द्रुम
drumaपुं · masc.In 20 kośas: 20 synonym verses, 6 as a nānārtha head word, 47 as a meaning of another word.
वृक्षोऽगः शिखरी च शाखिफलदावद्रिर्हरिद्रुर्द्रुमोजीर्णो द्रुर्विटपी कुठः क्षितिरुहः कारस्करो विष्टरः ।नन्द्यावर्तकरालिकौ तरुवसू पर्णी पुलाक्यंह्रिपःसालानोकहगच्छपादपनगा रूक्षागमौ पुष्पदः ॥ १११४ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
वृक्षो महीरुहः शाखी विटपी पादपस्तरुः ।अनोकहः कुटः शालः पलाशी द्रुद्रुमागमाः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
वृक्षोंऽह्रिपः क्षितिरुहः शिखरी च शाखी,शालो वनस्पतिरगो विटपी कुठश्च ।अद्रिः कुजस्तरुरनोकह इत्यभिन्नाः,शब्दा द्रुविष्टरनगद्रुमपादपाश्च ॥ १७७ ॥
वसन्ततिलका
genderपुंmasc.
तुनस्तुष्टो जयः कान्तः कुलिः कातुकलो द्रुमः ।अग्निमन्थे हरिन्मन्थः मन्थः सन्धे तमालकः ॥ २२० ॥
अनुष्टुप्
genderपुंmasc.
महीरहो महीरुट् स्यात् वानस्पत्यो वनस्पतिः ।द्रुमः स्याद्द्रुश्च तुल्यौ द्वौ फलेग्रही फलग्रही ॥ ९१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ग्र (wrong syllable)
genderपुंmasc.
रजताद्रिस्तु कैलासो हराद्रिरिति कथ्यते ।अङ्घ्रिपः पादपो वृक्षः कुजः शाखी वसुर्द्रुमः ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
अनोकहोऽगः शिखरी शाखी शालः पलाश्यपि ।द्रुर्द्रुमोऽद्रिः कुटो नागो नन्द्यावर्त्तो हरिद्वसुः ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.
वक्रनेत्रो रत्नगर्भो वसुश्चापि बको द्रुमः ।एककुण्डलपर्यायः सोमः पद्मार्थलाञ्छनः ॥ ७३ ॥
अनुष्टुप्
genderपुंmasc.
शोणमासद्रुमादीनां धान्याग्न्यध्वरदेहिनाम् ।महतां सभिदां नाम मानहायनयोरपि ॥ ५० ॥
अनुष्टुप्
genderपुंmasc.
द्रुर्हरिद्रुर्द्रुमः शाखी शिखरी विटपी कुठः ।कारस्करो विष्टरोऽद्रिर्नगोऽगः पुष्पदोऽगमः ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
अनोकहस्तरुः शाखी विटपी फलिनो नगः ।द्रुमोऽङ्घ्रिपः फलेग्राही पादपोऽगो वनस्पतिः ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
पुन्नागं सन्नरं प्राहुः तिलकं च विशेषकम् ।ललाटिका ललामापि पूर्णवाहं तथा द्रुमम् ॥ १८० ॥
अनुष्टुप्
genderपुंmasc.
विटपी पादपश्चाद्रिर्द्रद्रुमौ विष्टरः कुठः ।वसुर्जर्णहरी सालोऽनोकहोऽगोऽपि पुष्पदः ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
वृक्षो द्रुमस्तरुः शाखी पादपश्च महीरुहः ।अनोकहोंऽह्रिपः सालः पलाशी विटपी कुटः ॥ १४१ ॥
अनुष्टुप्
genderपुंmasc.
वृक्षो रूक्षो द्रुमोऽद्रिश्च हरिद्रुर्द्रुर्महीरहः ॥ १९५२ ॥
अनुष्टुप्
genderपुंmasc.
वृक्षः शाखी द्रुमो गच्छः पलाशी विटपी तरुः ।महीरुहो विष्टरः स्याद् महीरुट् पादपः कुचिः ॥
अनुष्टुप्
genderपुंmasc.
