प्राचीर
prācīraक्ली · neut.In 4 kośas: 4 synonym verses.
कषीशीर्षं(?) तु तस्याग्रं प्राचीनं वाटिका वृतिः ।आवेष्टकोऽन्त्ये प्राचीरं कुड्यं भित्तिश्च भित्तिका ॥ २७ ॥
अनुष्टुप्
genderक्लीneut.
प्राचीरं प्रावरोऽपि स्यात् प्रावृतिः प्रान्ततो वृतिः ।इष्टकामृत्तिकाद्यैश्च गृहवाट्यादिवेष्टने ॥
अनुष्टुप्
genderक्लीneut.
प्राकारवरणसाला वप्रोऽस्त्री तस्य शिखरकूटानि ।क्षुद्राणि कपिशिरांसि प्राचीरं प्रान्ततोवृतिर्वाटः ॥ ८३२ ॥
गीतिः
genderक्लीneut.
प्राकारो वरणः सालः प्राचीरन्त्वेष सच्छदिः ।आवेष्टकस्तु वाटोऽस्त्री विवृतश्च वृतिद्रुमैः ॥ १४ ॥
अनुष्टुप्
genderक्लीneut.