प्रमदावन
pramadāvanaक्ली · neut.In 6 kośas: 6 synonym verses.
प्रमदवनं प्रमदावनं च परिकीर्तितम् ।वीथिर्वीथी भवेदाली आलिरावलिरावली ॥ ८९ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
स्यादेतदेव प्रमदवनं च प्रमदावनम् ।यदन्तःपुरलोकानां क्रीडायोग्यमनाकुलम् ॥ ६ ॥
अनुष्टुप्
genderक्लीneut.
उद्यानपालकस्तु स्यात्कक्षावेक्षकनामकः ।प्रमदवनं प्रमदानां प्रमदावनमप्यदो महीपानाम् ।स्याद्वृक्षवाटिका तन् मन्त्र्यादीनां प्रसूनवाटी च ॥ ५ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
भवेदाक्रीड उद्यानं राजसाधारणं वनम् ।अन्तःपुरोचितं यत्तु तद्भवेत् प्रमदावनम् ॥
अनुष्टुप्
genderक्लीneut.
राज्ञामन्तः पुरोद्याने प्रमदा-प्रमदाद्वनम् ।वृक्षे द्रुमो विद्रुमो द्रुःकुठिः कुण्ठोंऽह्रिपोऽङ्घ्रिपः ॥ १२२ ॥
अनुष्टुप्
genderक्लीneut.doubtful
तदेव राज्ञ उद्यानमाक्रीडश्चाथ तस्य तत् ।सान्तःपुरस्य प्रमदावनं गेहस्य निष्कुटः ॥ ३ ॥
अनुष्टुप्
genderक्लीneut.