॥ ४०६ ॥
1.7.406 · p. 177
अनुष्टुप्
सुगन्धमूला च सठी गन्धारी पृथुपर्ण्यपि ।समुद्रा तृणपूर्वापि हिमजा गन्धतो वधूः ॥ ४०७ ॥
1.7.407 · p. 178
अनुष्टुप्
समुद्रार्थोत्तरं फेनमथ फेनं निफेनकम् ।फेनं च खस्खसरसो लोहद्रावी तु टङ्कणः ॥ ४०८ ॥
1.7.408 · p. 178
अनुष्टुप्
रसाधिको रसघ्नश्च रङ्गक्षारोऽपि रङ्गदः ।सुभगष्टङ्कणक्षारो मलिनो धातुवल्लभः ॥ ४०९ ॥
1.7.409 · p. 178
अनुष्टुप्
वर्त्तुलः कणकः क्षारश्चाथन्यच्छ्वेतटङ्कणम् ।मालतीतीरसम्भूतं शिवो द्रावकरश्च सः ॥ ४१० ॥
1.7.410 · p. 178
अनुष्टुप्
स्यात्कुरण्डो ग्रन्थिफलो विटपो वस्त्रभूषणः ।हिमावली च हृद्धात्री कुष्ठघ्नो रागकुष्ठकः ॥ ४११ ॥
1.7.411 · p. 178
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ग्र (wrong syllable)
ग्रन्थिलोङ्गारग्रन्थिः स्यात्सुवर्चास्तु सुवर्चिकः ।स्वर्जिकः स्वर्चिकक्षारो लवणासुरमेदजे ॥ ४१२ ॥
1.7.412 · p. 178
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र (wrong syllable)
जलजं लवणक्षारमथ पाक्यो यवाग्रजः ।यवसारो यताह्वः स्याद्यवशूकोऽथ षण् सरम् ॥ ४१३ ॥
1.7.413 · p. 178
अनुष्टुप्
वज्रक्षारं च धूमोत्थं क्षारश्चेष्टं विदारकम् ।वज्रकं स्यादथ पुनर्मलारिः क्षारमेलकः ॥ ४१४ ॥
1.7.414 · p. 178
अनुष्टुप्
सर्वक्षारो बहुक्षारो महाक्षारोऽथ मायिका ।मायाफलं मायिफलमपिच्छिद्राफलं पुनः ॥ ४१५ ॥
1.7.415 · p. 178
अनुष्टुप्
पानीयालुरनूपालुर्नीलालुः शुक्लकन्दकः ।शुभालुर्महिषीकन्दः सर्पाख्यो वनवास्यपि ॥ ४१६ ॥
1.7.416 · p. 179
अनुष्टुप्
विषकन्दोथातिहस्तिस्थूलेभ्यः कन्दपत्रकाः ।बृहत्त्वग्दीर्घपत्रोऽथ कृमिघ्नो वस्त्रपञ्जरः ॥ ४१७ ॥
1.7.417 · p. 179
अनुष्टुप्
कोलकन्दश्च पेटालुः सुपुटः पेटकन्दकः ।पिञ्जरोप्यथ वाराही ब्रह्मपुत्री च यष्टिका ॥ ४१८ ॥
1.7.418 · p. 179
अनुष्टुप्
विष्वक्सेनप्रिया चापि त्रिनेत्राथ हरिप्रियः।विष्णुकन्दो विष्णुगुप्तः सुपुटो बहुसंपुटः ॥ ४१९ ॥
1.7.419 · p. 179
अनुष्टुप्
जलवासी बृहत्कन्दो दीर्घपत्रोऽथ धारणी ।चिरपत्री धारणीया कन्दालुश्च सुकन्दकः ॥ ४२० ॥
1.7.420 · p. 179
अनुष्टुप्
वनकन्दश्च कन्दाढ्यो दण्डकन्दोथ नाकुली ।सर्पगन्धी रक्तपत्री सुगन्धा स्वरसेश्वरी ॥ ४२१ ॥
1.7.421 · p. 179
अनुष्टुप्