राज्ञामन्तः पुरोद्याने प्रमदा-प्रमदाद्वनम् ।वृक्षे द्रुमो विद्रुमो द्रुःकुठिः कुण्ठोंऽह्रिपोऽङ्घ्रिपः ॥ १२२ ॥
अनुष्टुप्
genderपुंmasc.
पादपवृक्षपलाशिद्रुमतरुकुटविटपिशाखिनगसालाः ।अगमो द्ररगो भूरुट् कुजोऽनोकह इत्यपि ॥ ४३९ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
पुष्पवाटी त्वमात्यादेस्त्रयी वाटी फलाय चेत् ।वृक्षो द्रुमो भूरुहो द्रुर्विटपी विष्टरोंऽघ्रिपः ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
वृक्षादनी वृक्षरुहा सेव्यास्मिन् क्षीरवृक्षजे ।तनुस्तुष्टो जयः कान्तः कुणिः कातुलको द्रुमः ॥ ८५ ॥
अनुष्टुप्
genderपुंmasc.
प्रोक्तः किंपुरुषेश्वरे विटपिनि स्यात्पारिजाते द्रुमःकुण्डे वारिविनिर्गमे भ्र[30b]म इति स्यान्मोहवाची द्वयोः ।रामो दाशरथौ बले भृगुपतौ पश्वन्तरे वाच्यवत्त्वेष श्वेतमनोज्ञमेचकगतोऽन्त्ये वास्तुके कुष्टके ॥ ५६ ॥
शार्दूलविक्रीडितम्metre not read in every line
दावो दवाग्नावग्नौ च द्रुमस्त्वखिलशाखिषु ।नान्दिवृक्षे पारिजाते दृतिस्त्वम्बुदजिह्वयोः ॥ ६३ ॥
अनुष्टुप्
द्रुम as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् अद्रिअद्रयो द्रुमशैलार्काः स्त्रीस्तनाब्दौ पयोधरौ । Amarakośa 3.3.311
- धरणिकोश पुन्नागउद्वेगोऽप्यु[द्बाहुलकेऽ]प्युद्वेगं क्रमुकीफलम् । [15] पुन्नागः पुरुषज्येष्ठः पुन्नागश्च द्रुमान्तरम् ॥ Dharaṇikośa 3.2.8
- धरणिकोश द्रुतद्रुतं शीघ्रे विलीने च द्रुतः पलायिते द्रुमे । युतं हस्तचतुष्के स्याद्युतं युक्ते युतं पृथक् ॥ Dharaṇikośa 15.2.2
- धरणिकोश अद्रिअद्रयो द्रुमशैलार्का गृध्रोऽतिलुब्धपक्षिणोः । शक्रं स्यात्कुटजे नस्त्री व्यग्रो व्यासक्त आकुलः ॥ Dharaṇikośa 26.1.4
- धरणिकोश पिण्डारनिकारः स्यात्परिभवे धान्यस्योत्किरणेऽपि च । पिण्डारो महिषीपाले पिण्डारश्च द्रुमान्तरे ॥ Dharaṇikośa 26.2.56
- कोषकल्पतरु अगअगो नगोऽर्कद्रुमपर्वतेषु खगास्तु सूर्यग्रहदेवबाणाः । पक्षी शरोऽस्त्रीतु भगो वराङ्गै- श्वर्यप्रयत्नातिविरक्तिषु स्यात् ॥ ९१ ॥ Koṣakalpataru 6.3.91
- कोषकल्पतरु पत्रिन्पत्री खगे श्येनशरद्रुमेषु स्यात्सायके स्यन्दनसंस्थिते वा । वज्री शरेऽश्वे षडभिज्ञ इन्द्रे विहंगमे कोकभुजंगयोस्तु ॥ ७६ ॥ Koṣakalpataru 6.21.76
- कोषकल्पतरु अद्रिद्यूतेऽद्रयस्तु द्रुमशैलसूर्या ऐन्द्रिर्जयन्तेऽपि च वायसे च । शद्रिर्गजाम्भोधरजिष्णुवाची निद्राप्रमीलासु तु तन्द्रि-तन्द्रे ॥ ७४ ॥ Koṣakalpataru 6.27.74
