All kośas › Kalpadrukośa
कल्पद्रुकोशः Kalpadrukośa
4,306 verses · 27,819 words tagged · 4,643 marked doubtful (dashed)
भूमिस्कन्धः · वनौषधिप्रकाण्डः (1/6)
इति संकीर्णकाण्डः ।
अरण्यमस्त्री कान्तारं षण्डो वाप्यटवी स्त्रियाम् ।क्लीबे चेल्कं वनं सत्रं गहनं विपिनं तलम् ॥ १ ॥
1.11.1 · p. 248
अनुष्टुप्
समञ्जं हिङ्गुलं वार्क्षं कक्षं काननयित्यपि ।दवदावावुभौ पुंसि प्रस्तारोऽपि झषोऽपि च ॥ २ ॥
1.11.2 · p. 248
अनुष्टुप्
तृणाटव्यां महारण्ये त्वरण्यानी स्त्रियामियम् ।पुंस्यारामश्चोपवनं पुरप्रान्तस्थितं वनम् ॥ ३ ॥
1.11.3 · p. 248
अनुष्टुप्
गृहारामो निष्कुटः स्याद्वाह्यारामस्तु पौरकः ।प्रधानगणिकादीनामारामे पुष्पवृक्षयोः ॥ ४ ॥
1.11.4 · p. 248
अनुष्टुप्
पर्यायाद्वाटिकार्था च क्षुद्रारामे प्रसाटिका ।पुमानाक्रीड उद्यानं राज्ञः साधारणे वने ॥ ५ ॥
1.11.5 · p. 249
अनुष्टुप्
स्यादेतदेव प्रमदवनं च प्रमदावनम् ।यदन्तःपुरलोकानां क्रीडायोग्यमनाकुलम् ॥ ६ ॥
1.11.6 · p. 249
अनुष्टुप्
नृपाज्ञया यदच्छेद्यं तन्मल्लवनमुच्यते ।वीथ्यालिरावलिः श्रेणी लेखा रिञ्छोलिरावली ॥ ७ ॥
1.11.7 · p. 249
अनुष्टुप्
आली च पालिरालिश्च शरणी सरणी द्वयोः ।शरणिः सरणिः श्रेणिः स्त्रियां राजिस्तु राज्यपि ॥ ८ ॥
1.11.8 · p. 249
अनुष्टुप्
रेखा लेखा च पङ्क्तिश्च सर्वथा या निरन्तरा ।तत्र पङ्क्तिः सान्तराला राजिर्हीनान्तरालका ॥ ९ ॥
1.11.9 · p. 249
अनुष्टुप्
वन्या वनसमूहे स्यादङ्कुरोङ्कूरमस्त्रियाम् ।प्ररोहोऽभिनवोद्भेदे तत्र पर्वसमुद्भवे ॥ १० ॥
1.11.10 · p. 249
अनुष्टुप्
अस्त्री निकुञ्जकुञ्जौ द्वे लतादिपिहितोदरे ।वृक्षस्तु विटपी स्कन्धी सीमाको हरितच्छदः ॥ ११ ॥
1.11.11 · p. 249
अनुष्टुप्
वह्निपर्यायजन्मार्थो जन्तुरारोहकस्तरुः ।कारस्कर उरुर्द्वीपः पादपो विष्टर स्थिरः ॥ १२ ॥
1.11.12 · p. 249
अनुष्टुप्
अनोकहोऽगः शिखरी शाखी शालः पलाश्यपि ।द्रुर्द्रुमोऽद्रिः कुटो नागो नन्द्यावर्त्तो हरिद्वसुः ॥ १३ ॥
1.11.13 · p. 250
अनुष्टुप्
महीपर्यायरुहजपर्यायस्तरुरागमः ।कराली पुष्पफलद ऊर्णो रूक्षः पुलाक्यपि ॥ १४ ॥
1.11.14 · p. 250
अनुष्टुप्
नगोऽगमः कुठिर्गच्छः कुठारुरपि विष्टरः ।वानस्पत्यः फलैः पुष्पादपुष्पात्तैर्वनस्पतिः ॥ १५ ॥