सम्मादन्यपरा तु स्यात्सुवहा गन्धनाकुली ।महासुगन्धा सर्पाक्षी फणिभुग्विषमर्दिनी ॥ ४२२ ॥
1.7.422 · p. 179
अनुष्टुप्
नकुलाढ्या पङ्क्तिमालावारिभ्यः कन्द इत्ययम् ।ग्रन्थिपर्णा कन्दलता त्रिशिखाथ विदारिका ॥ ४२३ ॥
1.7.423 · p. 179
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 क (wrong syllable)
शीतशुक्ला स्वादुकन्दा गजेष्टा वाजिवल्लभा ।शृगाली वृष्यगन्धा च विडाली वृष्यवल्ल्यपि ॥ ४२४ ॥
1.7.424 · p. 179
अनुष्टुप्
भूकूष्माण्डी कन्दफला सैव स्वादुलतापरा ।क्षीरात्कन्दो विदारी स्यादिक्षोर्गन्धा च वल्लरी ॥ ४२५ ॥
1.7.425 · p. 180
अनुष्टुप्
पयस्विनी मलघ्नस्तु वनवासी च विजुलः ।अपि स्याच्छाल्मलीकन्दश्चाथ चाण्डालकन्दकः ॥ ४२६ ॥
1.7.426 · p. 180
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 वि (wrong syllable)
एकद्वित्रिचतुःपञ्चपत्रः सोक्तश्च पञ्चधा ।तैलकन्दो द्रावकन्दस्तिलाङ्कितदलश्च सः ॥ ४२७ ॥
1.7.427 · p. 180
अनुष्टुप्
करवीराख्यकन्दः स्यात्स चोक्तस्तिलचित्रकः ।त्रिपर्णिका बृहत्पत्रा छिन्नग्रन्थिनिका च सा ॥ ४२८ ॥
1.7.428 · p. 180
अनुष्टुप्
कन्दालुः कन्दबहुला साम्लवल्ली विषापहा ।लक्ष्मणा पुत्रकन्दा स्यात् पुत्रदा मानिनी च सा ॥ ४२९ ॥
1.7.429 · p. 180
अनुष्टुप्
नागाह्वा फलिनी मज्जा चासृग्विन्दुच्छदाप्यथ ।कामं प्रकामं पर्याप्तं निकामेष्टे यथेप्सितम् ॥ ४३० ॥
1.7.430 · p. 180
अनुष्टुप्
रासस्तु गोदुहां क्रीडा गीतिः पारावती स्त्रियाम् ।गोपगोपालगोसंख्यगोधुगाभीरवल्लवाः ॥ ४३१ ॥
1.7.431 · p. 180
अनुष्टुप्
गोदुहोऽप्यथ तद्भेदा गोजाव्युष्ट्रादिपालनात् ।गोमहिष्यादिकं पादबन्धनं पदबन्धनम् ॥ ४३२ ॥
1.7.432 · p. 180
अनुष्टुप्
गोविन्दो गोष्वधिकृते महिषस्तु रजस्वलः ।स्याद्धंसकालीतनयो दंशपर्यायभीरुकः ॥ ४३३ ॥
1.7.433 · p. 180
अनुष्टुप्
महो जरन्तो रक्ताक्षो धीरस्कन्धश्च सैरिभः ।यमार्थवाहनार्थोऽपि कृष्णशृङ्गश्च कासरः ॥ ४३४ ॥
1.7.434 · p. 181
अनुष्टुप्
श्चङ्कः स्कन्धश्च हेरम्बो हाहः स्याद्गद्गदस्वरः ।अश्वपर्यायशत्र्वर्थो लालिकोऽथ वनोद्भवः ॥ ४३५ ॥
1.7.435 · p. 181
अनुष्टुप्
गवलो महिषी तु स्याद्धंसकाली तु सैरिभी ।कलुषा मन्दगमना महाक्षीरा पयस्विनी ॥ ४३६ ॥
1.7.436 · p. 181
अनुष्टुप्