- कोषकल्पतरु शिलीन्ध्रशिलीन्ध्रमुक्तं कदलीप्रसूने छत्राकसंज्ञे त्रिपुटाभिधायाम् । मीने द्रु[59b]मे नाथ मृदि स्त्रियां स्या- द्गण्डूपदीनाम्नि खगीविशेषे ॥ ७५ ॥ Koṣakalpataru 6.27.75
- कोषकल्पतरु धुर्ंधरधुरन्धरस्तु धूर्वहे धवाभिधे तथा द्रुमे । नभश्चरो घनेऽनिले विहङ्गमे कटप्रुवि ॥ ५ ॥ Koṣakalpataru 6.27.5
- कोषकल्पतरु कर्णिकारस्यात्पीतमौलावथ चोपमादौ भवेदलंकार इह स्रगादौ । द्रुमोत्पलारग्वधयोस्तथैव स्यात्कर्णिकारोऽप्यथ चर्मकारः ॥ १० ॥ Koṣakalpataru 6.27.10
- कोषकल्पतरु दक्षऋक्षोऽद्रिभेदे कृतवेधने च तथाच्छभल्ले नरि शोणके च । भे तु स्त्रियामेष न गुह्यके स्यात् यक्षः कुबेरेऽथ मुनिप्रभेदे । दक्षो विधौ नन्दिनि ताम्रचूडे द्रुमेऽनले भेद्यसमः पटौ सः । भुवि स्त्रियां पक्ष इहार्धमासे पार्श्वे ग्रहे साध्यविरोधयो[85a]श्च ॥ ४८ ॥ Koṣakalpataru 6.30.48
- नानार्थार्णवसंक्षेप अद्रिव्याधौ शशाङ्केऽप्यद्रिस्तु शैले सूर्ये द्रुमेऽम्बुदे । अङ्घ्रिः पादपमूले च प्राणिनां चरणेऽपि च ॥ ९ ॥ Nānārthārṇavasaṃkṣepa 2.2.9
- नानार्थार्णवसंक्षेप कुद्दालकीबं तु वैजयन्त्याह कोविदारद्रुमे तु ना । क्लीबं तु प्रसवे तस्य कुटेरस्त्वभिधेयवत् ॥ ५५३ ॥ Nānārthārṇavasaṃkṣepa 4.553
- नानार्थार्णवसंक्षेप कृसरक्ली तु कांस्याह्वये लोहभेदे स्याद्भेद्यवत् पुनः । ज्ञेयः स्यात् कृतिनिर्वृत्ते कृसरस्तु पुमान् द्रुमे ॥ ५६६ ॥ Nānārthārṇavasaṃkṣepa 4.566
- नानार्थार्णवसंक्षेप उपकारकअथोपकारिका स्त्रीत्वे राजावासेऽथ सा त्रिषु । उपकारक इत्येष उपकर्तर्यथे द्रुमे ॥ ३२ ॥ Nānārthārṇavasaṃkṣepa 7.32
- परमानन्दीयनाममाला अगअगः सूर्ये द्रुमे सर्पे पर्वतेऽन्तः स्वरूपके । प्रान्तावयवोर्नाशे निश्चये निकटेऽपि च ॥ ८ ॥ Paramānandīyanāmamālā 5.1.8
- परमानन्दीयनाममाला उदुम्बरउदुम्बरं कुष्ठभेदे ताम्रेऽथोदुम्बरो द्रुमे । उपतापं तु दुःखे स्याद्गदे तापेऽपि दृश्यते ॥ ७४ ॥ Paramānandīyanāmamālā 5.3.74
- परमानन्दीयनाममाला कुटकुजो वृक्षे महीपुत्रे कुटः कुम्भे गृहे द्रुमे । क्रमस्तु परिपाट्यां स्यात्पदशक्त्योः कठो मुनौ ॥ ८८ ॥ Paramānandīyanāmamālā 5.7.88
- परमानन्दीयनाममाला कर्णिकारद्रुमोत्पले कर्णिकारः कृतमालेऽपि सम्मतः । मृगमेदे कृष्णसारः स्नुहीशिंशपयोस्तथा ॥ १३९ ॥ Paramānandīyanāmamālā 5.7.139