1.11.15 · p. 250
अनुष्टुप्
निर्लुटोऽथाप्यबन्ध्यः स्यात्स च वृक्षः फलेग्रहिः ।फलग्रह्यपि स ज्ञेयो ह्यमोघफल इत्यपि ॥ १६ ॥
1.11.16 · p. 250
अनुष्टुप्
फलिते फलिनोपि स्यात्फलपर्यायवान् फली ।नञर्थात्फलपर्यायोऽवकेशी बन्ध्य इत्यपि ॥ १७ ॥
1.11.17 · p. 250
अनुष्टुप्
फलपुष्पैर्विरहित एते वन्ध्यादयस्त्रिषु ।स्थाणुरस्त्री ध्रुवः शङ्कुर्ह्रस्वशाखार्थकः क्षुपः ॥ १८ ॥
1.11.18 · p. 250
अनुष्टुप्
क्षुपेऽप्रकाण्डे गुल्मः स्यात्स्तम्बोथ व्रततिर्लता ।वल्ली च वल्लिर्व्रतती स्त्रियां वीरुत् प्रतानिनी ॥ १९ ॥
1.11.19 · p. 250
अनुष्टुप्
गुल्मिनी चोलपो वेली वेल्लिर्वेल्ली च वीरुधा ।व्रततिर्विरुधा चापि गुल्मिनी च विरुत् स्त्रियः ॥ २० ॥
1.11.20 · p. 250
अनुष्टुप्
नगाद्यारोह उच्छ्राय उत्सेधोऽप्युच्छ्रयश्च सः ।स्कन्धकाण्डप्रकाण्डाश्च मूलाच्छाखावधिस्तरोः ॥ २१ ॥
1.11.21 · p. 250
अनुष्टुप्
समे शाखालते स्कन्धशाखाशाले शिफाजटे ।अर्वाग्भागोऽस्य बुध्नः स्यान्नितम्बः स पृथुः पुनः ॥ २२ ॥
1.11.22 · p. 251
अनुष्टुप्
पादपर्यायिमूलं स्यान्नेत्रं च चरणोऽस्त्रियाम् ।अग्रं क्लीबे शिरः पुंसि मज्जा सारश्च पुंस्युभौ ॥ २३ ॥
1.11.23 · p. 251
अनुष्टुप्
क्वचिन्मज्जा स्त्रियां त्वक् स्त्री त्वचा वल्कलमस्त्रियाम् ।चोलकं च स्त्रियां छल्लिश्छल्ली च वल्कलं च षण् ॥ २४ ॥
1.11.24 · p. 251
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
शल्कं चोचमथ स्त्री स्याद्दारु सामान्यकाष्ठके ।रूक्षे कलिञ्जमिध्मं स्यादेध एधः समित्स्त्रियाम् ॥ २५ ॥
1.11.25 · p. 251
अनुष्टुप्
समिन्धनेन्धने च द्वे निःकुहः कोटरोऽस्त्रियाम् ।पत्रं पलाशं पात्रं स्याद्दलं पर्णं छदः पुमान् ॥ २६ ॥
1.11.26 · p. 251
अनुष्टुप्
स्यादथच्छदनं छादमस्त्रियां बर्हमित्यथ ।चमरिर्मञ्जरीवाना मञ्जी मञ्जिश्च मञ्जरिः ॥ २७ ॥
1.11.27 · p. 251
अनुष्टुप्
वल्लरी वल्लरिश्चापि वल्लरं मञ्जरं त्रिषु ।पल्लवोऽस्त्री किसलयं किसलं विसलं पुनः ॥ २८ ॥
1.11.28 · p. 251
अनुष्टुप्
चलः पुमान्प्रवालोऽस्त्री कोशीशुङ्गे उभे स्त्रियौ ।स्त्रियां माटिस्तु पर्णानामन्तरा व्यापिका शिरा ॥ २९ ॥
1.11.29 · p. 251
अनुष्टुप्