जायमानविषाणाग्रे कटाहस्तच्छिशुर्द्वयोः ।गोमी गवेश्वरो गोमान् गोकुलं गोधनं धनम् ॥ ४३७ ॥
1.7.437 · p. 181
अनुष्टुप्
अस्त्री त्रिष्वाशितं गव्यं गावो यत्राशिताः पुरा ।गवीनं चाथ वृषभः शाक्करो गोवृषो वृषः ॥ ४३८ ॥
1.7.438 · p. 181
अनुष्टुप्
गौरनड्वान् सौरभेयः ककुद्मान् पुंगवो वृषा ।उक्षा भद्रो वलीवर्दः शष्करिर्गन्धमैथुनः ॥ ४३९ ॥
1.7.439 · p. 181
अनुष्टुप्
मदकोहलगोभर्त्त्रर्षभाः शाङ्कर इट्चरः ।शृङ्गी च शृङ्गिणोऽपि स्याद्वहतिर्वहतुः समौ ॥ ४४० ॥
1.7.440 · p. 181
अनुष्टुप्
अथ स्याद्गोपतिः शण्डः शण्ठः षण्डश्च षण्ढवत् ।महान्महोक्षश्चोक्षतरश्चाथापि स्याज्जरद्गवे ॥ ४४१ ॥
1.7.441 · p. 181
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
वृद्धोक्षश्चापि जातोक्षः संजातोक्षश्च नूतने ।गव्या गोत्रा च धेनूनां संहतौ धैनुकं पुनः ॥ ४४२ ॥
1.7.442 · p. 181
अनुष्टुप्
उक्ष्णां स्यादौक्षकं चाथ वत्सानां वात्सकं पुनः ।सद्योजातस्तर्णकः स्याद्दोग्धा वत्सः शकृत्करिः ॥ ४४३ ॥
1.7.443 · p. 182
अनुष्टुप्
आटीकनं क्रमस्तेषां दम्यो वत्सतरः पुनः ।आर्षभ्यः षण्डतायोग्यः कूटो भग्नविषाणकः ॥ ४४४ ॥
1.7.444 · p. 182
अनुष्टुप्
खण्डार्द्धशृङ्गो वण्डस्तु च्छिन्नपुच्छार्थकस्त्रिषु ।कालेप्यजातशृङ्गस्तु मुण्डस्तुवरतूवरौ ॥ ४४५ ॥
1.7.445 · p. 182
अनुष्टुप्
भुग्नशृङ्गस्तु मीठः स्यात्स्कन्धशृङ्गस्तु दोलितः ।मृगशृङ्गे तु हरिणः कूटाद्याः स्युरमी त्रिषु ॥ ४४६ ॥
1.7.446 · p. 182
अनुष्टुप्
स्त्रियां ककुत्त्वंसकूटं ककुदं पुनरस्त्रियाम् ।स्कन्धप्रदेशे वाहः स्यात्सास्ना तु गलकम्बलः ॥ ४४७ ॥
1.7.447 · p. 182
अनुष्टुप्
कण्ठला जालगोणी स्यात्स्त्रियां रेभा तु रेभणम् ।पुंसि प्रोथो नासिकाग्रं शफं क्लीबे खुरः पुमान् ॥ ४४८ ॥
1.7.448 · p. 182
अनुष्टुप्
शृङ्गमस्त्री विषाणं च स्यात्क्लीबे कूचिका स्त्रियाम् ।नसिप्रोतस्तु नस्योतो न स्यितो न स्तितः समाः ॥ ४४९ ॥
1.7.449 · p. 182
अनुष्टुप्
अथ स्यान्नासिकारज्जुः स्त्रियां नस्ता नसोतिनी ।पृष्ठवाड्युगपार्श्वस्थयुग्यप्रासङ्ग्यशाकटाः ॥ ४५० ॥
1.7.450 · p. 182
अनुष्टुप्
हालिकः सैरिको रथ्यस्तत्तद्वोढरि धूर्वहः ।धुर्यो धुरीणो धौरेयो धूर्द्धरश्च धुरन्धरः ॥ ४५१ ॥
1.7.451 · p. 182
अनुष्टुप्
