कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

उद्यान

udyānaक्ली · neut.

In 14 kośas: 16 synonym verses, 9 as a nānārtha head word, 4 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.1113 · p. 44
आक्रीडः पुनरुद्यानं राज्ञां त्वन्तःपुरोचितम् ॥ १११२ ॥तदेव प्रमदवनममात्यादेस्तु निष्कुटे ।वाटी पुष्पाद्वृक्षाच्चासौ क्षुद्रारामः प्रसीदिका ॥ १११३ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 प्र (wrong syllable); pāda 3, syllable 5 द्वृ (wrong syllable)
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.5
पुमानाक्रीड उद्यानं राज्ञः साधारणं वनम् ।
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.213 · p. 26
विज्ञेयं प्रमदवनं नृपस्तु यस्मिन्,शुद्धान्तैः सह रमते गृहोपकण्ठे ।उद्यानं स्वयमपरैः समं च लोकै-रन्येषां विभववतां च पुष्पवाटी ॥ २१३ ॥
प्रहर्षिणी
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.5 · p. 249
पर्यायाद्वाटिकार्था च क्षुद्रारामे प्रसाटिका ।पुमानाक्रीड उद्यानं राज्ञः साधारणे वने ॥ ५ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.166 · p. 479
हायनस्तेनमानानां तथैव धनमानयोः ।मानताडनयोरस्तोद्यानयोर्निधनस्य च ॥ १६६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.4 · p. 134
गृहारामा निष्कुटाः स्युः पल्याटा अथ पौरकाः ।बहिर्गृहाच्छून्यवाटी भृष्टीः क्षुद्रप्रसीदिका ।आक्रीडोऽस्त्री तथोद्यानं राज्ञां[19a]साधारणं वनम् ॥ ४ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.5.50 · p. 113
श्राद्धो[232b]त्सेध-कबन्ध-सौध-मधु चान्धं चायुधं चौषधंमौनं मानविमानयानपुलिनापीनोदपानासनम् ।उद्यानं नलिनं खलीनखलिनस्थानाभिधानौदन-ब्रह्मप्रेमसमानजानुनिधनप्रस्फोटनं पक्ष्म च ॥ ५० ॥
शार्दूलविक्रीडितम्metre not read in every line
genderपुंक्लीm. n.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.22 · p. 54
पौरकस्तु बहिःसत्रमाक्रीडोद्यान इत्यपि ।क्षुद्रारामः पुष्पवाटी वृक्षवाटी प्रसीदिका ॥ २२ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास उकारादयः Paramānandīyanāmamālā 5.3.68 · p. 169
उद्भट उत्कटे क्षीवे उत्कटोऽपि तथैव च ।उत्तंसः शेखरे कर्णपूरेऽथोद्यानमुच्यते ॥ ६८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ट (wrong syllable)
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.5.145 · p. 229
समानो वर्धमानश्च विमाननिधने अपि ।हायनस्थानयानानि वस्नोद्यानासनानि च ॥ १४५ ॥
अनुष्टुप्
genderपुंक्लीm. n.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त वृक्षलतौषधिमरीचिः Pañcatattvaprakāśa 1.4.148 · p. 11
विपिनं काननारण्ये गहनं गह्वरं वनम् ।आक्रीडो वातिकोद्यानमारामो राजकाननम् ॥ १४८ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.139 · p. 15
संकुचितं मीलितं च निद्राणं मुद्रितं स्मृतम् ।षण्ड आराम उद्यानं विपिनं काननं वनम् ॥ १३९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 चि (wrong syllable)
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.1950 · p. 321
निष्कुटः स्याद्गृहारामो बाह्यारामस्तु पौरकः ।आक्रीडः स्यात् तथोद्यानं राज्ञां त्वन्तःपुरोचितम् ॥ १९५० ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.3 · p. 57
भवेदाक्रीड उद्यानं राजसाधारणं वनम् ।अन्तःपुरोचितं यत्तु तद्भवेत् प्रमदावनम् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.437 · p. 58
कृत्रिमं वनमाराम उद्यानोपवने समे ।राज्ञां तु वनमाक्रीडो वेश्मारामस्तु निष्कुटः ॥ ४३७ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.3 · p. 45
तदेव राज्ञ उद्यानमाक्रीडश्चाथ तस्य तत् ।सान्तःपुरस्य प्रमदावनं गेहस्य निष्कुटः ॥ ३ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.222
स्यादुद्यानं निःसरणे वनभेदे प्रयोजने ।
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास नार्धश्लोकः Dharaṇikośa 19.2.42 · p. 116
आदानं ग्रहणे ज्ञेयं तुरंगाभरणेऽपि च ।उद्यानं वनान्तरं स्यान्निःसृतौ च प्रयोजने ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 व (wrong syllable)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.36 · p. 252
तुरंगभूषाग्रहणार्थके चहेतौ निदानं गदनिर्णयेऽपि ।स्याद्वत्सदाम्न्यप्यथ पुष्पवाट्यांप्रयोजने भूपतिकेलिभूमौ ॥ ३६ ॥
उपजातिः
doubtful
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.37 · p. 252
उद्यानमस्त्री त्रिषु निःसृते स्या-दम्लान उक्तो नरि पुष्पभेदे ।स वाच्यवन्म्लानिविवर्जितेऽथव्युत्थानमुक्तं च निरुद्धकार्ये ॥ ३७ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नपुंसकलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.3.15 · p. 34
हर्षमुस्तकयोराजावङ्गणे चोद्यमेऽपि च ।उद्यानं सङ्ग्रहोद्गत्योर्वनभेदे प्रयोजने ॥ १५ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नपुंसकलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.3.16 · p. 34
तथा निःसरणेऽथ स्यादूवध्यं हि गुदानिले ।वृक्षायुर्वेदसिद्धे च भूरुहादेर्गदान्तरे ॥ १६ ॥
अनुष्टुप्
doubtful
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास उकारादयः Paramānandīyanāmamālā 5.3.69 · p. 170
शरण्यारण्ययोश्चैवं प्रयोजनविशेषयोः ।उन्मत्तः कितवे धूर्ते उष्णीषं शीर्षवेष्टने ॥ ६९ ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नान्ताः Śabdaratnāvalī 7.20.38 · p. 236
उद्यानं स्यान्निःसरणप्रयोजनवनान्तरे ।उदानो वायुभिज्जठरावर्तनाभिपक्ष्मसु ॥
अनुष्टुप्metre not read in every line
वैजयन्ती Vaijayantī · यादवप्रकाश नपुंसकलिङ्गाध्यायः Vaijayantī 7.3.4 · p. 250
रेतसीन्द्रियमक्षे च दर्शनेऽक्षणि चेक्षणम् ।उद्यानं संग्रहोद्गत्योर्वनभेदे प्रयोजने ॥ ४ ॥
अनुष्टुप्

उद्यान as a meaning in nānārtha verses