विस्तारविटपावस्त्री कलिकोत्कलिके स्त्रियौ ।कलिः कली उभे तद्वत् क्षारको जालिजालके ॥ ३० ॥
1.11.30 · p. 251
अनुष्टुप्
गुच्छो गुलुच्छो लुच्छः स्याद्गुच्छकः स्तबकोऽपि च ।गुलुच्छो ग्लुच्छको गुच्छः कुद्मलो मुकुलो न ना ॥ ३१ ॥
1.11.31 · p. 252
अनुष्टुप्
मकुले पुंसि वा क्लीबे बहुत्वे सुमनः स्त्रियाम् ।स्यात् क्लीबे सुमनं पुष्पं प्रसूनं कुसुमोऽस्त्रियाम् ॥ ३२ ॥
1.11.32 · p. 252
अनुष्टुप्
प्रसवे च सुमं सूनं कुद्मलो मुकुलोऽस्त्रियाम् ।स्फुटः स्मेरो विकसितः स्मितः फुल्लो विजृम्भितः ॥ ३३ ॥
1.11.33 · p. 252
अनुष्टुप्
वीकाशश्च विकाशश्च वीकासोऽपि विकासवत् ।प्रफुल्लोन्मुद्रितोदीर्णा उदोभिदुरमीलितौ ॥ ३४ ॥
1.11.34 · p. 252
अनुष्टुप्
बुद्धो भिन्नश्च मिषितः श्वसितो जृम्भवत्यपि ।विकस्वरश्च व्याकोशो विकचो हसितार्थकः ॥ ३५ ॥
1.11.35 · p. 252
अनुष्टुप्
दलोच्छ्वसप्रवालोन्मिषाङ्कुरेभ्य इतच् क्रमात् ।पल्लवाच्चाथ निद्राणो मुद्रितो मीलितोऽपि च ॥ ३६ ॥
1.11.36 · p. 252
अनुष्टुप्
फुल्लार्थाद्विपरीतार्थोऽलसः संकुचिताऽपि च ।तान्तः सनिद्रो मिलितस्त्रिष्वेते स्युः स्फुटादयः ॥ ३७ ॥
1.11.37 · p. 252
अनुष्टुप्
मकरन्दः पुष्परसो मरन्दो मधु न द्वयोः ।परागः पुष्पपर्यायरजःपर्याय इत्यपि ॥ ३८ ॥
1.11.38 · p. 252
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पु (wrong syllable)
मधूली स्त्रीष्टगन्धि स्यात्सुगन्धिः सौरभोऽपि च ।सौरभ्यः सुरभिः पुंसि घ्राणतर्पण इत्यपि ॥ ३९ ॥
1.11.39 · p. 252
अनुष्टुप्
विमर्दोत्थे परिमल आमोदो हृदयंगमे ।मुखवासन आमोदी दुर्गन्धः पूतिगन्धकः ॥ ४० ॥
1.11.40 · p. 253
अनुष्टुप्
विशी स्यादामगन्धिः षण् विस्रं वा स्यादथ त्रिषु ।वृक्षादीनां फले शस्यं तत्रापक्वे शलाटु च ॥ ४१ ॥
1.11.41 · p. 253
अनुष्टुप्
शुष्केऽप्यवानं स्याद्वानमथ हीनप्रकाण्डके ।स्तम्बगुल्मावथ लता गुल्मिनी च प्रतानिनी ॥ ४२ ॥
1.11.42 · p. 253
अनुष्टुप्
व्रततिर्व्रतती वल्ली स्यात् क्लीब उलपं पुनः ।वीरुदेषातिविस्तीर्णा तालक्रमुककेतकी ॥ ४३ ॥
1.11.43 · p. 253
अनुष्टुप्
नारिकेरी च खर्जूरी तृणवृक्षाः स्युरित्यमी ।द्विहीनं प्रसवे सर्वं हरीतक्यादयः स्त्रियाम् ॥ ४४ ॥
1.11.44 · p. 253
अनुष्टुप्