तुल्यावेकधुरीणौ द्वौ स्यातामेकधुरावहौ ।स तु सर्वधुरीणः स्याद्यस्तु सर्वधुरावहः ॥ ४५२ ॥
1.7.452 · p. 183
अनुष्टुप्
गलिर्दुष्टवृषः स स्याद्यः समर्थोऽप्यधूर्वहः ।स्थौरी पृष्ठी पृष्ठवाट् स्यात् स्कान्धिकः स्कन्धवाहिकः ॥ ४५३ ॥
1.7.453 · p. 183
अनुष्टुप्
षोडन् द्विदन् क्रमात् षड्द्विजातदन्ते वृषेऽथ च ।उस्रा स्त्रियां मही माता सुरभी सुरभिर्गवी ॥ ४५४ ॥
1.7.454 · p. 183
अनुष्टुप्
अनड्वाही सौरभेयी वन्दनीया च शृङ्गिणी ।अर्जुन्यनडुही चेडा रोहिणी जगती महा ॥ ४५५ ॥
1.7.455 · p. 183
अनुष्टुप्
शृङ्गी शृङ्गिश्च माहेयी पुनरघ्न्या च गौः स्त्रियाम् ।कर्वुरा पाटला श्वेता शवली च निलिम्पिका ॥ ४५६ ॥
1.7.456 · p. 183
अनुष्टुप्
तुध्रेत्याद्यभिधास्ताः स्युराक्रान्ता वृषभेण या ।संधिनी चाप्यथ स्त्री स्याद्वेहद्गर्भोपघातिनी ॥ ४५७ ॥
1.7.457 · p. 183
अनुष्टुप्
वृषोपगा स्रवद्गर्भा वतोका सन्धिनी वशा ।प्रजनोपसरौ कालः प्रस्रवासन्नकालके ॥ ४५८ ॥
1.7.458 · p. 183
अनुष्टुप्
काल्योपसर्या तत्कालयुताथो बालगर्भिणी ।स्यात्पलिक्नी तु प्रष्ठौह्यामेकाब्दा त्वेकहायनी ॥ ४५९ ॥
1.7.459 · p. 183
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 तु (wrong syllable)
एवं द्वित्रिचतुर्भ्यः स्याद्वर्षपर्यायवाचिका ।स्यादचण्डी तु सुकरा वत्सकामा तु वत्सला ॥ ४६० ॥
1.7.460 · p. 183
अनुष्टुप्
गृष्टिः सकृत्प्रसूता स्याद्धेनुः स्त्री स्यान्नवप्रसूः ।चिरप्रसूर्वष्कयणी वस्कयण्यथ नैचिकम् ॥ ४६१ ॥
1.7.461 · p. 184
अनुष्टुप्
निचिकं च शिरस्तस्या बहुसूः स्यात्परेष्टुका ।दुःखदोह्या तु करटा दुर्दोह्या चाथ सुव्रता ॥ ४६२ ॥
1.7.462 · p. 184
अनुष्टुप्
सैवोक्ता सुखसन्दोह्या पीनोध्नी पीवरस्तनी ।स्याद्बहुद्रोणपर्यायक्षीरपर्यायिनीत्यपि ॥ ४६३ ॥
1.7.463 · p. 184
अनुष्टुप्
वञ्जुली चाथ धेनुष्या द्यूतादिबन्धने स्थिता ।पीतदुग्धा चाथ समां समां यातु विजायते ॥ ४६४ ॥
1.7.464 · p. 184
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 दि (wrong syllable); pāda 3, syllable 5 चा (wrong syllable)
समांसमीनाथापीनमूधः क्लीबे तु पुंसि वा ।स्यादस्त्रियां गोमयं तु पवित्रमुपलेपनम् ॥ ४६५ ॥
1.7.465 · p. 184
अनुष्टुप्
शुष्के तत्र करीषोऽस्त्री त्रिषु गव्यं गवामिदम् ।शिवः पुष्यलकः कीलोऽस्त्रियां संदानबन्धने ॥ ४६६ ॥