- परमानन्दीयनाममाला सूनुसूनुर्द्रुमेऽनुजे पुत्रे सौम्यो धिष्ण्ये बुधेऽपि च । सूतस्तु पारदे तक्ष्णि मागधे सारथावपि ॥ ३६२ ॥ Paramānandīyanāmamālā 5.27.362
- शिवकोष प्रचोदनीतपस्विनी जटामांस्यां रोहिण्यां च पलाशिनी । पद्मिन्यां गन्धमूलायां द्रुमात्रे ना प्रचोदनी ॥ २७५ ॥ Śivakoṣa 16.2.275
- शब्दरत्नावली शाकशूकोऽस्त्री शृङ्गदययोः शङ्का त्रासवितर्कयोः । शाको द्वीपान्तरे शक्तौ द्रुमे ना हरितकेऽस्त्रियाम् ॥ Śabdaratnāvalī 7.1.22
- शब्दरत्नावली पुत्रकपुत्रिका स्यात् पुत्तलिका दुहित्रोर्ना पतङ्गके । पुत्रे धूर्ते द्रुमे शैलेऽप्यनुकम्पान्विते जने ॥ Śabdaratnāvalī 7.1.107
- शब्दरत्नावली खर्जूरीखर्जूः स्त्रियान्तु कण्डूतौ खर्जूरी द्रुमकीटयोः । गञ्जा खनौ स्वरागे(?) स्यात् तथा पामरसद्मनि ॥ Śabdaratnāvalī 7.8.8
- शब्दरत्नावली करहाटकरहाटः पद्मशिफाकन्दे च मदने द्रुमे । कार्यपुटस्तु कृपणे उन्मत्तेऽनर्थकारिणि ॥ Śabdaratnāvalī 7.11.55
- शब्दरत्नावली पलाशिन्प्रणिधानं समाधौ स्यात्प्रयत्ने च प्रवेशने । प्रयोजनं कार्यहेत्वोः पलाशी राक्षसे द्रुमे ॥ Śabdaratnāvalī 7.20.115
- शब्दरत्नावली शिखरिन्वैरोचनो वलौ बुद्धे सिद्धे सूर्याग्निपुत्रयोः । शिखरी द्रुममात्रे स्यादपामार्गे महीधरे ॥ शिखण्डिनी स्त्रियां यूथीगुञ्जयोः प्रमदाभिदि । शिखण्डी वैरिगाङ्गेयकपालबर्हिणेषु च ॥ शृङ्गारी तु सशृङ्गारे सुवेशे गजपूगयोः । भवेच्श्लेष्मधना मल्लीकेतक्योरपि च स्त्रियाम् ॥ Śabdaratnāvalī 7.20.125
- शब्दरत्नावली द्रुतथोपकरणे वृद्धौ सिद्धावपि भवेत् स्त्रियाम् । द्रुर्द्रुमे ना गतौ स्त्री तु स्रुः स्त्रियां निर्झरे स्रवे ॥ Śabdaratnāvalī 7.27.2
- शब्दरत्नावली अद्रिअद्रिः पुंसि द्रुमे शैले मावभेदे च भास्करे । आरः शनैश्चरे भौमे त्वग्भेदिन्यामपि स्त्रियाम् ॥ Śabdaratnāvalī 7.27.4
- शब्दरत्नावली चिकुरचिकुरः केशचिष्काहि-वि-द्रुमिच्यपलाद्रिषु (?) । छित्वरस्त्रिषु धूर्ते स्याच्छेदनद्रव्यवैरयोः ॥ Śabdaratnāvalī 7.27.73
- शब्दरत्नावली पिण्डारपिञ्जरः पीतहेमाश्वभेदपीतनकेषु च । पिण्डारः कृपणे गोवे महिषीरक्षके द्रुमे ॥ Śabdaratnāvalī 7.27.88
- शब्दरत्नावली नीलीनीलः पुंसि कयौ श्याम नीली रागद्रुमेऽपि च । पलन्तु मानके मांसे पल्लं स्थूलकुशूलयोः ॥ Śabdaratnāvalī 7.28.22