आश्वत्थवैणवप्लाक्षनैयग्रोधैङ्गुदादि च ।बार्हतं च फले जम्ब्वा जम्बूः स्त्री जम्बु जाम्बवम् ॥ ४५ ॥
1.11.45 · p. 253
अनुष्टुप्
पुष्पे जातीप्रभृतयः स्वलिङ्गा व्रीहयः फले ।कुमार्याद्याश्च भङ्गाद्याः पत्रेऽपि स्युस्ततः पुनः ॥ ४६ ॥
1.11.46 · p. 253
अनुष्टुप्
विदार्याद्यास्तु मूलेऽपि पुष्पे क्लीबे च पाटला ।आम्रश्चूतो महाकालो माकन्दः षट्पदातिथिः ॥ ४७ ॥
1.11.47 · p. 253
अनुष्टुप्
कामाङ्गो मधुदूतः स्यात्सहकारोऽति सौरभः ।रसालः स्त्रीप्रियश्चापि साहारपिकवल्लभौ ॥ ४८ ॥
1.11.48 · p. 253
अनुष्टुप्
पुरुकालो वसन्तद्रुः स च पञ्चविधः स्मृतः ।कोशाम्रस्तु घनस्कन्धो वनाम्रो जन्तुपादपः ॥ ४९ ॥
1.11.49 · p. 254
अनुष्टुप्
क्षुद्राम्रोऽपि च रक्ताम्रो लाक्षा वृक्षश्च रक्तकः ।बहुपूर्वस्तु मध्वाम्रः शीतलाम्रो मुनिश्च सः ॥ ५० ॥
1.11.50 · p. 254
अनुष्टुप्
मदनेच्छाफलश्चक्रतलाम्रोऽपि वनेज्यकः ।अथ कामशरः कामवल्लभो माधवद्रुमः ॥ ५१ ॥
1.11.51 · p. 254
अनुष्टुप्
अम्लफलः सीधुरसो मोदः स्यान्मन्मथालयः ।मध्वासवः सुमनसः पिकरागो नृपप्रियः ॥ ५२ ॥
1.11.52 · p. 254
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 म्ल (wrong syllable)
प्रियाम्बुरथ राजाम्रो राजपर्यायतः फलः ।स्मराम्रो मधुरोऽथ स्यान्महाराजफलस्तु सः ॥ ५३ ॥
1.11.53 · p. 254
अनुष्टुप्
कामायुधो राजपुत्रः कङ्कः कामफलोऽपि च ।आम्रः स्थूलान्महाराजात् कपित्थार्थोऽपि नीलतः ॥ ५४ ॥
1.11.54 · p. 254
अनुष्टुप्
तत्पर्यायफलार्थं स्यात्पुण्डरीकं च तत्समम् ।स्त्रियां जम्बूर्महास्कन्धा राजार्हाऽऽमोदमोदिनी ॥ ५५ ॥
1.11.55 · p. 254
अनुष्टुप्
शुकप्रिया राजफला श्यामला सुरभिच्छदा ।अथान्या स्याद्राजजम्बूः स्वर्णमाता महाफला ॥ ५६ ॥
1.11.56 · p. 254
अनुष्टुप्
पिकप्रिया महाजम्बूर्महानीलाऽप्यथापरा ।काकादिष्टफला जम्बूर्भृङ्गेष्टा स्याद्वनप्रिया ॥ ५७ ॥
1.11.57 · p. 254
अनुष्टुप्
नादेयी भूमिजम्बूस्तु भृङ्गेष्टा सूक्ष्मसत्यका ।पिकभक्ष्या काकजम्बूरथ पूतफलः पुनः ॥ ५८ ॥
1.11.58 · p. 255
अनुष्टुप्
पनसः कण्टकिफलः फलिनः फलवृक्षकः ।महावृक्षः फलासारः कम्पलः कण्टकीफलः ॥ ५९ ॥
1.11.59 · p. 255
अनुष्टुप्
चम्पालुरथ त भङ्गि पुस्नं पुंसि नपुंसके ।निरष्ठीला तु कदली सुकुमारा सकृत्फला ॥ ६० ॥