1.7.466 · p. 184
अनुष्टुप्
क्लीबे दामं स्त्रियां रञ्जुर्दामन्युष्ट्रः क्रमेलकः ।वक्रग्रीवो बहुकरो वासन्तः कण्टकाशनः ॥ ४६७ ॥
1.7.467 · p. 184
अनुष्टुप्
तालुनाशश्च लम्बौष्ठोऽध्वगो भोलिर्मरुप्रियः ।शलो महाङ्गश्च मयो दुर्गपर्यायलङ्घनः ॥ ४६८ ॥
1.7.468 · p. 184
अनुष्टुप्
द्विककुत्करभस्तु स्याद्व्यब्द उष्ट्रः शिशुश्च सः ।करभाः स्युः शृङ्खलकादारवैः पादबन्धनैः ॥ ४६९ ॥
1.7.469 · p. 184
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 शृ (wrong syllable)
अजा संजा सर्वभक्षा चुलुम्पा च गलस्तनी ।छागी चाथ पशुश्छागो लम्बकर्णश्च वर्करः ॥ ४७० ॥
1.7.470 · p. 185
अनुष्टुप्
शिवादेवप्रियो वस्तः स्तुभः स्याच्छगलोप्यजः ।वुष्कोल्पायुश्छागलोऽपि मेनादः पर्णभोजनः ॥ ४७१ ॥
1.7.471 · p. 185
अनुष्टुप्
स्थागः परिक्रमसहो जावालस्त्वजजीवनः ।मेध्यो मेको महागन्धो भकरश्च पयस्वलः ॥ ४७२ ॥
1.7.472 · p. 185
अनुष्टुप्
मेषो रभ्रोरणोर्णायुर्मेढो वृष्णिर्हुडुर्हरः ।उरभ्रो लोमशः शृङ्गी स्यादविश्चैडको बली ॥ ४७३ ॥
1.7.473 · p. 185
अनुष्टुप्
पुच्छपर्यायमांसार्थः स्याद्देशान्तरसंभवे ।कुररी स्याज्जालकिनी मेषी वेण्यविलारुजा ॥ ४७४ ॥
1.7.474 · p. 185
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ज्जा (wrong syllable)
अविः स्त्री शिशुवाह्यः स्यादिडिश्चाथ कदम्बके ।उष्ट्रच्छागोरभ्रकाणामौष्ट्रकं छागकाजके ॥ ४७५ ॥
1.7.475 · p. 185
अनुष्टुप्
उरभ्रकं चाथ खरः शुद्धजङ्घश्च धूसरः ।शङ्कुकर्णः स्मरस्मर्यश्चक्रीवान् रासभोऽपि च ॥ ४७६ ॥
1.7.476 · p. 185
अनुष्टुप्
ग्राम्याश्वश्चिरमेही स्याद्वालेयो रेणुरूषितः ।गर्दभः स्यादेकशफः क्रायिकः क्रयिकः क्रयी ॥ ४७७ ॥
1.7.477 · p. 185
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दे (wrong syllable)
एते स्युर्वेः सार्थवाहः स्याद्वैदेशिक इत्यपि ।पण्याजीवश्चापणिके व्यापारी निगमोऽपि सः ॥ ४७८ ॥
1.7.478 · p. 185
अनुष्टुप्
स्यान्नागरो नैगमोऽपि वाणिजोऽपि वणिक् पणिः ।नीवी परिपणं चापि भाण्डं नीविरपि स्त्रियाम् ॥ ४७९ ॥
1.7.479 · p. 186
अनुष्टुप्
अपि मूलधनं चाथ तत्र लाभोऽधिकं धनात् ।वाणिज्यं च वणिज्या स्यान्मूल्यं वस्नोप्यवक्रयः ॥ ४८० ॥
1.7.480 · p. 186
अनुष्टुप्