- शब्दरत्नावली पीलुपालीच्छात्रादिदेये तु यूकाश्पश्रुयुतस्त्रियोः । पीलुर्गजे द्रुमे काण्डे परमाणुप्रसूनयोः ॥ Śabdaratnāvalī 7.28.24
- शब्दरत्नावली कदलीकदली कदलं रम्भाद्रुमेऽपि न निगद्यते । कामलः कामलारोगे पुमान् मरुवसन्तयोः ॥ Śabdaratnāvalī 7.28.50
- शब्दरत्नावली तमालजाङ्गुली शूकशिम्ब्याञ्च जाङ्गलश्च कपिञ्जरे । तरला मदिरायाञ्च यवाग्वामपि च स्त्रियाम् ॥ तण्डुलो ना विडङ्गे च धान्यादिनिकरेऽपि च । तमालस्तिलके खङ्गे तापिञ्जे वरणे द्रुमे ॥ Śabdaratnāvalī 7.28.67
- शब्दरत्नावली जीवजीवोऽस्त्री जीविते ना तु वृत्तिप्राणिगुरुद्रुमे । जीवा मौर्व्वी वचा भूमिजीवन्तीष्वपि च स्त्रियाम् ॥ Śabdaratnāvalī 7.29.7
- शब्दरत्नावली अलसअलसा स्त्री हंसपद्यां स्यात्पुमान् द्रुमरुग्भिदोः । क्रियामन्दे वाच्यलिङ्गमलसी सरिदन्तरे ॥ Śabdaratnāvalī 7.32.14
- शब्दरत्नाकर अद्रिअविरर्के गिरौ मेषे स्त्री तु स्याद्भूम्युदक्ययोः । अद्रिरर्के द्रुमे शैले व्याले वृत्रासुरेऽप्यहिः ॥ १८६९ ॥ Śabdaratnākara 4.1.1869
- शब्दरत्नाकर तालडिम्भः प्लीह्नि खगापत्ये ढक्कावाघे सरित्यपि । धुतक्ष्णि तक्ष्णि च त्वष्टा तालस्तु नरके द्रुमे ॥ १९२८ ॥ Śabdaratnākara 4.1.1928
- त्रिकाण्डशेष अर्जुनपार्थे द्रुमे मयूरे ना अर्जुनस्त्रिषु पाण्डरे । अर्जुनी गव्युषायां च भृङ्गवृश्चिकयोरली ॥ २२९ ॥ Trikāṇḍaśeṣa 3.3.229
- त्रिकाण्डशेष उदुम्बरगौरीश्वरी शिवस्वामिकन्दर्पेष्वीश्वरः पुमान् । उदारौ दक्षिणस्थूलौ द्रुमे मेढ्रेऽप्युदुम्बरः ॥ ३३२ ॥ Trikāṇḍaśeṣa 3.3.332
- त्रिकाण्डशेष खपुरभद्रमुस्ते गुवाके च खपुरोऽथ द्रुमे पुमान् । रूप्ये खले च खर्ज्जूरः खुरः कोलदले शफे ॥ ३४४ ॥ Trikāṇḍaśeṣa 3.3.344
- वैजयन्ती अद्रिअर्कोऽर्कपर्णे स्फटिके ज्येष्ठभ्रातरि भास्वति । अवयः शैलमेषार्का अद्रयोऽर्कगिरिद्रुमाः ॥ ४ ॥ Vaijayantī 6.1.4
- वैजयन्ती पीलुपीयुः काल उलूके च पीलुः काण्डे गजे द्रुमे । पुण्ट्राः कृमीक्षुतिलकाः पत्री श्येने शरे खगे ॥ ३२ ॥ Vaijayantī 6.1.32
- वैजयन्ती पादपप्रवाहस्तु प्रकृष्टाश्वे जलवेगे प्रवर्तने । पादपः पादपीठे स्यात् पादयाने द्रुमेऽपि च ॥ ४५ ॥ Vaijayantī 7.1.45
- वैजयन्ती अर्जुनअर्जुनः पाण्डवे पाण्डौ मातुरेकसुते द्रुमे । नेत्ररोगे चार्जुनं तु तृणे हेम्न्यर्जुनी गवि ॥ ५ ॥ Vaijayantī 7.5.5