1.11.60 · p. 255
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 त (wrong syllable)
मोचा गुच्छफला रम्भा सुफला गुच्छदन्तिका ।उरुस्तम्भा भानुफला वनलक्ष्मीर्विषाणिनी ॥ ६१ ॥
1.11.61 · p. 255
अनुष्टुप्
रसा नृपेष्टा निःसारा बालेष्टाप्यथ काष्ठिका ।सुकाष्ठा च शिलाकाष्ठवनेभ्यः कदलीति च ॥ ६२ ॥
1.11.62 · p. 255
अनुष्टुप्
फलाप्यथ सुरभिका सुभगा च सुरप्रिया ।गौरी हेमफलांश्वद्रिवनहाटकचम्पकाः ॥ ६३ ॥
1.11.63 · p. 255
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 थ (wrong syllable)
एषां पर्यायशब्देभ्यो रम्भापर्यायवाचिका ।कुमारिका वृन्तपुष्पा सत्पुष्पं तु शिलीन्ध्रकम् ॥ ६४ ॥
1.11.64 · p. 255
अनुष्टुप्
अथापि स्यान्नारिकेरो नारीकेरश्च लाङ्गली ।नाडीकेरो नाडिकेरो नाडिकेलश्च वा स्त्रियाम् ॥ ६५ ॥
1.11.65 · p. 255
अनुष्टुप्
तृणराजः स्कन्धतरुर्दाक्षिणात्योऽपि लाङ्गली ।फलस्त्रिनेत्रदृढयोरथान्यो मधुनः फलः ॥ ६७ ॥
1.11.67 · p. 256
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्क (wrong syllable)
मधूत्तरो नालिकेरो बद्धकूर्चफलश्च सः ।ह्रस्वमृद्वोश्चापि फलः करकोऽस्य फलास्थनि ॥ ६८ ॥
1.11.68 · p. 256
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 श्चा (wrong syllable)
तन्मज्जा खपुरं क्लीबे कूर्परं गरिका स्त्रियाम् ।वारः खट्टः खरस्कन्धो ललनो बहुवल्कलः ॥ ६९ ॥
1.11.69 · p. 256
अनुष्टुप्
भक्ष्यबीजः स्नेहबीजो वनद्रुस्तापसप्रियः ।धनुःपटः पियालश्च पटोऽपि च धनुर्द्धनू ॥ ७० ॥
1.11.70 · p. 256
अनुष्टुप्
प्रियालः स्यादुपवटश्चाथ भल्लातकी त्रिषु ।पर्यायोऽग्न्यर्कयोश्चापि वातारिः स्यादरुःकरः ॥ ७१ ॥
1.11.71 · p. 256
अनुष्टुप्
तैलस्फोटपृथग्भ्यः स्याद्बीजः कृमिहरश्च सः ।स्याद्धनुर्बीजवीरेभ्यो वृक्षोऽथ क्षीरिका स्त्रियाम् ॥ ७२ ॥
1.11.72 · p. 256
अनुष्टुप्
क्षीरवृक्षो राजफलो निम्बबीजो नृपद्रुमः ।क्षीरशुक्लो दृढस्कन्धः श्रीफलो माधवोद्भवः ॥ ७३ ॥
1.11.73 · p. 256
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 रा (wrong syllable)
राजादनफलो राजादनं राजातनोऽस्त्रियाम् ।अस्त्रियां द्वौ फलाध्यक्षाध्यक्षौ च क्षीर्ययं पुमान् ॥ ७४ ॥
1.11.74 · p. 256
अनुष्टुप्
फलाध्यक्षो मधुफलः क्षीरगुच्छफलोऽपि सः ।रसबीजः शुकेष्टश्च त्रिषु दाडिम्बदाडिमौ ॥ ७५ ॥
1.11.75 · p. 256
अनुष्टुप्
मधुबीजो रक्तबीजो दालिमः फलखाडवः ।करकः सुफलो दन्तबीजः कुचफलोऽपि च सः ॥ ७६ ॥
1.11.76 · p. 257
अनुष्टुप्
मणिबीजो रक्तफलो रोचनः शुकवल्लभः ।नीलपत्रो वृत्तफलः सुनीलो रक्तपुष्पकः ॥ ७७ ॥
1.11.77 · p. 257
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 र (wrong syllable); pāda 3, syllable 5 वृ (wrong syllable)
अथ तिन्दुः कृष्णसारः कालस्कन्धोऽतिमुक्तकः ।स्यन्दनार्थादाह्वयार्थः स्फूर्जनोऽपि च रामणः ॥ ७८ ॥
1.11.78 · p. 257
अनुष्टुप्
काकपर्यायतिन्दुः स्यात् काकाण्डः काकबीजकः ।अक्षोडस्तु फलस्नेहः कन्दरालफलोऽपि च ॥ ७९ ॥
1.11.79 · p. 257
अनुष्टुप्
गुडाशयः पर्वतीय आखोरोऽपि बृहच्छदः ।वीरेष्टो मधुमत्तः स्याद्विरेचनफलस्तु सः ॥ ८० ॥
1.11.80 · p. 257
अनुष्टुप्
पीलुः शीतसहस्रांशः शाखी गुडफलश्च सः ।महाफलो महाराजमधुभ्यः पीलुरित्यपि ॥ ८१ ॥
1.11.81 · p. 257
अनुष्टुप्
मधुपीलुर्महावृक्षोऽथ पारेवतमस्त्रियाम् ।आरेवतो रेवतश्च रैवतोऽपि सुधाफलः ॥ ८२ ॥
1.11.82 · p. 257
अनुष्टुप्
मधुसस्योऽप्युलूती स्त्री तद्भेदाः स्युरनेकशः ।महापारेवतं स्वर्णपारेवतमतः परम् ॥ ८३ ॥
1.11.83 · p. 257
अनुष्टुप्
सास्राणिजं खारिकं च रक्तरैवतकं पुनः ।बृहत्पारेवतं द्वीपखर्जूरी द्वीपजादयः ॥ ८४ ॥
1.11.84 · p. 257
अनुष्टुप्
हयप्रिया तु निःश्रेणी यवनेष्टा दुरारुहा ।खरस्कन्धा तु दुर्धर्षा काषायी खर्जुरी द्वयोः ॥ ८५ ॥
1.11.85 · p. 258
अनुष्टुप्
निःश्रेणिरपि खर्जूरी माध्वी तु मधुकर्कटी ।मधुरा मधुखर्जूरी कोलपर्यायकर्कटी ॥ ८६ ॥
1.11.86 · p. 258
अनुष्टुप्
कर्करोऽप्यथ भूखर्जूर्यवरा तु मधुस्रवा ।दीप्या च पिण्डखर्जूरी फलपुष्पा श्वभक्षका ॥ ८७ ॥
1.11.87 · p. 258
अनुष्टुप्
स्वादुपिण्डाथ चान्या तु मुनिखर्जूरिका च सा ।सैव स्याद्राजखर्जूरी राजपिण्डा नृपप्रिया ॥ ८८ ॥
1.11.88 · p. 258
अनुष्टुप्
मधुवृक्षस्तु मधुलो मधुष्ठीलो मधुस्रवः ।मधूको मधुकोऽपि स्यान्मधु क्लीबे मधुः पुमान् ॥ ८९ ॥
1.11.89 · p. 258
अनुष्टुप्
गुडपुष्पो रोध्रपुष्पो वनप्रस्थश्च माधवः ।मधुपुष्पस्तु मङ्गल्यो जलजाते मधूलकः ॥ ९० ॥
1.11.90 · p. 258
अनुष्टुप्
क्षुद्राप्रियो दीर्घपत्रः पतङ्गो वारवल्लभः ।चौरिकाक्षोऽप्यथ भवं भविष्यं भव्यभावने ॥ ९१ ॥
1.11.91 · p. 258
अनुष्टुप्
अपि पिच्छिलबीजं स्यात्तच्च लोमफलं पुनः ।स्ताद्वक्त्रशोधनं चाथ वीरं वाराहकारुके ॥ ९२ ॥
1.11.92 · p. 258
अनुष्टुप्
वीरसेनमथ द्राक्षा कृष्णापि तापसप्रिया ।प्रियाला स्याच्चारुगुच्छाऽमृतेभ्योपि फला पुनः ॥ ९३ ॥
1.11.93 · p. 258
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable)
रसालाख्याऽमरा मृद्वी गोस्तनी च हिमोत्तरा ।फलाभद्रा च कपिला मधुवल्ली मधूल्यपि ॥ ९४ ॥
1.11.94 · p. 259
अनुष्टुप्
शतवीर्या हैमवती काश्मीरी पथिका च सा ।सुधारसा दार्घमधुसुभ्यः सस्यार्थका च सा ॥ ९५ ॥
1.11.95 · p. 259
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 है (wrong syllable)
हरिता हारहूराथ सुवृत्ता बीजवर्जिता ।अथ कर्मारकः कर्मरकः पीतफलश्च सः ॥ ९६ ॥
1.11.96 · p. 259
अनुष्टुप्
धाराफलो मुद्गरकः परुषं तु परूषकम् ।नीलमण्डलमल्पास्थि गिरिपीलु परावतम् ॥ ९७ ॥
1.11.97 · p. 259
अनुष्टुप्
परुर्नीलफलं चाथ चलपत्रश्च यज्ञियः ।शुचिबोधिक्षीरचैत्यश्राभ्यो द्व्यर्थो गजाशनः ॥ ९८ ॥
1.11.98 · p. 259
अनुष्टुप्
अश्वत्थो विष्णुसद्मार्थः पवित्रं गुह्यपत्रकः ।मङ्गल्यः श्यामलो विप्रः सत्यः सेव्यः शुभप्रदः ॥ ९९ ॥
1.11.99 · p. 259
अनुष्टुप्
यक्षोदुम्बरमेतस्य फलेऽश्वत्थी वनोद्भवा ।अश्वत्थसंनिभा क्षुद्रा पवित्रा लघुपत्र्यथ ॥ १०० ॥
1.11.100 · p. 259
अनुष्टुप्
वटो जटालो न्यग्रोधोऽवरोहा पादरोहणः ।विटपी मण्डपी शृङ्गी यक्षावासश्च रोहिणः ॥ १०१ ॥
1.11.101 · p. 259
अनुष्टुप्
महाच्छायः स्कन्धरुहः क्षीरी रक्तफलः पुनः ।कौबेरो बहुपान्नीलः शिफारुट् च वनस्पतिः ॥ १०२ ॥
1.11.102 · p. 259
अनुष्टुप्
नदीयज्ञार्थयोर्वृक्षः सिद्धार्थोऽपि वटी स्त्रियाम् ।अमरा शृङ्गिनी क्षीरकाष्ठाप्यथ कपीतनः ॥ १०३ ॥
1.11.103 · p. 260
अनुष्टुप्
प्लक्षः प्लवङ्गः प्लवगो गर्दभाण्डः कमण्डलुः ।महाबलोऽवरोहद्रुः क्षीरी शृङ्गी सुपार्श्वकः ॥ १०४ ॥
1.11.104 · p. 260
अनुष्टुप्
दृढप्ररोहः पुण्ड्रस्तु भिदुरो ह्रस्वपर्णकः ।महावरोहोऽपि जटी मङ्गलच्छाय इत्यपि ॥ १०५ ॥
1.11.105 · p. 260
अनुष्टुप्
स्यात्पर्कपर्वयोष्टिष्टी मशकी तु सदाफलः ।उदुम्बरः पुष्पशून्यो यज्ञियः सुप्रतिष्ठितः ॥ १०६ ॥
1.11.106 · p. 260
अनुष्टुप्
कालस्कन्धः शीतवल्कः क्षीरवृक्षः पवित्रकः ।हेमदुग्धः काण्डफलः सौम्यः क्षीरी च काञ्चनः ॥ १०७ ॥
1.11.107 · p. 260
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 का (wrong syllable)
वसुद्रुमो हरिद्राक्षः सौम्यो जन्तुफलश्च सः ।सचक्षुः शीतवृक्षोथ लघुपत्रफला स्त्रियाम् ॥ १०८ ॥
1.11.108 · p. 260
अनुष्टुप्
लघोरुदुम्बरार्था च क्षुद्रोदुम्बरिकाऽपि सा ।काष्ठोदुम्बरिका चाथ करपत्रच्छदाऽपरा ॥ १०९ ॥
1.11.109 · p. 260
अनुष्टुप्
खरपत्रापि माकण्ठी वान्तिसस्या बृहच्छदा ।अथार्यराजपुण्ड्रेभ्य उदुम्बरफलार्थका ॥ ११० ॥
1.11.110 · p. 260
अनुष्टुप्
कृष्णोदुम्बरिका काकोदुम्बरी जघनेफला ।अजाजी फल्गुनी फल्गुर्मलयूश्चित्रभेषजम् ॥ १११ ॥
1.11.111 · p. 260
अनुष्टुप्
स्याद्द्वयोर्बदरी कोला कर्कन्धूरपि च स्त्रियाम् ।कर्कन्धुश्चापि कर्कान्धूर्न क्लीबे कुवली त्रिषु ॥ ११२ ॥
1.11.112 · p. 261
अनुष्टुप्
कोलः कोलिश्च कोली च बदरं क्वापि पुंसि च ।दृढबीजा वृत्तफला फेनिला फलशैशिरा ॥ ११३ ॥
1.11.113 · p. 261
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वृ (wrong syllable)
सुवीराऽपि च सौवीरा बालेष्टा सुफला च सा ।राजपर्यायबदरी वल्लभा स्तनबीजिका ॥ ११४ ॥
1.11.114 · p. 261
अनुष्टुप्
पृथुकोलाथ भूसूक्ष्मलघुवल्लीभ्य एव सा ।बदरी स्याद्बहुफला बदराद्वल्लरी फला ॥ ११५ ॥
1.11.115 · p. 261
अनुष्टुप्
सूक्ष्मात्पत्रफलार्था स्याद्दुःस्पर्शा बहुकण्टका ।शिखिप्रियाचणार्थात्स्याद्वदर्यथ सुकेसरः ॥ ११६ ॥
1.11.116 · p. 261
अनुष्टुप्
बीजपूरो बीजपूर्णः पूर्णबीजश्च पूरकः ।मातुलुङ्गः केसरान्तो रुचको दन्तुरच्छदः ॥ ११७ ॥
1.11.117 · p. 261
अनुष्टुप्
सुपूरको बीजफलो जन्तुघ्नोऽथ वनोद्भवा ।गन्धाढ्या देवदूती च स्यादत्यम्लरसा च सा ॥ ११८ ॥
1.11.118 · p. 261
अनुष्टुप्
मधुनः कर्कटी वल्ली बीजपूरार्थका च सा ।महाफला वर्द्धमाना राचनी तु शिवाऽमृता ॥ ११९ ॥
1.11.119 · p. 261
अनुष्टुप्
धात्रा वयस्थामलकी त्रिषु तिष्यफलाऽमला ।एमलापि च कायस्था श्रीफला वृत्तसस्यका ॥ १२० ॥
1.11.120 · p. 261
अनुष्टुप्